सामग्री पर जाएँ
सर्वकोश
स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

पृष्ठ 61, कुल 204 में से

संदर्भ में पढ़ें
पृष्ठ 61

४ उपोद्घातः
सूत्रधारः—
पुरुषं प्रेषयत्येष यथा यौगन्धरायणः ॥
(निष्क्रान्तौ)
स्थापना । ”
(समाप्तिवाक्यम्)—
“ ( भरतवाक्यम् )
भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु ।
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥
( निष्क्रान्ताः सर्वे )
चतुर्थोऽङ्कः ।
प्रतिज्ञानाटिकावसिता ॥”
यथा पञ्चरात्रस्य (आरम्भवाक्यम्)—
“(नान्द्यन्ते ततः प्रविशति सूत्रधारः )
सूत्रधारः—
द्रोणः पृथिव्यर्जुनभीमदूतो यः कर्णधारः शकुनीश्वरस्य ।
दुर्योधनो भीमयुधिष्ठिरः स पायाद् विराडुत्तरगोऽभिमन्युः ॥
(परिक्रम्य) एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे
शब्द इव श्रूयते । अङ्ग! पश्यामि ।
(नेपथ्ये)
अहो कुरुराजस्य यज्ञसमृद्धिः ।
सूत्रधारः—भवतु विज्ञातम् ।
सर्वैरन्तःपुरैः सार्धं प्रीत्या प्राप्तेषु राजसु ।
यज्ञो दुर्योधनस्यैष कुरुराजस्य वर्तते ॥
( निष्क्रान्तः)
स्थापना ।”