सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

॥ श्रीः ॥

स्वप्नवासवदत्तादिनाटकचक्रस्योपोद्घातः ।

—————————

एतद्राज्यान्तर्गतस्य पद्मनाभपुरस्योपकण्ठस्थिताद् मणलिकरमठात्
प्रपूर्वतरेके हायने संस्कृतग्रन्थान् संगृह्णन् कतिपयनाटकशालिनं कमपि तालपत्र-
अपूर्वनाटक- सम्पुटमहमुपलब्धवान् । तत्र पत्राणि १०५, प्रतिपृष्ठं १०
चक्रलाभः । पङ्क्तयः, २० ग्रन्थाश्च । लिपिस्तु प्राचीनकैरली । तत्र त्रिश-
ताधिकवर्षवृद्धत्वप्रतिभासेऽपि पत्रेषु न जीर्णिकृतोऽक्षरविलोपः, ऋते द्वादशभ्य
आदितः पत्रैकदेशेभ्यः । अर्थोदारगम्भीरता गद्यपद्यवाक्यरचनारीतिर्वा तत्रार्षम-
हाग्रन्थसाधारणी प्रसिद्धमहाकविग्रन्थापेक्षया रोचनीयतरा च मे प्रतिभाता । ततः
परीक्षिते तस्मिन् ग्रन्थसम्पुटे दश रूपकाण्यधोदत्तनामान्यदृश्यन्त —

१ स्वप्ननाटकम् । ६ अविमारकम् ।
२ प्रतिज्ञानाटिका । ७ बालचरितम् ।
३ पञ्चरात्रम् । ८ मध्यमव्यायोगः ।
४ चारुदत्तम् । ९ कर्णभारम् ।
५ दूतघटोत्कचम् । १० ऊरुभङ्गम् ।

एकादशमपि किञ्चिद् रूपकमुपक्रान्तं तत्रास्ति, यदीयप्रथमपत्रोत्तरपृष्ठस्यार्धपङ्क्ताव-
स्थाने लिपिः परिसमापिता । अथापरस्यां यात्रायां कट्टित्तुरुत्तिसमीपवासिनः
कैलासपुराभिजनस्य गोविन्दपिषारोटिनाम्नो ज्यौतिषिकस्य सकाशादभिषेक-
नाटकं प्रतिमानाटकमिति द्वे नाटके पूर्वोक्तनाटकसजातीये अधिगते । एतदधि-
गमानन्तरमेवैनयोरेकैकस्य प्रतिरूपस्य राजकीयग्रन्थशालायामपि सत्तावधारिता ।
एतेऽपि ग्रन्थसम्पुटास्तालपत्रात्मकाः केरलीयलिपयस्त्रिचतुरशतवर्षवृद्धसम्भाव्याश्च ।
एवं तावददृष्टचराण्यश्रुतचराणि च द्वादश (अथवा त्रयोदश) रूपकाण्युपल-
ब्धानि ।

२ उपोद्घातः
आदौ नान्दी प्रयुज्य ‘नान्द्यन्ते सूत्रधार’ इति कथनं नाटकेष्वौत्सर्गिकम्।
एषु तु ‘नान्द्यन्ते ततः प्रविशति सूत्रधार’ इत्यादावुपक्रम्य ततो मङ्गलश्लोको लि-
नाटकप्रस्थानरीतिः। ख्यत इत्येषा रीतिः ; प्रस्तावनापदस्थाने च स्थापनापदस्य
प्रयोगः। शूद्रककालिदासादिप्रणीतेषु सर्वेषु नाटकेषु प्र-
स्तावनायां कविकाव्ययोर्नामनिर्देशः केषुचित् स्तुतिश्च प्रस्तावनाङ्गतया वितन्येते;
एतेषु पुनर्नाटकेषु कवेः काव्यस्य वा नाममात्रमपि स्थापनायां न कीर्त्यते। ‘अस्मा-
कं *राजश्रेष्ठः कृत्स्नां भूमिं प्रशास्तु’ इति वा ‘अस्माकं राजा भूमिं प्रशास्तु’ इति
वा काचित् प्रार्थनामुद्रा भरतवाक्ये नियमेन निवेशिता । अन्ते अमुकनाटकमव-
सितमिति नाटकनामधेय सर्वत्र लिखितमस्ति । त इमे व्यतिरेका अधस्तादुदाहृ-
तेभ्यः स्वप्ननाटकादीनामारम्भ-समाप्तिवाक्येभ्यः स्पष्टमवगन्तुं शक्याः । तत्र
यथा स्वप्ननाटकस्य (आरम्भवाक्यम्)—
“(नान्द्यन्ते ततः प्रविशति सूत्रधारः )
सूत्रधारः—
उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् ।
पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ॥
एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे
शब्द इव श्रूयते । अङ्ग! पश्यामि ।
( नेपथ्ये )
उस्सरह उस्सरह अय्य! उस्सरह ।
सूत्रधारः — भवतु विज्ञातम् ।
भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः ।
धृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः ॥
(निष्क्रान्तः)
स्थापना ।”

