तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
द्वादशदिनानुष्ठानं प्रशस्य उपसद्भ्यः प्राचीनप्रतीचीनकालानु-
५८८ तैत्तिरीये आरण्यके
द्वादशदिनानुष्ठानं प्रशस्य उपसद्भ्यः प्राचीनप्रतीचीनकालानु-
ष्ठाने* प्रशंसति। “यत् पुरस्तादुपसदां प्रवृज्यते। तस्मादितः पराङ्-
मूँल्लोकाँ स्तपन्नेति। यदुपरिष्टादुपसदां प्रवृज्यते। तस्मादमुतोऽ-
र्वाङिँमाँल्लोकाँ स्तपन्नेति” इति। (५ प्र० । १२ अ० । २ म०)। प्रवर्ग्यः
आदित्यस्वरूपः, उपसदः लोकस्वरूपाः, तथा सति प्रतिदिनं प्रव-
र्ग्यानुष्ठानाय पश्चादुपसदानुष्ठानादादित्योऽधोभागवर्त्ती ‘पराङ्’
ऊर्ध्वाभिमुखः सन्, ‘इतः’, अपि उपरितनान् ‘अमून्’ स्व-
र्गादिलोकान्, ‘तपन्नेति’ प्रकाशयन् सञ्चरति । तथा पूर्व्वपूर्व्व-
दिनगतेभ्यः उपसद्भ्यः उत्तरोत्तरदिनगतः प्रवर्ग्यः ‘उपरिष्टात्’,
वर्त्तते । ‘तस्मात्’, असावादित्य ऊर्ध्वलोकवर्त्ती सन् ‘अमुतोऽर्वाङ्’
स्वर्गलोकादधोमुखो भूत्वा, ‘इमान्’ भूरादीन् लोकान्, प्रकाशयन्
सञ्चरति ॥
वेदनं प्रशंसति। “य एवं वेद। एव तपति ॥ ३ ॥” इति। (५ प्र० ।
१२ अ० । ३ म०)। ‘यः’ पुमान्, ‘एवं’ उक्तेन प्रकारेण, प्रवर्ग्यस्या-
धस्तादुपरिष्टाच्चावस्थानं जानाति सोऽयं सर्व्वतः प्रकाशितः ‘एव’।
तदेवं ब्राह्मणगताभ्यां एकादशद्वादशानुवाकगताभ्यां त्रिचत्वारिं-
शदनुवाकोक्तमन्त्रैरनुष्ठेयः प्रवर्ग्यः प्रशस्तः ॥
नक्षत्राण्येति, विराजमेति, तपति ॥ अनु० ॥ १२ ॥
इति पञ्चमप्रपाठके द्वादशोऽनुवाकः ॥
* प्राचीनकालानुष्ठानमिति E चिह्नितपुस्तकपाठः ।