सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 356, कुल 516 में से
संदर्भ में पढ़ेंवर्षावर्णनम ३४१
महौषधीव कान्ता निखिलभयप्रतिघातिनी स्थिता मे ॥३०॥
स्फुरदधीरत्तडिम्नयना मुहुः प्रियमिवागलितोरुपयोधरा ।
जलधरावलिरप्रतिपालितखसमयसाम्प्रतमाजगतोधरम् ॥३१॥
गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे ।
अभिससार न वल्लभमङ्गना न चमके च कमेकरस ग्रहः ॥३२॥
अनुययौ विविधोपलकुण्डलयुतिवितानकसबलितांशुकम् ।
धृतधनुर्वलयस्य पयोमुचः शबलिमा वलिमानमुषो वपु
॥ ३३ ॥ द्रुतसमीरचलैः क्षणलक्षितव्यवह्रिता विटपैरिव
मञ्जरी । नवतमालनिभस्य नभस्तरोरुचिरगेचिररोचत
वारिदै ॥३४॥ पटलमम्बुमुचा पथिकाङ्गना मपढि जीवित
संशयमेष्यती । सनयनाम्बुसखीजनसम्भ्रमाद्विधुरबन्धुरबन्धुर-
मैक्षत ॥ ३५ ॥ प्रवसतः सुतरामुदकम्पयद्द्विदलकन्दल-
कम्पनलालितः । नमयति स्म वनानि मनीषिनीजनमनो-
नमनो वनमारुतः ॥ ३६ ॥ जलदपङ्किरनर्तयदुन्मद कल-
विलापि कलापिकदम्बकम् । कृतसमाज्जनमर्दलमण्डलध्वनि-
जया निजया स्वनसपदा ॥ ३७॥ नवकदम्बरजोरुणिताम्बरै-
रधिपुरन्त्रि शिलीन्ध्रसुगन्धिभि । मनसि रागवतामनुरागिता
नवनवा वनवायुभिरादधे ॥ ३८ ॥ शमिततापमपोढमहीरजः
प्रथमबिन्दुभिरम्बुमुचोऽम्भसाम् । प्रविरलैरचलाञ्जनमञ्जना-
जनसुगं न सुगन्धि न चक्रिरे ॥ ३९ ॥ द्विरददन्तवलक्ष-
मलक्ष्यत स्फुरितभृङ्गमृगच्छवि केतकम् । घनघनौघविघट्ट-
नया दिवः कृशशिखं शशिखण्डमिव च्युतम् ॥ ४० ॥ दलित-
मौक्तिकचूर्णिपपाण्डव. स्फुरितनिर्झरशीकरचारव. । कुटज-
पुष्पपरागकणा स्फुट विदधिरे दधिरेणुविडम्बनाम् ॥ ४१ ॥
नवपयःकणकोमलमलतीकुसुमसततितसतसङ्गिभि. । प्रच-
लितोऽनिलै परिपाण्डिमा शुभरजोभरजोऽलिमिरोददे ॥४२॥
निजरज पटवासमिवाकिरद्धतपटोपमवारिमुचा दिशाम् ।
प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलीः ॥ ४३ ॥
प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधराग्भीरव । प्र-
पायिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ॥४४॥
विगतरागगुणोऽपि जनो न कश्चलति वाति पयोदनभस्वति ।
अभिहितेऽलिभिरेवमिवोच्चकैर्ननृते ननृते नवपल्लवैः ॥४५॥
प्रौढमौक्तिकरुच पयोमुचा बिन्दव. कुटजपुष्पबन्धवः ।
विद्युता नभसि नाट्यमण्डले कुर्व्वते स्म कुसुमाञ्जलिश्रियम्
॥ ४६ ॥ महीमण्डलीमण्डपीभूतपाथोधरागन्धहर्षोसु वर्षासु
सद्यः । कदम्बे प्रसून प्रसूने मगन्दो मगन्दे मिलिन्दो मिलिन्दे
मदोऽभूत् ॥ ४७ ॥ उन्निद्रकन्दलदलान्तरलभ्यमानगुञ्ज-
न्मदान्धमधुपे नवमेघकाले। ख्मेऽपि यः प्रवसति प्रविहाय
कान्ता तस्मै विषाणरहिताय नमो वृषाय ॥ ४८ ॥