  • ‘राजसिंहः प्रशास्तु न’ इत्यत्र राजसिंहपदं राजश्रेष्ठार्थकम्। पल्लवेषु राजसु कश्चिद्
    राजसिंहसंज्ञो राजा यद्यपि श्रुतः , तथापि तस्य क्रैस्तवर्षारम्भोत्तरकालिकत्वाद् नाटकचक्रकर्तुः
    क्रैस्तवर्षारम्भप्राक्तनतायाः साधयिष्यमाणत्वाच्च न राजसिंहशब्दस्य तत्परत्वं युक्तमित्यभिप्रायः।

उपोद्घातः ३
(समाप्तिवाक्यम्)—
“(भरतवाक्यम् )
इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥
षष्ठोऽङ्कः ।
स्वप्ननाटकमवसितम् ॥”
यथा प्रतिज्ञानाटिकायाः (आरम्भवाक्यम्)—
“ ( नान्द्यन्ते ततः प्रविशति सूत्रधारः )
सूत्रधारः—
पातु वासवदत्तायो महासेनोऽतिवीर्यवान् ।
वत्सराजस्तु नाम्ना सशक्तिर्यौगन्धरायणः ॥
(परिक्रम्य नेपथ्याभिमुखमवलोक्य)
आर्ये! इतस्तावत् ।
(प्रविश्य )
नटी—अय्य! इअह्मि ।
सूत्रधारः—आर्ये! गीयतां तावत् किञ्चिद्वस्तु । ततस्तव गीतप्रसाधिते
रङ्गे वयमपि प्रकरणमारभामहे । आर्ये! किमिदं चिन्त्यते ननु गीयते ।
नटी—अज्ज! मए सिविणे णादिकुळस्स असत्थं विअ दिट्ठं। ता इच्छा-
मि अय्येण कुसळविण्णाणनिमित्तं कञ्चि पुरुसं पेक्खिदुं ।
सूत्रधारः—बाढम् ।
पुरुषं प्रेषयिष्यामि व्यक्तमात्माहिते क्षमम् ।
(नेपथ्ये)
साळक! सज्जस्त्वम् ।

द्वितीय व तृतीय अङ्क: कन्दुक क्रीडा व कौतुकमाला प्रसंग

४ उपोद्घातः
सूत्रधारः—
पुरुषं प्रेषयत्येष यथा यौगन्धरायणः ॥
(निष्क्रान्तौ)
स्थापना । ”
(समाप्तिवाक्यम्)—
“ ( भरतवाक्यम् )
भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु ।
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥
( निष्क्रान्ताः सर्वे )
चतुर्थोऽङ्कः ।
प्रतिज्ञानाटिकावसिता ॥”
यथा पञ्चरात्रस्य (आरम्भवाक्यम्)—
“(नान्द्यन्ते ततः प्रविशति सूत्रधारः )
सूत्रधारः—
द्रोणः पृथिव्यर्जुनभीमदूतो यः कर्णधारः शकुनीश्वरस्य ।
दुर्योधनो भीमयुधिष्ठिरः स पायाद् विराडुत्तरगोऽभिमन्युः ॥
(परिक्रम्य) एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे
शब्द इव श्रूयते । अङ्ग! पश्यामि ।
(नेपथ्ये)
अहो कुरुराजस्य यज्ञसमृद्धिः ।
सूत्रधारः—भवतु विज्ञातम् ।
सर्वैरन्तःपुरैः सार्धं प्रीत्या प्राप्तेषु राजसु ।
यज्ञो दुर्योधनस्यैष कुरुराजस्य वर्तते ॥
( निष्क्रान्तः)
स्थापना ।”

उपोद्घातः ५
(समाप्तिवाक्यम्)—
“द्रोणः —
इत्यर्थं वयमानीताः पञ्चरात्रोऽपि वर्तते ।
धर्मेणावर्जिता भिक्षा धर्मेणैव प्रदीयताम् ॥
दुर्योधनः—
बाढं दत्तं मया राज्यं पाण्डवेभ्यो यथापुरम् ।
मृतेऽपि हि नराः सर्वे सत्ये तिष्ठन्ति तिष्ठति ॥
द्रोणः—
हन्त सर्वे प्रसन्नाः स्मः प्रवृद्धकुलसङ्ग्रहाः ।
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥
(निष्क्रान्ताः सर्वे)
तृतीयोऽङ्कः ।
अवसितं पञ्चरात्रम् ॥”

यथा चारुदत्तनाटकस्य (आरम्भवाक्यम्)—
“(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः —किण्णुखु अज्ज पच्चूस एव्व णिक्खन्तस्स बुभुक्खाए
पुक्खरपत्तपडिदजळबिन्दू विअ चञ्चळाअन्ति विअ मे अक्खीणि । (परिक्रम्य)
जाव गेहं गच्छिअ जाणामि किण्णुहु संविधा विहिदा ण वेत्ति । एदं
अम्हाणं गेहं । जाव पविसामि । (प्रविश्यावलोक्य) जह ळोहीपरिवट्टणकाळसारा
भूमी णेउठभामणसुगन्धो विअ गन्धा सुणिमित्तं विअ परिब्भमन्तो वाडव-
स्सअजणो । किण्णुखु संविधा विहिदा । आदु बुभुक्खाए ओदणमअं विअ
जीवळोअं पेक्खामि । अय्ये ! इदो दाव ।
नटी — अय्य ! इअह्मि । अय्य ! दिट्ठिआ खु सि आअदो ।
सूत्रधारः ---- अय्ये ! किं अत्थि अम्हाणं गेहे को वि पादरासो ।

