तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पञ्चमोऽनुवाकः ।
१ प्रपाठके ५ अनुवाकः। २६
सूर्य॑त्वचः । शर्म॑ स॒प्रथा॒ आर्वृ॑णी॒(८) ॥ ३ ॥
दृश्यत इ॒वार॑णे ॥ अनु० ४ ॥
पञ्चमोऽनुवाकः ।
⁽१⁾अतिताम्राणि वासा॑ꣳसि । षष्टिश्चत्रिꣳश॒तश्च च ।
‘मरुतः’, ‘वः’ युष्मत्सकाशात्, सप्रथाः’ विस्तारयुक्तं, ‘शर्म’ सुखकारणमुदकं, ‘इहेह’ एतेषु सर्वेषु जलरहितप्रदेशेषु, ‘आवृणे’ प्राणिजीवनार्थं अहमग्निः सर्वतः प्रार्थये, अनेनापि मन्त्रेण काञ्चिदिष्टिकामुपदध्यात् ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके चतुर्थोऽनुवाकः ॥ * ॥
अथ पञ्चमोऽनुवाकः ।
कल्पः । अतिताम्राणीति चतस्रो मदन्तीस्त्वान्याप्रवर्ग्यवदाद्यन्तयोः शान्तिं कृत्वेति यथा प्रवर्ग्यस्यादौ नमो वाच इति शान्तिः पठ्यते अन्ते शं नो वात इति शान्तिः पठ्यते, एवमत्रापि चतसृणामिष्टकानादादावन्ते च तच्छान्तिद्वयं पठेत् । इष्टका अपि पूर्वेष्टकावत् अन्या आपो न भवन्ति किन्तु मदन्तिकाङ्कास्तप्ता आपस्तास्ततसृभिरुपदध्यात् । तत्र प्रथमामाह ।
(१)“अतिताम्राणि वासाꣳसि • अग्निशिखा असस्रुत”(१) इति ।
३० तैत्तिरीये आरण्यके
विश्वे॑देवा विप्र॑हरन्ति। अ॒ग्निजि॑ह्वा अ॒संश्च॑त^{(१)}। ^{(२)}नै-
व दे॒वो न मर्त्य॑ः। न राजा॒ वरु॑णो वि॒भुः। ना॒ग्निर्नैन्द्रो॑
न प॑वमा॒नः। मा॒दृक्कुंचन॒ विद्य॑ते^{(२)}। ^{(३)}दि॒व्यस्यैका॑
ध॒नुरार्त्निः॑। पृ॒थि॒व्यामप॑रा श्रि॒ता ॥ १ ॥
तस्येन्द्रो॑ वम्रीरू॒पेण॑। धनु॒र्ज्यामच्छि॑नत् स्व॒यम्^{(३)}।
यथा पूर्वत्र वसन्ताद्यृतुसहभाविनां वसुरुद्रादीनां साराग-
शुक्लवस्त्रादीनि एवमत्रापि शिशिरर्तुसहभाविनां विश्वेषां
देवानां 'असितास्राणि', वस्त्राणि आयुधानि च ऋष्ट्यादीनि ते
च 'विश्वेदेवाः', तैर्ऋष्टिवजिग्रतग्निनामकैरायुधविशेषैर्विविधं
शत्रून् 'प्रहरन्ति', ततः 'अग्निजिह्वाः' अरुणकेतुकाग्निरूप-
जिह्वायुक्ताः, 'असंश्चत' जयनिमित्तेनोत्साहेनात्युच्चं शब्दं
कृतवन्तः ॥
अथ द्वितीयामाह। ^{(१)}“नैव देवो न मर्त्यः ॰ मादृक्कुचन
विद्यते”^{(२)} इति। यदास्फोटनं विश्वेदेवैः कृतं। तदत्र स्पष्टी-
क्रियते। 'कचन' कश्चन, कोऽपि देवः, 'मादृक्' मादृक् मत्स-
दृशः, 'न विद्यते'। एवं न मर्त्य इत्यादिष्वपि योज्यं। सोऽयं
विश्वैर्देवैरुद्घोषितः शब्दः ॥