घनसमयमहीभृत्पत्तन्स्र्यामबरस्य त्रिभुवनपतिचाप गोपुरत्व
प्रपेदे । अपि विग्मवचोभिः प्राप्तपङ्काभिषेकाः कुकवय इव
भेका खेदयन्ति स्म लोकान ॥ ४९ ॥ घनतग्घनवृन्दच्छा-
दिते व्योम्नि लोके मवितुरथ हिमाशो सकथैव व्यरसीत् ।
रजनिदिवमभेदं मन्दवाता. शशंसु कुमुदकमलगन्धानाह-
रन्त क्रमेण ॥ ५० ॥ घनतग्घनवृन्दच्छादिते व्योम्नि
लोके मवितुरथ हिमाशो सकथैव व्यरसीत् । विरहमनुभव-
न्ती सगम चापि भर्त्री रजनिदिवसभेद चक्रवाकी शशंस
॥ ५१ ॥ अथ नभसि निरीक्ष्य व्यामदिक्चक्रवाल मजल-
जलदजाल ग्रामहर्षप्रकर्ष । विहितविपुलबर्हाडम्बगो नील-
कण्ठो मदमृदुकलकण्ठो नाट्यमङ्गीचकार ॥ ५२ ॥ अभि-
नवयवत्रीशालिनि श्मातलेऽस्मिन्रतिशयपरभाग भेजिर्रे
जिष्णुगोपाः । कुवलयशनयीये मुग्धमुग्धेक्षणाया मनाय इव
विमुक्ता कामकेलिप्रसङ्गात् ॥ ५३ ॥ मलिनहुतमुग्धूम-
श्यामर्दिगो मलिना घनैर्विरलतृणश्यामा भूमिर्र्नोद्व्रत-
कन्दलै । सुरतसुभगो नूनं काल स एष समागतो मरण-
शरणा यस्मिन्नेते भवन्ति वियोगिन. ॥ ५४ ॥ क्षेपा क्षामी-
कृत्य प्रमभमपहृत्याम्बु सरिता प्रताप्योर्वी कृत्स्ना तरुगहन-
मुच्छोष्य सकलम् । क सप्रत्यष्णाशुर्गत इति तदन्वेषण-
परस्तैड्डिडीपालोका दिशि दिशि चरन्तीव जलदाः ॥५५॥
मेघाटोपं स्तनितसुभगं वीक्ष्य ख हस्तिदन्तै कृत्वा भिन्त्ती-
नुपरिसदनं चामरैश्छादयित्वा । कर्पूरैस्ता मृगमदरसैर्भूमि-
मालिप्य शेते सैहे चर्मण्युरासि दयितावाङ्गरूढ पुलिन्द
॥ ५६ ॥ उपैति घनमण्डली नढति नीलकण्ठावली तडि-
ल्लसति सर्वतो वहति केतकीमारुत । इतोऽपि यदि नागतः
प्रियतमो नु मन्येऽधुना दधाति मकरध्वजस्तुटितशिखिनीकं
धनुः ॥ ५७ ॥ दिशा हाराकारा शमितशमभारा शमवता-
मसूर्चीसचारा कृतमदविकागश्च शिखिनाम् । हृताध्व-
व्यापारास्तुहिनकणसारा विरहिणीमन कीर्णाङ्गारा किरति
जलधारा जलधरः ॥ ५८ ॥ देवे वर्षत्यशनपवनव्यापृता
वह्निहेतोर्गोहाद्रेहं फलकनिचितै सेतुभि पङ्कभीताः । नीत्र-
प्रान्तानविरलजलान्यानिमिस्ताडयित्वा शूर्पच्छत्रस्थगित-
शिरसो योषितः सञ्चरन्ति ॥ ५९ ॥ आकर्ण्य स्वरयौवराज्य-
पटहं जीमूतधीरध्वनिं नृत्यत्केकि कुटुम्बकस्य दधतं मन्द्रा
मृदङ्गक्रियाम् । उन्मीलन्नवनीलकन्दुलदलव्याजेन रोमाञ्चिता
हर्षेणेव समुच्छ्रितान् वसुमती दत्रे शिलीन्ध्रध्वजान् ॥ ६०॥
वज्रेण त्रिजगत्पतेर्बलरिपोगच्छिन्नपक्षा. पुरा ये भीता निम-
मज्जुरब्धिजठरे ते लूनपक्षाङ्गिरौन् । आश्वास्य व्रणदुःखजा
शमयितु तेषामुदग्रव्यथामुत्तस्थुर्जंलदन्छलेन जलधेरूढा-
म्भसः पर्वता. ॥ ६१ ॥ मन्दं मुद्रितपामवः परिपत-
१ रात्रिम् २ कृशा कृत्वा ३ तद्दिदेव दीप्तस्यालोक प्रकाशत .