तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
प्रारंभिक पृष्ठ व विषय-सूची
The uploaded image is completely blank and contains no text. Please upload a clear image containing the text you would like transcribed.
The provided image is completely blank and contains no text to transcribe.
The provided image is completely blank and contains no text to transcribe.
तैत्तिरीयारण्यकम्
सायणाचार्य्यविरचितभाष्यसहितम् ।
श्रीराजेन्द्रलाल-मित्रेण परिशोधितम् ।
कलिकाता-नगर्य्यां
बाप्टिष्ट-मिशन्-यन्त्रे मुद्रितमभूत् ॥
शकाब्दाः १७९२ ॥ ई० १८७१ ॥
The provided image is completely blank and contains no text to transcribe.
तैत्तिरीये आरण्यके
प्रथमप्रपाठके प्रथमोऽनुवाकः।
हरिः ॐ।
भद्रं॒ कर्णे॑भिः शृणुया॒म दे॑वाः। भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑। व्यशे॑म दे॒वहि॑तं॒ यदायुः॑। स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः। स्व॒स्ति नः॑
श्रीगणेशाय नमः।
माधवीये वेदार्थप्रकाशे
तैत्तिरीयारण्यकभाष्यम्।
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
तत्कटाक्षेण तद्रूपं दधद्बुक्कमहीपतिः।
आदिशन्माधवाचार्यं वेदार्थस्य प्रकाशने ॥
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसङ्ग्रहात्।
कृपालुः सायनाचार्यो वेदार्थं वक्तुमुद्यतः ॥
व्याख्याता सुखबोधार्थं तैत्तिरीयकसंहिता।
B
२ तैत्तिरीये आरण्यके
पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु। ॐ शान्ति॒ः शान्ति॒ः शान्ति॑ः।
तद्ब्राह्मणञ्च व्याख्यातं शिष्टमारण्यकं ततः ॥
अरण्याध्ययनादेतदारण्यकमितीर्यते ।
अरण्ये तदधीयीतेत्येवं वाक्यं प्रवक्ष्यते ॥
काण्डमारण्यकं सर्वं व्याख्यातव्यं प्रयत्नतः ।
आरण्यकविशेषांस्तु पूर्वाचार्यैरुदीरिताः ॥
हौत्रं प्रवर्ग्यकाण्डञ्च याश्चोपनिषदो विदुः ।
अरुणीयविधिश्चैव काठके परिकीर्त्तितः ॥
रुद्रो नारायणश्चैव मेधो यश्चैव पिञ्चियः ।
एतदारण्यकं सर्वं नाव्रतो श्रोतुमर्हति ॥
कठेन मुनिना दृष्टं काठकं परिकीर्त्यते ।
सावित्रो नाचिकेतश्च चातुर्होत्रस्तृतीयकः ॥
तुर्यो वैश्वसृजस्तद्वज्जिरारुणकेतुकः ।
स्वाध्यायब्राह्मणञ्चेति सर्वं काठकमीरितम् ॥
नारण्याधीतिनियमः सावित्रादिचतुष्टये ।
अतस्तद्ब्राह्मणग्रन्थे श्रुतं व्याख्यातमप्यदः ॥
वज्रिरारुणकेत्वाख्यः काठके पञ्चमश्रुतः ।
आरण्यकादावाम्नातस्तद्व्याख्याद्य प्रतन्यते ॥
अत्र बोधायने कल्पे तत्प्रकारोऽभिहितः । 'एतेनारुण-
केतुको व्याख्यातो यावन्मन्त्रमभीष्टकाः । लोकं पृणात् च स्वय-
१ प्रपाठके १ अनुवाकः । ३
*(१) ॐ भ॒द्रं कर्णे॑भिः शृणुया॒म दे॑वाः । भ॒द्रं प॑श्येमा॒-
क्षभि॑र्यजत्राः । स्थि॒रैरङ्गै॑स्तुष्टुवाꣳस॑स्त॒नूभिः॑ । व्यशे॑म
दे॒वहि॑तं॒ यदायुः॑।(१)। (२)स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः। स्व॒स्ति
मातृत्वात् चाप एवेति' । पूर्वत्र सावित्रादिचयनानामभि-
हितत्वादेतेनेति तत्परामर्शः । अनूपा इष्टका अबीष्टकाः ।
नात्रेष्टका मृदादिना निष्पादनीयाः । किन्तु आप एवेष्टकाः,
बुद्ध्योपधेया इत्यर्थः । उपधानेऽस्मिन् कल्प एवमभिहितः ।
'उत्तरवेद्यावपनकाले तूष्णीं जानुदघ्नं खात्वान्यत्र मृदं निव-
पति विदेरग्निरित्यादिर्लुप्यते । ध्रुवासीति प्रतिपद्यते । हस्त-
ग्राहमबीष्टका उपदध्यात् । भद्रं कर्णेभिरिति द्वाभ्यां शान्तिं
कृत्वा ताभ्यामुपदधातीति' । हस्तग्राहं हस्तेन गृहीत्वा जल-
