सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 219, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 219

२१६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ४ अनु० १]
भ्योऽपि नमस्कारोऽस्तु । कीदृशेभ्यः—मन्त्रकृद्भ्यः, मन्त्रं कुर्वन्तीति मन्त्रकृतः
यद्यप्यपौरुषेये वेदे कर्तारो न सन्ति तथाऽपि कल्पादावीश्वरानुग्रहेण मन्त्राणां लब्धारो
मन्त्रकृत इत्युच्यन्ते । तथाच स्मर्यते—
“युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः ।
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा” इति ।
त एव महर्षयः संप्रदायप्रवृत्त्या मन्त्राणां पालनान्मन्त्रपतय इत्युच्यन्ते । तथा-
विधा महर्षयो मां यजमानं मा परादुः परादानमवज्ञां मा कुर्वन्तु, किंत्वनुगृह्णन्तु।
अहमपि तान्महर्षीन्मा परादामवज्ञां न करोमि, कित्वादरेण भजामि ।
द्वितीयभागेन नमस्कारप्रयोजनं दर्शयति—
वै