सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 355, कुल 516 में से
संदर्भ में पढ़ें३४० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
शुष्यत्स्रोतसि तप्तभूमिरजसि ज्वालायमानार्णसि ग्रीष्मे मासि
ततार्कतेजसि कथं पान्थ व्रजञ्जीवसि ॥ १२७ ॥ वाताकीर्ण-
विशीर्णवीरणातृणश्रेणीझणत्कारिणि ग्रीष्मे सोष्मणि चण्ड-
सूर्यकिरणप्रकाश्यमानाम्र्भसि । वित्तारोपितकामिनीमुखशशि-
ज्योत्स्नाहृतक्लान्तयो मध्याह्नेऽपि सुखं प्रयान्ति पथिका स्वं
देशमुत्कण्ठिताः ॥ १२८ ॥ ग्रीष्मोष्मप्लुषशुष्यत्ययसि बक-
मयोद्धान्तपाठीनभाजि प्राय पङ्कमात्र गतवति सरसि
स्वल्पतोये लुटित्वा । कृत्वा कृत्वा जलाद्रीकृतमुरसि जरत्कर्-
पार्थ प्रपाया तोयं जग्ध्वापि पान्थः पथि वहति हहा हेति कुर्व
न्पिपासु ॥ १२९॥ भ्राम्यच्चीत्कारचक्रभ्रमभरितघटीयन्त्रचक्र-
भ्रमुक्तस्रोत पूर्णेप्रणालीपथसरणिगिरासारि सीत्कारि वारि ।
कौप पान्था प्रकाम शितमणिमुसलाकाग्विसंफारधार विक्षि-
क्षुण्णमुक्ताकणनिकरनिभासारपातं पिबन्ति ॥ १३० ॥
वर्षावर्णनम्
चलद्बलाकादशनाभिरामः परिस्रवद्वारिमदाम्बुधार ।
आहन्यमानस्तडिदङ्कुशेन खरस्य दध्वान घनाद्विपेन्द्रः ॥ १ ॥
या कामिनी सा यदि मानिनी स्यात्खरस्य राज्ञो ह्यपराधिनी
स्यात् । इतीव दण्डै. किमु ताड्यतेऽसौ कादम्बिनी काम-
नृपस्य ढक्का ॥ २ ॥ वन्द्रबिम्ब्रविविम्ब्रतारकामण्डनानि
घनमेघडम्बरै । भक्षितानि जलदोदरेषु तद्रोदनध्वनिरिवैष
गर्जितम् ॥ ३ ॥ निद्रितस्य बत शम्बरद्विषो जागराय
किमु वारिवाहक । ऊर्जितं दधदतीव गर्जितं सन्नमन्नभसि
सन्नमाद्यधौ ॥ ४ ॥
वर्षासमयस्वभावाख्यानम्
शीतलादिव सत्रस्तं प्रावृषेण्यान्नभस्ततः । नभो बभार
नीरन्ध्रं जीमूतकुलकम्बलम् ॥ ५ ॥ स्फुरन्तः पिङ्गलाभासो
धरण्यामिन्द्रगोपकाः । सरक्तवान्तपान्थस्त्रीजीवा इव चका-
शिरे ॥ ६ ॥ पतृत्यविरतं वारि नृत्यन्ति च कलापिनः ।
अद्य कान्त¹ कृतान्तो वा दुखस्यान्तं करिष्यति ॥ ७ ॥
उत्कण्ठयति मेधाना माला वर्गं कैलापिनाम्² । यूना चोत्कण्ठ-
यत्यद्य मानस मकरध्वजः ॥ ८ ॥ अस्थिरमनेकरागं गुणरहितं
नित्यदुष्प्रापम् । प्रावृषि सुरेन्द्रचापं विभाव्यते युवतिचित्त-
मिव ॥९॥ नन्दयति कस्य न मनश्चपलैर्वनधूलिधूसरच्छायैः ।
आक्रम्य पुत्रकैरिव मलिनीकृतमम्बरं जलदैः ॥ १०॥ आयाताः
सखि वर्षा वर्षादपि यासु वासरो दीर्घः । दिशि दिशि नीर-
तरङ्गो नीरतरङ्गो³ ममापि हृद्येशः ॥ ११ ॥ गर्जति वारिद-
पटले वर्षति नयनारविन्दमबलायाः । भुजवल्लिमूलसेके
विरहलता पल्लवं सूते ॥ १२ ॥ अतिशयितकदम्बोऽथ