अथ तृतीयामाह। ^{(३)}“दिव्यस्यैका धनुरार्त्निः ॰ मच्छि-
नत् स्वयम्”^{(३)} इति। 'अस्य' विश्वेदेवजिह्वारूपस्यारुण-
केतुकस्याग्नेः, 'एका धनुरार्त्निः' धनुष ऊर्ध्वकोटिः। 'दिवि',
१ प्रपाठके ५ अनुवाकः ॥ २१
$^{(४)}$तदि॑न्द्र॒धनु॒रित्यज्यं॑ । अ॒भ्रवर्णे॑षु चक्ष॑ते । ए॒तदे॒व
शंयोर्बार्ह॑स्प॒त्यस्य॑ । ए॒तद्रु॒द्रस्य॒ धनु॑:।$^{(४)}$ । $^{(५)}$रु॒द्रस्य॑ त्वेव॒-
धनु॒रार्त्तिः॑ । शिर॒ उत्पि॑पेष । स प्र॑व॒र्ग्यो॑ भवत् । त-
स्मा॒द्यः स प्र॑व॒र्ये॑ण य॒ज्ञेन॒ यज॑ते । रु॒द्रस्य॒ स शिर॒: प्रति॑-
'श्रिता', 'अपरा' तु अधस्तनी कोटिः, 'पृथिव्यामाश्रिता' ।
वम्रयः पिपीलिकासमाना जन्तवः । यदीयवमनान् मृत्तिका
द्रवीक्रियते । 'इन्द्रः' यथोक्तधनुर्दर्शनेन भीतः सन् 'वम्रिरू-
पेण', अधःकोटिसमीपे स्थाने स्थित्वा 'तस्य' अरुणकेतुकस्याग्नेः,
धनुष्यवस्थितां 'ज्यां', 'स्वयं' 'अवाच्छिनत्' ॥
अथ चतुर्थीमाह । $^{(४)}$"तदिन्द्रधनु रित्यज्यं ॰ एतद्रुद्रस्य
धनुर्हति"$^{(४)}$ इति । यस्य धनुषो ज्याच्छिन्ना 'तत्' तदेत्, अ-
भिज्ञाः 'अभ्रवर्णेषु' मेघस्थितप्रकाशेषु, दृष्ट्या इन्द्रेणच्छिन्नत्वात्
ज्यारहितं 'इन्द्रधनुः', इत्याचक्षते । योयं बृहस्पतिपुत्रः 'शंयुः',
तस्यापि 'एतदेव', 'धनुः', अनेनैव धनुषाऽसौ स्वकार्यं सम्पाद-
यति । 'एतद्रुद्रस्य धनुः', तस्मादिदमुत्कृष्टं रुद्रो नामात्रारुण-
केतुकोऽग्निः । रुद्रो वा एष यदग्निरिति श्रुतेः । एताभिश्च-
उष्णोदकरूपास्सप्तसप्तउपधेयाः ॥
अथ ब्राह्मणं । $^{(५)}$"रुद्रस्य त्वेव धनुरार्निः ॰ एवं वेद"$^{(५)}$
इति । यदेतत् उच्छिन्नज्याकं 'धनुः', तस्येन्द्रवधं पुराणं धनुष्टम्
३२ तैत्तिरीये आरण्यके
दधाति॑ । नैनꣳ॑रु॒द्र आ॒रुको॑ भवति । य ए॒वं वेद॑ ⁽५⁾
॥ २ ॥
श्रियतायज॑तेची॒र्णिं च॑ ॥ ५ ॥
इत्येतावदेव न, किन्तु ज्यायां छिन्नायामुत्पतन्ती धनुष ऊर्ध्वा कोटिरर्चस्य रुद्रस्य गलमवष्टभ्य पूर्वमवस्थिता तस्य 'रुद्रस्य', 'शिरः', छिन्दन्ती ऊर्ध्वं नीत्वाऽधःपतन्ती 'पिपेष' तच्छिरश्चूर्णी-चकार । 'स' च पिष्टार्द्धशिरोभागः, 'प्रवर्ग्य'रूपेणाविर्बभौ । यस्माद्रुद्रस्य शिर एव प्रवर्ग्यः 'तस्मात्', प्रवर्ग्यसहितेन 'यज्ञेन', यः 'यजते', 'सः' अयं, 'रुद्रस्य', तत् 'शिरः', 'प्रतिदधाति' पुनः समादधाति । 'यः' पुमान् 'एवं' शिरःसमाधानप्रकारं, 'वेद', तम् 'एनं', 'रुद्रः', 'आरुको न भवति', तस्य हिंसां न करोतीत्यर्थः ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥ ❀ ॥
