स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 65, कुल 204 में से
संदर्भ में पढ़ें८ उपोद्घातः
यथा दूतघटोत्कचस्य (आरम्भवाक्यम्)—
“(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः—
नारायणस्त्रिभुवनैकपरायणो वः
पायादुपायगतयुक्तिकरः सुराणाम् ।
लोकत्रयाविरतनाटकतन्त्रवस्तु-
प्रस्तावनाप्रतिसमापनसूत्रधारः ॥
एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे
शब्द इव श्रूयते । अङ्ग! पश्यामि ।
(नेपथ्ये)
भो! भोः! निवेद्यतां निवेद्यतां तावत् ।
सूत्रधारः—भवतु विज्ञातम् । एष खलु संशप्तकानीकनिर्वाहके जनार्दन-
सहाये धनञ्जये तदनन्तरमुपगतभीष्मवधामर्षितैर्धार्तराष्ट्रैः परिवार्य निहतः
कुमारोऽभिमन्युः । तथाहि—
यान्त्यर्जुनप्रत्यभियानभीता यतोऽर्जुनस्तां दिशमीक्षमाणाः ।
नराधिपाः स्वानि निवेशनानि सौभद्रबाणाङ्कितनष्टसंज्ञाः ॥
(निष्क्रान्तः )
स्थापना । ”
(समाप्तिवाक्यम्)—
“घटोत्कचः—पितामह! एष गच्छामि ।
धृतराष्ट्रः—पौत्र! गच्छ गच्छ ।
घटोत्कचः—भो भो राजानः! श्रूयतां जनार्दनस्य पश्चिमसन्देशः ।
धर्मं समाचर कुरु स्वजनव्यपेक्षां
यत् काङ्क्षितं मनसि सर्वमिहानुतिष्ठ ।