६ उपोद्घातः
नटी — अत्थि ।
सूत्रधारः — चिरं जीव । एवं सोभणाणि दत्तिआ होहि ।
नटी — अय्य ! तुवं एव्व पडिवाळेन्ती चिट्ठामि ।
सूत्रधारः — अय्ये ! किं अब्भत्थिदं ।
नटी — अत्थि ।
सूत्रधारः — एवं देवा तुमं अस्सासन्तु । अय्ये ! किं किं ।
नटी — घिदं, गुळं, दहि, तण्डुला अत्थि ।
सूत्रधारः — एदं सव्वं अह्माणं गेहे अत्थि ।
नटी — णहि णहि, अन्तळावणे ।
सूत्रधारः — (सरोषम्) आः अणय्ये ! एवं दे आसा छिन्दीअदु । अभावं
च गमिस्ससि । अहं चण्डप्पवादलण्डुओ विअ वरण्डा पच्चादादो दूरं आरो-
विअ पाडिदोम्हि ।
नटी — मा भाआहि मा भाआहि । मुहुत्तं पडिवाळेदु अय्यो । सव्वं
सज्जं भविस्सदि । ळद्धं णाम एदं । अज्ज मम उववासस्स अय्यो सहाओ होदु ।
सूत्रधारः — किण्णामहेओ अय्याए उववासो ।
नटी — अभिरूववदी णाम ।
सूत्रधारः — किं अण्णजादीए ।
नटी — आम ।
सूत्रधारः — सव्वं दाव चिट्ठदु । कोणु दाणि अय्याए उववासस्स उव-
देसिओ ।
नटी — इमिणा पडिवस्सएण चुण्णगोट्ठेण ।
सूत्रधारः — साहु चुण्णगोट्ठ ! साहु ।
नटी — जइ अय्यस्स अणुग्गहो, तदो इच्छेअं अह्मारिसजणजोग्गं कञ्चि
बम्हणं णिमन्तेदुं ।

उपोद्घातः ७
सूत्रधारः— धम्मिठ्ठो खु णिओओ। तेण पादरासो वि मे भविस्सदि। जइ
एव्वं पविसदु अय्या। अहं वि अम्हारिसजणजोग्गं कञ्चि बह्मणं अण्णेसामि।
नटी — जं अय्यो आणवेदि। (निष्क्रान्ता)
सूत्रधारः— किण्णुखु दरिद्दबह्मणं लभेअं। (विलोक्य) एसो अय्यचारु-
दत्तस्स वअस्सो अय्यमेत्तेओ णाम बह्मणो इदो एव्व आअच्छदि। जाव
उवणिमन्तेमि। (परिक्रम्य) अय्य! णिमन्तिदो सि। आमन्तणस्स मा दरिद्दत्ति
अवमण्णेहि। सम्पष्णं अहिट्ठव्वं भविस्सदि। घिदं, गुळं, दहिं, तण्डुला अ
सव्वं अत्थि। अविअ दक्खिणामासआणि भविस्सन्ति।
(नेपथ्ये)
अण्णं अण्णं णिमन्तेदु दाव भवं। दरिद्दओ दाव अहं।
सूत्रधारः—
घिदगुळदहिसुसमिद्धं धूविअसूवोपदेससंभिण्णं।
सकारदत्तमिदं भुञ्जीअदु भक्कमय्येण॥
(निष्क्रान्तः)
स्थापना। "
(समाप्तिवाक्यम्)—
“गणिका — एहि इमं अळङ्कारं गह्निअ अय्यचारुदत्तं अहिसरिस्सामो।
चेटी — अज्जुए! तह। एदं पुण अभिसारिआसहाअभूदं दुद्दिणं
उण्णमिदं।
गणिका — हदासे! मा खु वड्ढावेहि।
चेटी — एदु एदु अज्जुआ।
(इति निष्क्रान्ते)
चतुर्थोऽङ्कः।
अवसितं चारुदत्तम्॥”