१ प्रपाठके ६ अनुवाकः । ३३
षष्ठोऽनुवाकः ।
(१)अ॒त्यू॒र्ध्वाक्षोऽ॑ति॒रश्चा॑त् । शि॒शि॒रः प्र॒दृश्य॑ते । नैव रू॒पं न वासा॑ꣳसि । न चक्षुः॑ प्रति॒दृश्य॑ते(१) । (२)अ॒न्योन्यं॑
कल्पः । अत्यूर्ध्वाच इति त्रीण्यृतुमण्डलान्येव दृष्ट इति चेति ऋतुमण्डलशब्दस्य मन्त्रनामत्वादुपधेयानामिष्टकानामपि तदेव नाम । तत्र प्रथमामृचमाह । (१)“अत्यूर्ध्वाचोतिरश्चात् ॰ न चक्षुः प्रतिदृश्यते”(१) इति । योऽयं ‘शिशिरः’, ऋतुः सोऽयं प्राणिषु प्रकर्षेण ‘दृश्यते’ । कीदृशः शिशिरः, ‘अत्यूर्ध्वाचः’, तस्मिन्नृतौ यदा शीतबाहुल्यं भवति तदानीं कम्पमानाः प्राणिनो हस्ताभ्यां उर आच्छादयन्तो मुखेन सीत्कारं कुर्वन्तो द्वे भ्रुवावत्यूर्द्धमुन्नमयन्ति, तदिदं तस्यर्त्तोरत्यूर्ध्वाचत्वं । शीतपीडितत्वादेव दक्षिणतो वामतो वा तिर्यङ् न पश्यति । तदिदम् ‘अतिरश्चात्’, इत्युच्यते । यत्तु शरीरस्य ‘रूपं’,तदपि शीतवेलायां प्राणिभिः ‘नैव’,‘दृश्यते’ । ‘वासांसि’, अपि नैव दृश्यन्ते ‘चक्षुः’, अपि दर्पणादौ ‘न प्रतिदृश्यते’ । रूपवस्त्रादिषु नात्यन्तमादरः किन्तु शीतपरिहारमेवान्विच्छन्तीत्यर्थः ॥
अथ द्वितीयामाह । (२)“अन्योन्यं तु न हिंसतः ॰ सूर्यस्योदयनं प्रति”(२) इति । यौ परस्परमत्यन्तद्वेषिणौ युद्धार्थमुद्युक्तौ तावपि शिशिरर्त्तौ ‘अन्योन्यन्तु’, ‘न हिंसतः’ शीत-
३४ तैत्तिरीये आरण्यके
तु॒ न हि॑ꣳसातः । स॒तस्त॑ह्ये॒वलक्ष॑णम् । लो॒हि॒ता॒क्षि॒ण॒ शार॑शीर्ष्णा । सूर्य॑स्यो॒दयं॒ प्रति॑⁽२⁾ । ⁽१⁾त्वङ्क॑रोषि॒ न्यञ्ज॑लिकां । त्वङ्क॑रोषि नि॒जानु॑कां ॥ १ ॥
निवारणाय प्रावरण एव प्रयत्नयुक्तौ सन्तौ परस्परं हिंसा-
मपि न कुरुतः, यदेतदीदृशं प्राणिनां वर्त्तनं 'तत्' 'एतत्' 'सतः'
वर्त्तमानस्य, शिशिरर्त्तोः 'लक्षणं' देवेन सूर्येण सम्पादितं
चिह्नं अनेन लक्षणेन शिशिरत्वं विद्यात् । किञ्च तस्यर्त्तौ-
रभिमानिदेवताविग्रहे 'अक्षिण' चक्षुषी, 'लोहितः', वर्णः भवति
'शीर्ष्णा', शिरसि, 'शार' शारिमायाः, शुक्लिमायाः, यो वर्णः
स वर्णे भवति । कस्मिन् काले अयं वर्णविशेष इति उच्यते ।