मोदकदम्बानिलो वहति । वियदम्बुदमेदुरितं मे दुरितं पश्य
नागतो दयित ॥ १३ ॥ शमयति जलधरधारा चातकयूना
तृष चिरोपनताम् । क्षपयति च वधूलोचनजलधारा कामिना
प्रवासरुचिम् ॥ १४ ॥ आस्वाद्य निर्विशेषं विरहविधूना मृदूनि
मासानि । करकामिषेण मन्ये निष्ठीवति नीरदोऽस्थीनि¹ ॥ १५॥
वर्षासु जाता नवयौवनश्रीराशावधू प्रौढपयोधराभूत् ।
पुष्पोद्गमोऽजायत मालतीना बभूवुरस्पृश्यतमास्तटिन्यः
॥ १६ ॥ वसन्तविश्लेषमपारयन्त्या भुवो निदाघखरतापशा-
न्त्यै । आशावयस्याभिरुदाह्रियन्ते पयोदनीलोत्पलपल्लवानि
॥ १७ ॥ घनोद्यमे गाढतमेऽन्धकारे न कोऽपि निर्णेतुमर्ह
शशाक । स्पृशन्मुहुः कितु करेण नाभीसरोजमंभीरकुलाधि-
नाथ.² ॥ १८ ॥ कामेन कामं प्रहिता जवेन प्रावृद् चचाल
त्रिजगद्विजेतुम् । कि चन्द्रबिम्बं दधि भक्षयन्ती सधार
यन्ती हरितः शुभाय ॥ १९ ॥ निरीक्ष्य विद्युन्नयनैः पयोदो
मुखं निशायामभिसारिकायाः । धारानिपातैः सह कि नु
वान्तश्चन्द्रोऽयमित्यार्ततर ररासे³ ॥ २० ॥ सजलजलधर
नमो विरेजे विद्युन्मिमिया रुचिस्तडिल्लतानाम् । व्यवहित-
रतिविग्रहैर्वितेने जलगुरुभिः स्तनितैर्दिगन्तरेषु ॥ २१ ॥
परिसुरपतिसूनुधाम सद्यः समुपदधन्मुकुलानि मालतीनाम् ।
विरलमपजहार बद्धबिन्दुः सरजसतामवनेरपा निपात ॥२२॥
प्रतिदिशमभिगच्छताभिभृष्ट ककुभविकाससुगन्धिनानिलेन ।
नव इव विबभौ स चित्तजन्मा गतधृतिराकुलितश्च जीव-
लोक. ॥ २३ ॥ व्यथितमपि भृशं मनो हरन्ती परिणत-
जम्बुफलोपभोगहृद्या । परभृतयुवतिः स्वन वितेने नवनवयो-
जितकण्ठरागरम्यम् ॥ २४ ॥ अभिभवति मनः कदम्बवायौ
मदमधुरे च शिखण्डिना निनादे । जन इव न धृतेश्चचाल
जिष्णुर्न हि महता सुकरः समाधिभङ्गः ॥ २५ ॥ धृतबिस-
वलयावलिर्वहन्ती कुमुदवनैकदकूलमात्तबाणा । शरदमल-
तले सरोजपाणौ घनसमयेन वधूरिवाललम्बे ॥ २६ ॥ समद-
शिखिरुतानि हसनादै. कुसुदवनानि कदम्बपुष्पवृष्ट्या ।
श्रियमतिशायिनी समेत्य जग्मुर्गुणमहता भहते गुणाय
योग. ॥ २७ ॥ सरजसमपहाय केतकीना प्रसवमुपान्तिक
नीपरेणुकीर्णम् । प्रियमधुरसनानि षट्पदालो मलयिनति
स्म विनीलबन्धनानि ॥ २८ ॥ मुकुलितमतिशंख्य बन्धुजीव
धृतजलबिन्दुधु शाद्वलस्थलीषु । अविगलवपुषः सुरेन्द्रगोपा
विकचपलाशचयश्रियं समीयुः ॥ २९ ॥ रटतु जलधरः पतन्तु
धाराः स्फुरतु तडिन्मरुतोऽपि वान्तु शीता । इयमुरासि
पादटिप्पण्यः (Left Footnotes):
१ ऊर्ध्व कण्ठो यस्य तादृश करोति २ मयूराणाम् ३ विरतसुरतरङ्ग
पादटिप्पण्यः (Right Footnotes):
१ नेत्र, पक्षे, -निर्गता रदा दन्ता यस्य, दन्तानामभावादस्थिचर्वणसमर्थे मरुत्यजतीति भाव २ भगवत्पद्मनाभ ३ आक्रन्दन कृतवान