८ उपोद्घातः
यथा दूतघटोत्कचस्य (आरम्भवाक्यम्)—
“(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः—
नारायणस्त्रिभुवनैकपरायणो वः
पायादुपायगतयुक्तिकरः सुराणाम् ।
लोकत्रयाविरतनाटकतन्त्रवस्तु-
प्रस्तावनाप्रतिसमापनसूत्रधारः ॥
एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे
शब्द इव श्रूयते । अङ्ग! पश्यामि ।
(नेपथ्ये)
भो! भोः! निवेद्यतां निवेद्यतां तावत् ।
सूत्रधारः—भवतु विज्ञातम् । एष खलु संशप्तकानीकनिर्वाहके जनार्दन-
सहाये धनञ्जये तदनन्तरमुपगतभीष्मवधामर्षितैर्धार्तराष्ट्रैः परिवार्य निहतः
कुमारोऽभिमन्युः । तथाहि—
यान्त्यर्जुनप्रत्यभियानभीता यतोऽर्जुनस्तां दिशमीक्षमाणाः ।
नराधिपाः स्वानि निवेशनानि सौभद्रबाणाङ्कितनष्टसंज्ञाः ॥
(निष्क्रान्तः )
स्थापना । ”
(समाप्तिवाक्यम्)—
“घटोत्कचः—पितामह! एष गच्छामि ।
धृतराष्ट्रः—पौत्र! गच्छ गच्छ ।
घटोत्कचः—भो भो राजानः! श्रूयतां जनार्दनस्य पश्चिमसन्देशः ।
धर्मं समाचर कुरु स्वजनव्यपेक्षां
यत् काङ्क्षितं मनसि सर्वमिहानुतिष्ठ ।

जात्योपदेश इव पाण्डवरूपधारी
सूर्यांशुभिः सममुपैष्यति वः कृतान्तः ॥
(इति निष्क्रान्ताः सर्वे)
दूतघटोत्कचमवसितम् ॥”

यथाविमारकस्य (आरम्भवाक्यम्)—
“(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः—
उत्क्षिप्तां सानुकम्पं सलिलनिधिजलादेकदंष्ट्राग्ररूढा-
माक्रान्तामाजिमध्ये निहतदितिसुतामेकपादावधूताम् ।
सम्भुक्तां प्रीतिपूर्वं स्वभुजवशगतामेकचक्राभिगुप्तां
श्रीमान् नारायणस्ते प्रदिशतु वसुधामुच्छ्रितैकातपत्राम् ॥
(नेपथ्याभिमुखमवलोक्य) आर्ये! इतस्तावत् ।
(प्रविश्य)
नटी — अय्य! इअह्मि ।
सूत्रधारः — आर्ये! तव वदनजनितकौतूहलेन स्मितेन निवेदित इवान्त-
र्गतो भावः । ननु किञ्चिद् वक्तुकामासि ।
नटी — को एत्थ विम्हओ, अय्यो भावञ्ओ त्ति ।
सूत्रधारः — तेन हि स्वैरमभिधीयताम् ।
नटी — इच्छेमि अय्येण सह उय्याणं गन्तुं । अत्थि मे तहिं इत्थिआक-
रणीअं णिअमकरयं ।
(नेपथ्ये)
भूतिक! त्वमप्युद्यानं गच्छ कुरङ्गीरक्षणार्थं म(द)भावस्थो ह्यञ्जनगिरिः ।
सूत्रधारः — आर्ये! ननु भवत्या श्रुतम् उद्यानं गता राजपुत्रीति । त-
स्मात् सम्प्रति सर्वतः परिगुप्तानि भवन्त्युद्यानानि । प्रतिनिवृत्तायां राजसुतायां
स्वैरं गमिष्यावः !

१० उपोद्घातः
नटी — जं अय्यो आणवेदि ।
(निष्क्रान्तौ)
स्थापना । ”
(समाप्तिवाक्यम्)—
“ ( भरतवाक्यम् )
भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु ।
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥
(निष्क्रान्ताः सर्वे)
षष्ठोऽङ्कः ।
अविमारकस्य षष्ठोऽङ्कः । एषोऽवसितश्च ॥ ”
यथा बालचरितस्य (आरम्भवाक्यम् ) —
“ (नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः—
शङ्खक्षीरवपुः पुरा कृतयुगे नाम्ना तु नारायण-
त्रेतायां त्रिपदार्पितत्रिभुवनो विष्णुः सुवर्णप्रभः ।
दूर्वाश्यामनिभः स रावणवधे रामो युगे द्वापरे
नित्यं योऽञ्जनसन्निभः कलियुगे वः पातु दामोदरः ॥
एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द
इव श्रूयते । अङ्ग! पश्यामि ।
(नेपथ्ये)
अहं गगनसञ्चारी ।
सूत्रधारः — भवतु विज्ञातम् ।
पतत्यसौ पुष्पमयी च वृष्टिर्नदन्ति तूर्याणि च देवतानाम् ।
द्रष्टुं हरिं वृष्णिकुले प्रसूतम्भ्यागतो नारद एष तूर्णम् ॥
(निष्क्रान्तः)”