'सूर्यस्योदयनं प्रति' सूर्योदयवेलायां । अत्र सर्वत्रोच्यमानेषु
काललक्षणेषु यथा प्रजा सुसम्भवति तत्र प्रजाद्वारेण कालं
लक्षयति । यत्तु प्रजासु न सम्भवति तत् साक्षादेव काला-
भिमानिदेवतायां द्रष्टव्यं ॥
अथ तृतीयामाह । ⁽१⁾"त्वङ्करोषि न्यञ्जलिकां ० अमी वा-
चमुपासतामिति"⁽१⁾ इति । हे शिशिरर्त्तौ 'त्वं', 'अञ्जलिकां'
हस्ताग्रवर्त्तिनमञ्जलिं, 'निकरोषि' न्यग्भूतङ्करोषि, तथा
'जानुकां' जानुप्रदेशमपि, 'त्वं', 'निकरोषि' न्यग्भूतं करोषि ।
सर्वे प्राणिनः शीतबाहुल्यादग्निसेवार्थं हस्तौ न्यग्भूतौ कुर्वन्ति ।
उदरादिदेहावयवतापनाय व्यवधानभूते जानुनी अपि भूमि-
१ प्रपाठके ६ अनुवाकः । ३५
नि जा॑नुका मे॒ न्य॑ञ्जलिका । अमी वाच॑मुपास॑ता-
मिति॑^(३) । ⁽४⁾तस्मै॒ सर्व॑ ऋ॒तवो॑ नमन्ते । म॒र्या॒दा॒कर॒त्वात्
प्र॑पुरो॒धां । ब्रा॒ह्म॒णं प्रा॒प्नोति॑ । य ए॒वं वेद॑ । स खलु
स्पर्शिनी यथाभवत्तथा न्यग्भूते कुर्वन्ति । स्वयमेवं कुर्वन्तो
बुद्धिमन्तो प्रबुद्धान् बालान् प्रत्येवमुपदिशन्ति । हे बालाः
‘अमी’ भवन्तः, ईदृशीं ‘वाचमुपासतां’। कीदृशी वागिति तदु-
च्यते । ‘मे’ मदीया, ‘जानुका’ न्यग्भूता भवतु, ‘अञ्जलिका’,
अपि न्यग्भूता भवत्विति, श्रोतः ‘इति’ शब्द एवंविधलक्षणप्र-
दर्शनार्थः। अनुक्तमप्येतादृशं लोकव्यवहारं दृष्ट्वा तमृतुं जानी-
यात् । ऋतुमण्डलाख्यैरेतैर्मन्त्रैस्तिस्र इष्टका उपदध्यात् ॥
अथ ब्राह्मणमुच्यते। ⁽४⁾“तस्मै सर्व ऋतवो नमन्ते • तस्यै-
षा भवति”⁽४⁾ इति। ‘यः’ पुमान्, ‘एवं’ उक्तैरनुवाकैः प्रतिपा-
दितमृतुस्वभावं, ‘वेद’। ‘तस्मै’ पुरुषाय, ‘सर्वे’ ‘ऋतवः’ वसन्ताद-
यः, ‘नमन्ते’ प्रह्वीभवन्ति स्वाधीना भवन्ति । किंच ‘स ब्राह्मणः’
‘पुरोधां’ पुरतोऽवस्थितिं, सर्वेषु ब्राह्मणेषु प्राधान्यं ‘प्राप्नोति’ ।
ऋतूनां स्वाधीनत्वं दुःखानुत्पादकत्वं तस्मिन् स्वाधीनत्वे प्रा-
धान्यप्राप्तौ च हेतुरुच्यते ‘मर्यादाकरत्वात्’, इति । अयं हि
विद्वान् पुरुषः तेषां वसन्ताद्यृतूनां मर्यादां करोति यस्मिन्
यस्मिन्नृतौ ये धर्माः तत्र तान् प्रवर्त्तयति । मर्यादाकरत्वमेव
कथमिति तदुपपाद्यते । ‘स खलु’ विद्वान् ब्राह्मणः, देहपाता-
दूर्ध्वं ‘संवत्सरः’ भूत्वा संवत्सरनिष्पादकादित्यरूपो भूत्वाऽऽरुण-
F 2
३६ द्वितीये आरण्यके