मित्यर्थः । तत्र शान्त्यर्थां प्रथमामृचमाह । “(१)भद्रं कर्णेभिः ०
देवहितं यदायुः(२)” इति । हे 'देवाः' इन्द्रादयः, 'भद्रं'
कल्याणं, श्रुतिस्मृतिवाक्यरूपं, 'कर्णेभिः' आचार्यान्तेवासि
रूपाणामृत्विग्यजमानरूपाणां वाऽस्माकं बहूनां कर्णैः 'शृणु-
याम' युष्मत्प्रसादात् सर्वदा श्रोतुं समर्थाः स्याम । अथा च
'यजत्राः' यागक्षमाः, वयं 'भद्रं' कल्याणं, यज्ञादिकं कर्म,
'अक्षभिः' चक्षुरिन्द्रियैः, साक्षात् 'पश्येम' । 'स्थिरैः' अविकलैः,
'अङ्गैः' चक्षुरादिभिर्हस्तादिभिश्चावयवैः, 'तनूभिः' तथाविध-
* एकजात्यङ्कचिह्नद्वयक्रोडीकृत एको मन्त्रो बोद्धव्यः ।
B 2
४ तैत्तिरीय आरण्यके
नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु^(२) । [^(३)आप॑मापामपः सर्वाः॑ ।
अ॒स्माद॒स्मादितो॒मुतः॑ ॥ १ ॥
शरीरैः, युक्ता वयं 'तुष्टुवांसः' युष्मदीयां स्तुतिं कुर्वाणाः,
'यत्' यस्मात् कारणात्, 'देवहितं' देवेन प्रजापतिना सम-
र्पितं, सर्वमपि 'आयुः', 'व्यशेम' विशेषेण प्राप्नुवाम । तस्मादप-
मृत्योरभावाच्चिरं भद्रं शृणुयामेति पूर्वत्रान्वयः ॥
अथ द्वितीयमाह । “^(२)स्वस्ति न इन्द्रः ० बृहस्पतिर्दधा-
तु^(२)” इति । वृद्धैर्महात्मभिः सदा पुराणादिषु श्रूयत इति
'वृद्धश्रवाः', तादृशः 'इन्द्रः', 'नः' अस्माकं, 'स्वस्ति दधातु'
अध्ययनश्रवणानुष्ठानार्थं क्षेमं सम्पादयतु । विश्वं वेत्ति जानाती-
ति 'विश्ववेदाः', तादृशः 'पूषा', अपि 'नः', 'स्वस्ति दधातु' ।
'अरिष्टम्' अहिंसा, तस्य 'नेमि'स्थानीयः, यथा लोहमयी नेमिः
काष्ठमयस्य चक्रस्य भङ्गाभावाय पालयति एवमयं 'तार्क्ष्यः'
गरुडोऽपि, सर्पादिकृतां हिंसां निवार्य तत्पालकत्वात् 'अरि-
ष्टनेमिः', तादृशः तार्क्ष्यः 'नः', 'स्वस्ति दधातु' । 'बृह-
स्पतिः', च ब्रह्मवर्चसं परिपाल्य 'नः स्वस्ति दधातु' । एत-
न्मन्त्रद्वयं शान्त्यर्थमादौ पठित्वा प्रणवद्वयेनाबीष्टकाद्वयमुप-
दध्यात् ॥
कल्पः । 'आपमापामिति पञ्चभिर्महानाम्नीभिरुष्णोदक-
मिति'। उपदधाति इत्यनुवर्त्तते । तत्र प्रथमामाह । “^(३)आप-
१ प्रपाठके १ अनुवाकः । ५
अ॒ग्निर्वा॒युश्च॑ सू॒र्य॑श्च । स॒ह सं॑चस्क॒रर्द्धिया॑⁽३⁾ । ⁽४⁾वा॒व्यश्वा॑ रश्मिप॑तयः । मरी॑च्यात्मानो॒ अद्रु॑हः । दे॒वीर्भुव॑नस्र॒वरीः॑ । पु॒त्रव॒त्वाय॑ मे सुत⁽४⁾ । ⁽५⁾महानाम्नीर्म॑हामानाः॑ ।
मापामपः ० सह संचस्करर्द्धिया⁽३⁾" इति । अहं 'सर्वा अपः' सर्वदेशवर्त्तीनि जलानि, 'आपमापां' पुनः पुनः प्राप्तवानस्मि । आपमित्यस्य वीप्सया पौनः पुन्यं लभ्यते । दीर्घस्य छान्दसत्वाद्वितीयोऽप्यापमित्येव शब्दः । जललाभाय स्थानविशेषा निर्दिश्यन्ते । 'अस्मादस्मात्' इदंशब्देन वीप्सायुक्तेन सर्वनाम्ना-जलस्थानानि गङ्गासरस्वतीयमुनागोदावरीकावेर्यादीनि विद्यन्ते तस्मात् सर्वस्माज्जलस्थानात्, प्राप्तवानस्मीति पूर्वत्रान्वयः । 'इतोऽमुतः' इत्याभ्यां शब्दाभ्यां भूलोकस्वर्गलोकावभिधीयेते । तस्मादप्युभयस्माज्जलं प्राप्तवानित्यन्वयः । तामेतां सर्वजलप्राप्तिम् 'अग्निवायुसूर्याः', सम्पादयन्त्विति शेषः । अहं तैर्देवैः 'सह', 'ऋद्ध्या' समृद्धिनिमित्तं, 'संचस्कर' ता आपः संस्करोमि ॥
अथ द्वितीयामाह । "⁽४⁾वाव्यश्वा रश्मिपतयः ० पुत्रवत्वाय मे सुत⁽४⁾" इति । वायव एवाश्वस्थानीया वोढारो यासामपां ताः 'वाव्यश्वाः', आदित्यरश्मय एव पातारो यासामपां ताः 'रश्मिपतयः', मरीचय एवात्मा शरीरमाधारभूतं यासामपां ताः 'मरीच्यात्मानः', 'अद्रुहः' कस्यचिदपि द्रोहमकुर्वाणाः, 'देवीः' स्वच्छत्वेन द्योतमानाः, 'भुवनस्रवरीः' भूतजातस्य