उपोद्घातः ११
(समाप्तिवाक्यम्)—
“(भरतवाक्यम्)
इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥
पञ्चमोऽङ्कः ।
अवसितं बालचरितम् ॥”
यथा मध्यमव्यायोगस्य (आरम्भवाक्यम्)—
“(ततः प्रविशति सूत्रधारः )
सूत्रधारः—
पायात् स वोऽसुरवधूहृदयावसादः
पादो हरेः कुवलयामलखङ्गनीलः ।
यः प्रोद्यतस्त्रिभुवनैक्रमणे रराज
वैडूर्यसंक्रम इवाम्बरसागरस्य ॥
एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द
इव श्रूयते । अङ्ग! पश्यामि ।
(नेपथ्ये)
भोस्तात! कोनुखल्वेषः ।
सूत्रधारः— भवतु विज्ञातम् ।
भोःशब्दोच्चारणादस्य ब्राह्मणोऽयं न संशयः ।
त्रास्यते निर्विशङ्केन केनचित् पापचेतसा ॥
(नेपथ्ये)
भोस्तात! कोनुखल्वेषः ।
सूत्रधारः— हन्त दृढं विज्ञातम् । एष खलु पाण्डवमध्यमस्यात्मजो
हिडिम्बारणिसम्भूतो राक्षसामिरकृतवैरं ब्राह्मणजनं वित्रासयति । मोः! कष्टं

१२ उपोद्घातः
कष्टं खलु पत्नीसुतपरिवृतस्य ब्राह्मणस्य वृत्तान्तः । अत्र हि—
श्रान्तैः सुतैः परिवृतस्तरुणैः सदारो
वृद्धो द्विजो निशिचरानुचरः स एषः ।
व्याघ्रानुसारचरितो वृषभः सधेनुः
सन्त्रस्तवत्स इव (चा)कुलतामुपैति ॥
(निष्क्रान्तः)
स्थापना ।"
────────
(समाप्तिवाक्यम्)—
“भीमसेनः—हिडिम्बे! इतस्तावत् । वत्स घटोत्कच! इतस्तावत् ।
तत्रभवन्तं केशवदासमाश्रमपदद्वारमात्रमपि सम्भावयिष्यामः ।
यथा नदीनां प्रभवः समुद्रो यथाहुतीनां प्रभवो हुताशः ।
यथेन्द्रियाणां प्रभवं मनोऽपि तथा प्रभुनॊ भगवानुपेन्द्रः ॥
(निष्क्रान्ताः सर्वे)
मध्यमव्यायोगोऽवसितः ॥”
────────
यथा कर्णभारस्य * (समाप्तिवाक्यम्)—
“कर्णः—अये शब्द इव श्रूयते किन्नुखल्विदम् ।
शङ्खध्वनिः प्रलयसागरतुल्यघोषः
कृष्णस्य वा ननु भवेत् स तु फल्गुनस्य ।
नूनं युधिष्ठिरपराजयकोपितात्मा
पार्थः करिष्यति यथाबलमद्य युद्धम् ॥
────────────────────────────────────

  • अस्य स्थापनाप्रकरणं न दृश्यते ।

उपोद्घातः १३
शल्यराज! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः ।
शल्यः—बाढम् ।
(निष्क्रान्तौ)
कर्णभारमवसितम् ॥ "
—————
यथा ऊरुभङ्गस्य (आरम्भवाक्यम्)—
“(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः—
भीष्मद्रोणतटां जयद्रथजलां गान्धारराजह्रदां
कर्णद्रौणिकृपोर्मिनक्रमकरां दुर्योधनस्रोतसम् ।
तीर्णः शत्रुनदीं शराससिकतां येन प्लवेनार्जुनः
शत्रूणां तरणेषु वः स भगवानस्तु प्लवः केशवः ॥
एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द
इव श्रूयते । अङ्ग ! पश्यामि ।
(नेपथ्ये)
एते स्मो भो! एते स्मः ।
सूत्रधारः — भवतु विज्ञातम् ।
.... .... .... .... .... .... .... .... .... .... .... .... ....
.... .... .... .... .... .... .... .... .... .... .... .... ....
स्थापना ।”
————
(समाप्तिवाक्यम्) —
“बलदेवः—
याम्येष सज्जनधनानि तपोवनानि
धृतराष्ट्रः—
पुत्रप्रणाशविफलं हि धिगस्तु राज्यम् ।

१४ उपोद्घातः
अश्वत्थामा—
यातोऽद्य सौप्तिकवधोद्यतबाणपाणि-
र्गां पातु नो नरपतिः शमितारिपक्षः ॥
(निष्क्रान्ताः सर्वे)
ऊरुभङ्गमवसितम् ॥”
यथानवगतनामकस्य नाटकस्यारम्भवाक्यानि —
“(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः—
पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः ।
व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे ॥
एवमार्यमिश्रान् विज्ञापयामि। किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रू-
यते । अङ्ग! पश्यामि ।
(नेपथ्ये)
भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति ।
सूत्रधारः — भवतु विज्ञातम् ।
उत्पन्ने धार्तराष्ट्राणां विरोधे पाण्डवैः सह ।
पर्यैति मन्त्रशालायां भृत्यो दुर्योधनाज्ञया ॥
(निष्क्रान्तः)
स्थापना । ”
(ततः प्रविशति काञ्चुकीयः)
भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति —
अद्य सर्वपार्थिवैः सह मन्त्रयितुमिच्छामि । तदाहूयन्तां सर्वे राजान इति ।
अये अयं महाराजो दुर्योधन इत एवाभिवर्तते । य एषः,
श्यामो युवा सितदुकूलकृतोत्तरीयः
सच्छत्रचामरवरो रचिताङ्गरागः ।

