स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
DevanagariSanskritpublished204 पृष्ठ
पृष्ठ 184, कुल 204 में से
संदर्भ में पढ़ेंपृष्ठ 184
षष्ठोऽङ्कः । ७७
राजा — अहो शठः खलु रुमण्वान् ।
यौगन्धरायणः -- स्वामिन् ! देव्याः कुशलनिवेदनार्थ-
मद्यैव प्रतिनिवर्ततामत्रभवान् रैभ्योऽत्रभवती च ।
राजा -- सर्व एव वयं यास्यामो देव्या पद्मावत्या सह ।
(भरतवाक्यम्)
इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ १९ ॥
(निष्क्रान्ताः सर्वे)
षष्ठोऽङ्कः ।
इति स्वप्ननॉटक(म)वसितम् ।
शुभं भूयात् ।
१. 'भ्य इहात्र' क. पाठः. २. 'जा-न्तु स' ख. पाठः. ३. 'न्तां' क. पाठः.
४. 'वासवदत्ता समाप्ता ।' ख. पाठः.