स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 111, कुल 204 में से
संदर्भ में पढ़ेंउभौ — (क) अय्य! तह।
(निष्क्रान्तौ)
यौगन्धरायणः — हन्त सविज्ञानमस्य दर्शनम्। वत्से!
उपसर्पावस्तावदेनम्¹।
वासवदत्ता — (ख) अय्य! तह।
यौगन्धरायणः — (उपसृत्य) भोः! किङ्कृतेयमुत्सारणा।
काञ्चुकीयः — भोस्तपस्विन्!
यौगन्धरायणः — (आत्मगतम्) तपस्विन्निति गुणवान् खल्व-
यमालापः। अपरिचयात्तु न श्लिष्यते‡ मे मनसि।
काञ्चुकीयः — भोः! श्रूयताम्। एषा खलु गुरुभिरभिहि-
तनामधेयस्यास्माकं महाराजदर्शकस्य भगिनी पद्मावती नाम।
सैषा नो महाराजमातरं महादेवीमाश्रमस्थामभिगम्यानुज्ञाता
तत्रभवत्या राजगृहमेव यास्यति²। तद् अद्यास्मिन्नाश्रमपदे वासो-
ऽभिप्रेतोऽस्याः। तद्भवन्तः,
तीर्थोदकानि समिधः कुसुमानि दर्भान्
स्वैरं वनादुपनयन्तु तपोधनानाम्।
धर्मप्रिया नृपसुता न हि धर्मपीडा-
मिच्छेत् तपस्विषु कुलव्रतमेतदस्याः ॥ ६ ॥
(क) आर्य! तथा।
(ख) आर्य! तथा।
१. 'नम्। (उपगम्य) भोः' ख. पाठः. २. 'ति। अ' क. पाठः.
‡ कर्मवद्भावो बोद्धव्यः।