स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 71, कुल 204 में से
संदर्भ में पढ़ें१४ उपोद्घातः
अश्वत्थामा—
यातोऽद्य सौप्तिकवधोद्यतबाणपाणि-
र्गां पातु नो नरपतिः शमितारिपक्षः ॥
(निष्क्रान्ताः सर्वे)
ऊरुभङ्गमवसितम् ॥”
यथानवगतनामकस्य नाटकस्यारम्भवाक्यानि —
“(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः—
पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः ।
व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे ॥
एवमार्यमिश्रान् विज्ञापयामि। किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रू-
यते । अङ्ग! पश्यामि ।
(नेपथ्ये)
भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति ।
सूत्रधारः — भवतु विज्ञातम् ।
उत्पन्ने धार्तराष्ट्राणां विरोधे पाण्डवैः सह ।
पर्यैति मन्त्रशालायां भृत्यो दुर्योधनाज्ञया ॥
(निष्क्रान्तः)
स्थापना । ”
(ततः प्रविशति काञ्चुकीयः)
भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति —
अद्य सर्वपार्थिवैः सह मन्त्रयितुमिच्छामि । तदाहूयन्तां सर्वे राजान इति ।
अये अयं महाराजो दुर्योधन इत एवाभिवर्तते । य एषः,
श्यामो युवा सितदुकूलकृतोत्तरीयः
सच्छत्रचामरवरो रचिताङ्गरागः ।