सामग्री पर जाएँ
सर्वकोश
स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

पृष्ठ 95, कुल 204 में से

संदर्भ में पढ़ें
पृष्ठ 95

३८ उपोद्धातः
"विदूषकः- मम दाव दुवेहिं जेव्व हस्सं जाअदि इत्थिआए सक्कअं
पठन्तीए मणुस्सेण अ काअलिं गाअन्तेण । इत्थिआ दाव सक्कअं पठन्ती दि-
ण्णणवणस्सा विअ गिट्टी अहिअं सुसुआअदि । मणुस्सो वि काअलिं गाअन्तो
सुक्खसुमणोदामवेढिदो वुड्ढपुरोहिदो विअ मन्तं जवन्तो दिढं मे ण
रोआदि ।"
चारुदत्तनाटकस्य चतुर्थाङ्के वाक्यं -
"सज्जलकः - मदनिके! किं न पर्याप्तं, द्वितीयमप्यनार्यं करिष्यामि । न
खल्वत्र शस्त्रेण कश्चित् परिक्षतो व्यापादितो वा ।"
एतदर्थकं मृच्छकटिकस्य वाक्यं -
"शर्विलकः - मदनिके! भीते सुप्ते न शर्विलकः प्रहरति । तन्मया न
कश्चिद् व्यापादितो नापि परिक्षतः ।"
चारुदत्तचतुर्थाङ्के वाक्यान्तरं -
"सज्जलकः - आर्यचारुदत्तेनास्मि प्रेषितः, यस्तावदलङ्कारो मम हस्ते
निक्षिप्तः, स त्वयं भोगमलिनतया गृहस्यासान्निध्यात् कौटुम्बिकानां दुरारक्षः ।
तद् गृह्यतामिति ।"
एतदर्थकं मृच्छकटिके वाक्यं -
"शर्विलकः - "सार्थवाहस्त्वां विज्ञापयति - जर्जरत्वाद् गृहस्य दूरक्ष-
मिदं भाण्डम् । तद् गृह्यतामिति ।"
एवमन्यान्यपि भूयिष्ठानि वाक्यानि श्लोकाश्च मृच्छकटिके चारु-
दत्तीयसंवादीनि दृश्यन्ते । इतिवृत्तं च द्वयोश्चारुदत्तचरितमेव । तेनैवं मन्त-
व्यं-तयोरन्यतरदन्यतरस्याधार इति । तत्रापि चारुदत्तनाटकमेव मृच्छकटिक-
स्य मूलमिति न्याय्यं, मृच्छकटिकेऽर्वाचीनकाव्याद्दतस्य प्रस्तावनायां कविका-
व्यनामनिर्देशस्य दर्शनेन तस्य तन्निर्देशरहितचारुदत्तापेक्षयार्वाचीनत्वौचित्यात् ।