स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 183, कुल 204 में से
संदर्भ में पढ़ें७६ स्वप्नवासवदत्ते
राजा — (उत्थाप्य) यौगन्धरायणो भवान् ननु ।
मिथ्योन्मादैश्च युद्धैश्च शास्त्रदृष्टैश्च मन्त्रितैः ।
भवद्बलैः खलु वयं †मज्जमानाः समुद्धृताः ॥ १८ ॥
यौगन्धरायणः — स्वामिभाग्यानामनुगन्तारो वयम् ।
पद्मावती — (क) अम्मेहे अय्या खु इअं । अय्ये!
सहीजणसमुदाआरेण अदिक्कन्दो समुदाआरो । ता सीसेण
पसादेमि* ।
वासवदत्ता³ — (पद्मावतीमुत्थाप्य) (ख) उट्ठेहि उट्ठेहि अवि-
हवे! उट्ठेहि । अत्थिँसं⁴ णाम सरीरं अवरज्झइ ।
राजाँ⁵ — वयस्य यौगन्धरायण! देव्यपनये का कृता ते
बुद्धिः ।
यौगन्धरायणः — कौशाम्बीमात्रं परिपालयामीति ।
राजा — अथ पद्मावत्या हस्ते किं न्यासकारणम् ।
यौगन्धरायणः — पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वा-
मिनो देवी भविष्यतीति ।
राजा — इदमपि रुमण्वता ज्ञातम् ।
यौगन्धरायणँः⁶ — स्वामिन्! सर्वैरेव ज्ञातम् ।
(क) अहो आर्या खल्वियम् । आर्ये! सखीजनसमुदाचारेणातिक्रान्तः समुदाचा-
रः, तत् शीर्षेण प्रसादयामि ।
(ख) उत्तिष्ठोत्तिष्ठाविद्यवे! उत्तिष्ठ । अर्थित्वं नाम शरीरमपराध्यति ।
१. 'वयस्य ! यौ' ख. पाठः. २. 'म्मो अ' ख. पाठः. ३. 'त्ता उत्था' ख.पाठः.
४. 'विक्ख' ख. पाठः. ५. 'जा—यौ' ख. पाठः. ६. 'णः स्' ख. पाठः.
† मज्जमाना मज्जनशीलाः । * एतदुत्तरं ('पादयोः पतति' ) इति पठितुमर्हम् ।