उपोद्घातः १९
श्रीमान् विभूषणमणिद्युतिरञ्जिताङ्गो
नक्षत्रमध्य इव पर्वतगतः शशाङ्कः ॥
(ततः प्रविशति दुर्योधनः)
दुर्योधनः —
उद्भूतरोषमिव मे हृदयं सहर्षं
प्राप्तं रणोत्सवमिमं सहसा विचिन्त्य ।
इच्छामि पाण्डवबले वरवारणाना-
मुत्कृत्तदन्तमुसलानि मुखानि कर्तुम् ॥
काञ्चुकीयः — जयतु महाराजः । महाराजशासनात् समानीतं सर्वरा-
जमण्डलम् ।
दुर्योधनः — सम्यक् कृतम् । प्रविश त्वमवरोधनम् ।
काञ्चुकीयः — यथाज्ञापयति महाराजः । (निष्क्रान्तः)
दुर्योधनः — आर्यौ वैकर्णवर्षदेवौ ! उच्यताम् — अस्ति ममैकादशाक्षौहि-
(णी ? णि) । बलसमुदयस्यास्य कः सेनापतिर्भवितुमर्हतीति । किमाहतुर्भवन्तौ —
महान् खल्वयमर्थः । मन्त्रयित्वा वक्तव्यमिति । सदृशमेतद्, आगम्यतां मन्त्र-
शालामेव प्रविशामः । आचार्य ! अभिवादये । प्रविशतु भवान् मन्त्रशालाम् ।
पितामह ! अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । मातुल ! अभिवादये । प्र-
विशतु भवान् मन्त्रशालाम् । आर्यौ ! वैकर्णवर्षदेवौ ! प्रविशतां भवन्तौ । भो भोः
सर्वक्षत्रियाः ! स्वैरं प्रविशन्तु भवन्तः । वयस्य ! कर्ण ! प्रविशावस्तावत् । (प्रविश्य)
आचार्य ! एतदासनमास्यताम् । पितामह ! एतदा(सनमा)स्यताम् । मातुल !
एतदासनमास्यताम् । आर्यौ वैकर्णवर्षदेवौ ! आसातां भवन्तौ । भो भोः
सर्वक्षत्रियाः ! स्वैरमासतां भवन्तः । किमिति किमिति महाराजो नास्त इति ।
अहो सेवाधर्मः । भवत्वय*”
यथा अभिषेकनाटकस्य (आरम्भवाक्यम्) —
“(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः —
यो गाधिपुत्रमखविघ्नकराभिहन्ता
युद्धे विराधखरदूषणवीर्यहन्ता ।

  • एतदक्षरावधिक एव ग्रन्थ उपलब्धः ।

११ उपोद्धातः
दर्पोद्यतोल्बणकबन्धनकपीन्द्रहन्ता
पायात् स वो निशिचरेन्द्रकुलाभिहन्ता ॥
एवमार्यमिश्रान् विज्ञापयामि । ( परिक्रम्यावलोक्य ) अये किन्नुखलु मयि
विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि ।
(नेपथ्य)
सुग्रीव! इत इतः ।
.... .... .... .... .... .... .... .... .... ....
.... .... .... .... .... .... .... .... .... ....
स्थापना ।”
(समाप्तिवाक्यम् ) —
“(भरतवाक्यम् )
भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु ।
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ।
(निष्क्रान्ताः सर्वे)
सप्तमोऽङ्कः ।
अभिषेकनाटकं समाप्तम् ॥”
यथा च प्रतिमानाटकस्य ( आरम्भवाक्यम् ) —
“(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः—
सीताभवः पातु सुमन्त्रतुष्टः सुग्रीवरामः सहलक्ष्मणश्च ।
यो रावणार्थप्रतिमश्च देव्या विभीषणात्मा भरतोऽन्यसर्गः ॥
( नेपथ्याभिमुखमवलोक्य ) आर्ये! इतस्तावत् ।
(प्रविश्य)
नटी — अय्य! इअम्हि ।

उपोद्घातः १७
सूत्रधारः — आर्ये! इममेवेदानीं शरत्कालमधिकृत्य गीयतां तावत् ।
नटी — अय्य! तह । (गायति)
सूत्रधारः — अस्मिन् हि काले,
चरति पुलिनेषु हंसी काशांशुकवासिनी सुसंहृष्टा ।
(नेपथ्ये)
अय्य! अय्य!
सूत्रधारः — भवतु विज्ञातम् ।
मुदिता नरेन्द्रभवने त्वरिता प्रतिहाररक्षीव ॥
(निष्क्रान्तौ)
स्थापना ।”
(समाप्तिवाक्यम्)—
“(भरतवाक्यम्)
यथा रामश्च जानक्या बन्धुभिश्च समागतः ।
तथा लक्ष्म्या समायुक्तो राजा भूमिं प्रशास्तु नः ॥
(निष्क्रान्ताः सर्वे)
सप्तमोऽङ्कः ।
प्रतिमानाटकं समाप्तम् ॥”
एषां नाटकानामुपदर्शितेन नाटकान्तरविलक्षणेन प्रस्थानेन न केवलं,
किन्तु केषुचिन्नाटकेषु वाक्यानुपूर्व्यैक्येनापि परस्परसाम्यमुदाहृतवाक्येभ्यः प्रका-
नाटकानां | शते । तथाहि — “एवमार्यमिश्रान् विज्ञापयामि । अये किं-
मिथः संवादः । | न्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि”
इत्येषानुपूर्वी प्रतिज्ञा-चारुदत्त-अविमारक-प्रतिमा-कर्णभारनाटकान्यपहाय
सर्वेष्वन्येषु दृश्यते ।

