सामग्री पर जाएँ
सर्वकोश
स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

पृष्ठ 112, कुल 204 में से

संदर्भ में पढ़ें
पृष्ठ 112

प्रथमोऽङ्कः ।
*यौगन्धरायणः — (स्वगतम्) एवम् । एषा सा मगधराज-
पुत्री पद्मावती नाम, या पुष्पकभद्रादिभिरादेशिकैरादिष्टा
स्वामिनो देवी भविष्यतीति । ततः,
प्रद्वेषो बहुमानो वा सङ्कल्पादुपजायते ।
भर्तृदाराभिलाषित्वादस्यां मे महती स्वता ॥ ७ ॥
वासवदत्ता -- (स्वगतम्) (क) राअदारिअत्ति सुणिअ भइ-
णिआसिणेहो वि मे एत्थ सम्पज्जइ ।
(ततः प्रविशति पद्मावती सपरिवारा चेटी च)
चेटी -- (ख) ऐँदु एदु भट्टिदारिआ, इदं अस्समपदं पविसदु ।
(ततः प्रविशत्युपविष्टा तापसी)
तापसी — (ग) साअदं राअदारिआए ।
वासवदत्ता — (स्वगतम्) (घ) इअं सा राअदारिआ। अभि-
जणाणुरूर्वं खु से रूवं ।
पद्मावती — (ङ) अय्ये ! वन्दामि ।
तापसी -- (च) चिरं जीव । पविस जादे ! पविस । तवो-
वणाणि णाम अदिहिजणस्स सअगेहं ।
(क) राजदारिकेति श्रुत्वा भगिनिकास्नेहोऽपि मेऽत्र संपद्यते ।
(ख) एत्वेतु भर्तृदारिका, इदमाश्रमपदं प्रविशतु ।
(ग) स्वागतं राजदारिकायाः ।
(घ) इयं सा राजदारिका । अभिजनानुरूपं खल्वस्या रूपम् ।
(ङ) आर्ये ! वन्दे ।
(च) चिरं जीव । प्रविश जाते ! प्रविश । तपोवनानि नामातिथिजनस्य स्वगेहम् ।
१. 'सा रा' ख. पाठः. २. 'त्री या' क. पाठः. ३. 'टी ए' क. पाठः. ४. 'इदो
इंदो भ' ख. पाठः. ५. 'ति ता' ख. पाठः. ६. 'सी प' क. पाठः.
* इयं यौगन्धरायणोक्तिः समनन्तरवासवदत्तोक्त्युत्तरं पठ्यते ख. पुस्तके ।