संवत्सर एतैस्सेनानीभिः सह । इन्द्राय सर्वान् का-
मानभिवहति । सद्रप्सः । तस्यैषा भवति^(४) ॥ २ ॥
^(५)अव॑ द्र॒प्सो अ॑ꣳशु॒मती॑मतिष्ठत् । इया॒नः कृ॒ष्णो दश॑-
भिः स॒हस्रै॑ः । प्राव॑र्त॒मिन्द्र॒ः शच्या॒ धम॑न्तं । उप स्तु॒हि तं
केतुकाग्नितादात्म्यं प्राप्य, ‘एतैः’ ‘सेनानीभिः’ वसन्तो वसुभिः
सह शुक्लवासा रुद्रगण इत्यादिवाक्येषु प्रतिपादितैर्वसन्तादि-
देवतासहवर्त्तिभिर्वस्वादिभिः सेनाधिपतिभिः ‘सह’, वर्त्तमानः
सन् ‘इन्द्राय’ कर्मस्वामिने यजमानाय, ‘सर्वान् कामान्’, ‘अभि-
वहति’ आभिमुख्येन सम्पादयति, तस्मादारुणकेतुकाग्निप्रा-
प्तियोग्यत्वादयं विद्वान् मर्यादाकरो भवत्येव ‘सः’ च विदुषा
प्राप्य आरुणकेतुकः, ‘द्रप्सः’ उदकरूपः, वृष्टिहेतुत्वात् ‘तस्य’
द्रप्सरूपस्यारुणकेतुकाग्नेः, प्रतिपादिकेयं काचिदृग्विद्यते ॥
अथ तामृचं दर्शयति । “^(५)अव द्रप्सो अंशुमतीमतिष्ठत् ॰
नृम्णामथद्राम्^(५) इति । ‘द्रप्सः’ उदकात्मकोऽयमारुणकेतु-
कः, ‘अंशुमती’ अंशुशब्देन सोमलताखण्डवाचिना सर्वा ह्योषधय
उपलक्ष्यन्ते तद्युक्तत्वादंशुमती पृथिवी ताम्, ‘अवातिष्ठत्’
अवगम्य प्राप्य तत्रावस्थितः । कीदृशो द्रप्सः, ‘दशभिः सहस्रैः’
अनेकसहस्रसङ्ख्याकैः आदित्यरश्मिभिः, ‘इयानः’ सञ्चरन्,
आदित्याज्जायते वृष्टिरिति स्मृतेः । ‘कृष्णः’ कृषिहेतुः, सति
ह्युदके भूमिं कृषन्ति । हे आदित्यरूपारुणकेतुकाग्ने ‘इन्द्रः’
वृष्टेरीश्वरस्त्वं, ‘आवत्तं’ पुनःपुनरावृत्य तं, ‘शच्या’ स्वकीयया
१ प्रपाठके ६ अनुवाकः । ३७
*नृम्णामयथ॑द्रा॒मिति॑^{(५)}। ^{(६)}ए॒तयै॒वेन्द्र॑: सला॒वृक्या स॒ह ।
असु॑रान् परि॑वृ॒श्चति॑ । पृथि॒व्यँऽशु॑मती । तामन्व॑वस्थितः
संव॑त्स॒रोदि॒वञ्च॑ । नैवं॑विदु॒षाचा॒र्यान्ते॒वासिनौ॑ । अ॒-
न्यो॒न्यस्मै॑ द्रुह्याता॑म् । यो द्रुह्य॑ति । भ्रश्य॑ते स्व॒र्गाल्लो॒कात् ।
शक्ता, तदा तदाऽपेक्षितकाले समागत्य 'धमन्तं' गर्जनादिनाऽ-
ब्दयन्तं 'नृम्णां' नृभिर्मनुष्यैः, मननीयं सर्वदा प्रार्थनीयं 'अथ-
द्रां' अथो द्रवणशीलम्, 'तं' द्रप्सं, उदकविशेषं, 'उपस्तुहि' । भूमौ
प्रस्रावय इत्यनेन मन्त्रेण द्रप्सवतीमिष्टकामुपदध्यात् ॥
अथ ब्राह्मणमुच्यते । ^{(६)}“एतद्वैवेन्द्रः ० अत ऊर्ध्वं मनिर्व-
चनाः”^{(१)} इति। योऽयं 'इन्द्रः' आरुणकेतुको वृष्टिखामी, 'सला-