१८ उपोद्घातः

“इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥”
इति भरतवाक्यानुपूर्वी स्वप्ननाटकबालचरितयोः समाना ।
“भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु ।
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥”
इत्यानुपूर्वी प्रतिज्ञा-अविमारक-अभिषेकनाटकेषु लक्ष्यते । “इमामपि महीं
कृत्स्नां राजसिंहः प्रशास्तु नः” इत्यानुपूर्वी पञ्चरात्रेऽप्यस्ति ।
मङ्गलश्लोके नाटकीयप्रधानपात्रनामविन्यासः स्वप्ननाटक इव प्रतिज्ञा-
पञ्चरात्रप्रतिमानाटकेषूपलभ्यते ।
“लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिविफलतां गता ॥”
इत्ययं श्लोकश्चारुदत्तप्रथमाङ्क इव बालचरितप्रथमाङ्के दृश्यते । “किं वक्ष्यतीति
हृदयं परिशङ्कितं मे” इत्ययं श्लोकपादः स्वप्नवासवदत्तषष्ठाङ्क इव अभिषे-
कनाटकचतुर्थाङ्क उपलभ्यते । “धर्मस्नेहान्तरे न्यस्ता” इत्ययं श्लोकपादः प्रति-
ज्ञानाटिकाद्वितीयाङ्क इवाभिषेकनाटकषष्ठाङ्केऽप्यस्ति । एवञ्जातीयका अन्ये-
ऽप्युक्तिभङ्गीनां संवादा एषु नाटकेषु दृश्याः ।
एवं परस्परात्यन्तसंवाददर्शनाद् एतैर्नाटकैरेककविकर्तृकैर्भाव्यमिति, प्रस्ता-
वनायां कविकाव्यनामानानाख्यानात् तदाख्याननियमारम्भात् प्रागेवैतान्युद्भूतानीति,
[नाटककर्तृनिर्णयः ।] उदाहरिष्यमाणकवितागुणसमृद्ध्यनुरोधादेषां कर्ता सुप्रसिद्धः
पुरातनः कश्चिद् महाकविर्भवितुमर्हतीति च मम बुद्धिरुत्प-
न्ना । अनया वत्सराजगतवासवदत्ताविषयस्वप्नवर्णनात् स्वप्ननाटकमिदमाचार्या-
भिनवगुप्तपादादिप्राचीनग्रन्थेभ्यो नाममात्रेणास्माभिर्विज्ञातं यत् स्वप्नवासवदत्तं
नाम नाटकं, तदेव नामैकदेशग्रहगृहीतं स्यादिति सम्भावनया चास्मिन् स्वप्नना-
टकादिनाटकचक्रे भक्तिबहुमानावसामान्यौ मे सञ्जातौ । स्वप्नवासवदत्तस्य हि
अलभ्यमित्यद्ययावदवधारितस्य प्रणेता श्रीभासमहाकविरित्ययमर्थः

