सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 357, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 357

३४२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

ज्झंकारिझङ्खामरुद्वेगध्वस्तकुटीरकाग्रनिपतच्छिद्रेषु लब्धा-
न्तरा. । कर्मव्यग्रकुटुम्बिनीकुचभरस्वेदच्छिद. प्रावृष प्रारम्भे
मदयन्ति कन्दलदलोल्हासा पयोबिन्दव ॥ ६२ ॥ किंचिन्मु-
द्रितपासव. शिखिकुलैरुत्कण्ठमालोकिता जीर्णावामरुद्दरि-
द्रगृहिणीश्वासानिलैर्जर्जरा । एते ते निपतन्ति नूतनघना-
त्प्रावृड्मरारम्भिणो विन्ध्यायीकृतविप्रयुक्तवनितावक्त्रैन्दवो
बिन्दव ॥ ६३ ॥ काले नीलवलाहके मतडिति प्रीतिप्रदे
बर्हिणामाश्रय कथयामि व. शृणुत भो यद्रूत्तमस्मद्गृहे ।
सौभाग्यव्ययसङ्ख्यैकशयने कान्ताप्रिया+यामहो मानिभ्या
बत गन्निमेव सकला चीर्ण प्रवासिव्रतम् ॥ ६४ ॥ उत्फुल्ला
र्जुनसर्ववासितवहत्पौरस्त्यझञ्झानिलप्रेङ्खोलत्स्खलितेन्द्रनील-
शकलस्निग्धाम्बुदश्रेणय । वारासिक्तवसुन्धरासुरमय प्रासास्त
एवाधुना धर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासरा
॥ ६५ ॥ आच्छन्ने क्षितितैजसी मनसिजध्यापारमेय
मन. स्वात्मा च द्वयमेतदस्ति दृगम द्रव्य परषा तम ।
कालाकाशदिशा निरस्तमधुना नामापि वर्षागमे द्रव्यं वारि
गुणश्च वारिदरव. कर्मापि वारिक्रिया ॥ ६६ ॥ आसारेण
न हर्म्यत प्रियतमैर्यातुं वहि शक्यते शीतोत्कम्पनिमित्त-
मायतदृशा गाढ समालिङ्गयते । जाले शीकरशीतलैश्च
मरुतो रत्यन्तखेदच्छिदो धन्याना बत दुर्दिन सुदिनता याति
प्रियासगमे ॥ ६७ ॥ उद्योग क्षयमेति हन्त सहसा जाड्य
समुज्जृम्भते मित्रस्यापि च दर्शन भवति नो कि वान्यादाच-
क्ष्महे । यल्लोकस्पृहणीयता गतमभूज्जीवनं व्यर्थता प्राप्त
येन दुनोति तन्मम मनो दुर्देववद्दुर्दिनम् ॥ ६८ ॥ सर्व-
त्रोद्गतकन्दला वसुमती वृद्धिर्जलाना परा जात निष्कमल
जगत्युमलिनैर्लब्धा घनेरुन्नता । सर्पन्ति प्रतिमन्दिर द्विर-
सना. सत्यक्तमार्गो जनो वर्षाणा च कलेश्च सप्रति जय-
त्येकैव राज्यस्थितिः ॥ ६९ ॥ नैतद्वारिदगर्जित रतिपति-
प्रस्थानढक्कारवो नैते वारिधरा. स्रवन्मदजलास्तहस्तिन्धुराः
प्रोद्धुरा । नैषा विद्युदिय विभाति रुचिरा तच्चन्द्रहासप्रभा
मन्ये मानिनि मानदुर्गमधुना जेतुं किमायात्यसौ ॥ ७० ॥
दृष्ट्वाडम्बरमम्बरे घनकृत सौदामिनीनर्तकीन्त्याग्ममृदङ्ग-
मङ्गलख श्रुत्वा च तद्गर्जितम् । पुष्यत्युष्पभरानताङ्गण-
तरुस्कन्धावसद्वायसक्राणाकर्णनसोत्सवप्रियतम पान्था ययु-
र्मन्दिरम् ॥ ७१ ॥ सन्नम्येव निरन्तर निवमतिमिरैत्राद्यना-
लोकनं पन्था पङ्कसमाकुल. कलुषता वारा सदा दुर्दि
नम् । एवं यद्यपि दूषणानि तदपि स्वर्भूननोल्लासकृत्संसो-
त्पत्तिनिमित्ततैकगुणत. प्रावृट् प्रपेदे यशः ॥ ७२ ॥