वृक्या' सलः सलिलं जलन्तस्य 'आवृका' दानं तद्युक्ता भूमिः
सलावृकी एतया सलावृक्या निमित्तभूतया, 'सह', 'असुरान्'
असवः प्राणा रमन्ते क्रोडन्ते येषु मेघेषु सत्सु ते मेघा असुराः
तान्, 'परिवृश्चति' परितश्छिनत्ति, अयं देवो जलार्थी
पृथिवीनिमित्तं मेघभेदं कृत्वा वर्षयतीत्यर्थः । पूर्वोक्तमन्त्रे येयं
'अंशुमती', कथिता सेयं 'पृथिवी', विवक्षिता 'तां' पृथिवीं,
'दिवञ्च', अनुसृत्य अयं संवत्सरात्मक आरुणकेतुको देवो वह्नि-
रूपेणादित्यरूपेण वा 'अवस्थितः', यः पुमानेवमारुणकेतुका-
ग्नेर्महिमानं जानाति तेन 'एवंविदुषा', सह 'आचार्यान्तेवासि-
नौ', 'अन्योन्यस्मै', द्रोहं कर्तुं नार्हतः आचार्योऽध्वर्युः यज्ञे धर्मा-
* नृणामिति A. C. पुस्तकद्वयसम्मतः पाठः ।
| ३८ | तैत्तिरीये आरण्यके |
|---|
इत्यृतुम॑ण्डला॑नि । सूर्यम॑ण्डलान्य॒ाख्यायि॑काः । अत ऊ॒र्ध्वँ स॒निर्व॑चनाः^(६) ॥ ३ ॥
नि॒जानु॑कां भ॑व॑ति द्रुह्याताम॒म्वञ्च॑ च^(६) ॥ अनु० ६ ॥
नाचरतीतिव्युत्पत्तेः यजमानोन्तेवासी तस्याध्वर्योः समीपे नि-
वासात् तावध्वर्युयजमानावभिज्ञेन सह द्रोहयोग्यौ न भवतः
स्वयं द्रोग्धावपि न भवतः द्रोग्धारावपि न भवत इति वक्तु-
मन्योन्यस्मा इत्युक्तं, तस्मै विदुषे स्वयं द्रोहमकृत्वा सोपि यथा
न द्रुह्यति तथा वर्त्तितव्यं, ‘यः’ मूढः, तस्मै विदुषे ‘द्रुह्य-
ति’, सोऽयं स्वर्गलोकाद्भ्रष्टो भवति तस्मान्न द्रोहः कर्त्तव्यः,
स्मृतिः प्रत्यक्षमृत्यारभ्य पञ्चस्वनुवाकेषु प्रोक्तोर्थ उपसंह्रियते।
‘इति’ एवमतीते ग्रन्थे, ऋतूर्ऋतूनानुद्यमान इत्यादिभिर्ऋतु-
मण्डलप्रतिपादकानि वाक्यान्युक्तानि, एतैरादित्यमण्डलम-
त्यादिभिः सूर्यमण्डलप्रतिपादकानि वाक्यान्युक्तानि, पूर्वोक्त
एवार्थो दृढमाख्यायते। यासु ऋचु उदाहृतासु ता आख्या-
यिकाः शुकन्ते अन्यदित्यादयः ता अप्युक्ताः, अत ऊर्ध्वमुपरि-
तनेष्वनुवाकेषु ‘सनिर्वचनाः’ निःशेषेण वचनं निर्वचनं ब्राह्मण-
न्तेन सहिताः, ‘आख्यायिकाः’, सनिर्वचनाः पूर्वेष्वनुवाकेषु म-
न्त्रप्रतिपादितेऽर्थे संवादार्थमृच उदाहृताः, उत्तरेष्वनुवाकेषु
ब्राह्मणप्रतिपादितेऽर्थे संवादार्थमृच उदाह्रियन्त इत्यर्थः ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-
रण्यके प्रथमप्रपाठके षष्ठोऽनुवाकः ॥ ० ॥