उपोद्घातः १९
“भासनाटकचक्रेऽपिच्छेकैः क्षिप्ते परीक्षितुम् ।
स्वप्नवासवदत्तस्य दाहकोऽभून्न पावकः ॥”
इति राजशेखरश्लोकात् सूक्तिमुक्तावलिगतादवगत एव सर्वलोकस्य ।
एष एव खलु महाकविः मालविकाग्निमित्रप्रस्तावनायां “प्रथितयशसां भाससौ-
मिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य” इति श्रीकालिदासेन,
“सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः ।
सपताकैर्यशो लेभे भासो देवकुलैरिव ॥”
इति हर्षचरिते भट्टबाणेन चोपश्लोकितः । एवमेषां भासकृतित्वे सिद्धे “सूत्रधा-
रकृतारम्भैर्”ति भट्टबाणोक्तं सूत्रधारकृतारम्भत्वं भासकृतीनामसाधारण एव धर्मः
कामं प्रत्येतुं शक्यः, एषु सर्वेष्वपि नाटकेषु “नान्द्यन्ते ततः प्रविशति सूत्रधार”
इत्येव ग्रन्धारम्भस्य कालिदासादिनाटकविलक्षणस्य दर्शनात् ।
तत इमान्यपूर्वाणि संमुद्र्य प्रकाशयितुमिच्छता मया तेषु सुप्रसिद्धनाम्नि
स्वप्नवासवदत्ते बहुषु पत्रेष्वक्षराणां त्रुटिततया, चारुदत्तस्य चतुर्थाङ्कावधिकत्वे-
नासमग्रतया, कर्णभारस्य स्थापनादिविकलतया च तेषां
[Margin note: आदर्शन्र्तलाभः ।] नाटकानां समग्रस्वरूपसम्पादनाय मातृकान्तरान्वेषणे
प्रयत्नः कृतः । भारते युरोपदेशे च तदर्थं बहून् पण्डितान् लेखद्वारेणायाचिषि ।
चिरप्रनष्टानां भासकृतीनामीदृशविकलैकमातृकालाभ एव परमलाभो मन्तव्य
इति बोधयन्तो यद्यपि बहवः प्रतिलेखा आयाताः, तथापि स्वप्ननाटकस्य
प्रतिज्ञायौगन्धरायणस्य चैकमादर्शान्तरमशुद्धमपि दिष्ट्या समग्रं मम हस्तं प्रा-
प्तम् । तद्धि बङ्गलूरपुरे पुरातनवस्तुविचारकार्यालयपण्डितेन श्रीमता आ-सूरि-
अनन्ताचार्येण मत्प्रियसूहृदा कुतश्चित् केरलीयतदादर्शस्य प्रतिशरीरात् प्रतिले-
खितं कृपया मह्यं प्रेषितम् । अस्य स्वप्ननाटकादर्शस्यान्ते “स्वप्नवासवदत्ता
समाप्ता” इत्यस्मत्सम्भावितचरनामधेयानुगुणमेव नामधेयं लिखितं दृष्टम् ।
प्रतिज्ञानाटिकादर्शस्यान्ते च “प्रतिज्ञायौगन्धरायणम्” इति पूर्णनामधेयं लि-
खितम् ।

अस्योपमातृकालाभस्यानुपदं क्वचिद् यात्रायां हरिप्पांडुपुरे पुत्तियल्-
सुब्रह्मण्यशर्मसकाशाद् अविमारकस्य मातृकान्तरं किञ्चिल्लब्धम् । एता उप-
मातृका आश्रित्य त्रीणि नाटकानि संशोधितानि । अन्यानि तु संशोध्यन्ते ।
अस्य नवादर्शस्य साहाय्यात् स्वप्नवासवदत्तस्याविकलं शरीरं निष्पन्नमासीत् ।
तेनाहमेतन्नाटकविषयस्य मत्परिश्रमस्य चारितार्थ्यं समर्थयन् नवादर्शदानोपकारि-
णि श्रीमदनन्ताचार्यमहाशयेऽतीव कृतज्ञतां वहामि । अथ स्वप्नवासवदत्तस्यो-
पक्रान्ते मुद्रणे अन्याप्युपमातृका चेङ्ङनूरताळमण्णमठकृष्णतन्त्रिसकाशाद-
धिगता, तथा प्रतिज्ञायौगन्धरायणस्याभिषेकनाटकस्य प्रतिमानाटकस्य
पूर्वोक्ताज्ञातनामकनाटकांशस्य च ।

११५९–तमक्रैस्ताब्दस्थितेन वन्द्यघटीयसर्वानन्देनाममरकोशटीकास-
र्वस्वे “शृङ्गारवीरकरुणे”ति श्लोकव्याख्याप्रसङ्गात् “स्वदिशमात्मसात्कर्तुम् उद-
(भासकालविचारः ।) यनस्य पद्मावतीपरिणयोऽर्थशृङ्गारः स्वप्नवासवदत्ते, तृती-
यस्तस्यैव वासवदत्तापरिणयः कामशृङ्गार” इति वदता-
स्मदीयमिदं स्वप्नवासवदत्तं स्मृतमित्यसन्दिग्धं, तस्यैवार्थशृङ्गारस्यात्र *वर्णनात् ।
श्रीमदाचार्याभिनवगुप्तपादैः क्रैस्ताब्दनवमशतकस्थितैः प्रणीतायां भरतनाव्य-
वेदविवृत्तौ स्वप्नवासवदत्तायाः स्मरणमस्ति “क्वचित् क्रीडा यथा स्वप्नवासव-
दत्तायाम् (अध्या. १. श्लो. ७४) इति । दरिद्रचारुदत्तमित्यपि किञ्चिन्नाटक-
नाम तत्र स्मर्यते । तन्मन्ये, एतदेव चारुदत्तनाटकं स्यात् ।

ध्वन्यालोककर्तुरानन्दवर्धनात् क्रैस्ताब्दनवमशतकस्थितात् प्राची-
नस्य वामनस्य काव्यालङ्कारसूत्रवृत्तौ पञ्चमाधिकरणस्य द्वितीयाध्याये स्वप्न-
नाटकचतुर्थाङ्कस्थं पद्यमुदाहृतं —
“शरच्छशाङ्कगौरेण वाताविद्धेन भामिनि ! ।
काशपुष्पप्लवेनेदं साश्रुपातं मुखं मम ॥”
इति । अस्यैव पञ्चमाधिकरणद्वितीयाध्याये प्रतिज्ञायौगन्धरायणचतुर्थाङ्कगतस्य


  • कथावस्तुसंक्षेपो दृश्यताम् ।