दोलाकेलिः

सौन्दर्यमिन्दीवरलोचनाना दोलासु लोलासु यदुल्ललास ।
यदि प्रसादाल्लभते कवित्वं जानाति तद्वर्णयितुं मनोभू
॥ ७३ ॥ प्रसार्य पादौ विहितस्थितीना दोलासु लोलांशुक
पल्लवानाम् । मनोरथानामपि यन्न गम्यं तद्रष्टुमापुः सुदृशा
युवान. ॥ ७४ ॥ उन्नम्य दूरं मुहुरानमन्त्यः कान्ताः
श्लथीभूतनितम्बबिम्बा । दोलाविलासेन जितश्रमत्वाल्यकर्ष-
मापु. पुरुषायितेषु ॥ ७५ ॥ दृशा विदधिरे दिश. कमल
राजिनीराजिता कृता हसितरोचिषा हरति चन्द्रकावृथ्य. ।
अकारि हरिणीदृश. प्रवलदण्डकप्रस्फुरद्रुपुर्विपुलगोचिषा
वियति विद्युता विश्रम. ॥ ७६ ॥ प्रत्यासन्नमुखी कगम्बुज-
युगप्रेङ्खोलिता प्रेङ्खिकामारुह्ययमुदस्तहारलतिकाव्यावृत्त-
तुङ्गस्तनी । दृष्टादृष्टमुखी गतागतवशालोलोलमानांशुका
तन्वङ्गी गगने करोति पुरत शातहदं विश्रमम् ॥ ७७ ॥

वर्षावायवः

एते ते दुरतिक्रमक्रममिलद्द्भोर्मिभर्मेच्छिद. कादम्बेन
रजोभरेण ककुभो रुन्धन्ति झञ्झानिला । गाढारम्भनिगूढ-
नीग्दघटासघट्टनीलीभवद्व्योमक्रोडकटाहपातुकपयोवेणीकण-
ग्राहिणः ॥ ७८ ॥ धागधौतं धुनाना शशधग्धवल केसर
केतकीना कैलासे किनरीणा चलदलकलतालासयलीला
दधानाः । आमूलं मानिनीना मनसि विनिहितं मानमुन्मूल
यन्तो वान्त्येते वारिवाहव्यतिकरशिशिरा प्रावृषेण्या.
समीगः ॥ ७९ ॥ गोकर्ण गाहमाना' पृथुतरपृषतग्राहिणः
शंबरीधानाकर्षन्तो दिगन्तानपि च विदधत कन्दलीसुप्रचा-
गन् । एते धावन्ति वार्धश्रवसमुग्धनुर्धारयन्त' समन्तादा-
वृण्वन्तोऽभ्रवीथि वनमिव शबरभ्रान्तिभाजोऽम्बुवाहा.॥८०॥

वर्षापथिकाः

उपरि पयोधघमाला दूरे दयिता किमेतदापतितम् ।
हिमवति दिव्यौषधय कोपाविष्ट फणी शिरसि ॥ ८१ ॥
उपरि घन घनपटल तिर्यग्गिरयोऽपि नर्तितमयूरा । क्षितिरपि
कन्दलधवला दृष्टि पथिक. क पातयतु ॥ ८२ ॥ कि
गतेन यदि मा न जीवति प्राणिति प्रियतमा तथापि
किम् । इत्युदीक्ष्य नवमेघमालिका न प्रयाति पथिकः
स्वमन्दिरम् ॥ ८३ ॥ शिखिनि कूजति गर्जति तोयन्द्रे
स्फुटति जातिलताकुसुमाकरे । अहह पान्थ न जीवति ते
प्रिया नभसि मासि न यासि गृहं यदि ॥ ८४ ॥ १ रसति
तरुणीकेशश्यामे पयोभृति निर्भर स्फुटति चपले वारवार
क्षणद्युतितैजसि । उपगुरुजनं मन्ये दैन्यात्पराङ्मुख-
सुसया निभृतनिभृत मन्दोच्छ्वास तया बत रुद्यते
॥ ८५ ॥ निशीथे लीनाना झटिति तडिता वीक्ष्य
विषयं घनानामाभोग रसिकपथिकेनोन्मुखदृशा । न गीतं
सोत्कण्ठ न च रुदितमुक्तण्ठतरलं न मुक्ता निःश्वासाः
स्फुरदनुमतं किं तु हृदयम् ॥ ८६ ॥ यथा रन्ध्रं
व्योमञ्चलजलदधूम. स्थगयति स्फुलिङ्गाना रूप दधति च

१ श्रावणमासे