सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 272, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 272
वयःसंधिवर्णनम्, तरुणीपृथगवयववर्णनम्२५७

स्थितं यत्पुरा तच्चारुण्यघनोदयेन बहुधा संवर्धितं पद्मभूः ।
वीक्ष्य सन्दनाशङ्कितः कुचयुगव्याजान्नितम्बस्थलाच्चक्रे सेतु-
युगं न चेदिह कुतस्तदग्रसंस्थास्नुता ॥ ५७ ॥ विस्तारी
स्तनभार एष गमितो न स्वोचितामुन्नतिं रेखोद्भासि कृतं वलि-
त्रयमिदं न स्पष्टनिम्नोन्नतम् । मध्येऽस्या ऋजुरायतार्थकपिशा
रोमावली निर्मिता रम्यं यौवनशैशवव्यतिकरोन्मिश्रं वयो
वर्तते ॥ ५८ ॥ चाञ्चल्यं चरणौ विहाय नयनप्रान्तं प्रति-
ष्ठासते वस्तु वाञ्छति वाचि काचिदमृतस्पर्धाकरी माधुरी ।
कान्तिः काचन वक्षसो विजयते तन्व्या दुकूलाञ्चलं तन्मन्ये
दिवसैः कियद्भिरतनुर्जेता जगन्मण्डलम् ॥ ५९ ॥ आला-
पान्ध्रुविलासौ विरलयति लसद्बाहुविक्षिप्ति यातं नीविग्रन्थि
प्रथिम्ना प्रतनयति मनाञ्चाध्वनिग्नो नितम्बः । उत्पुष्यत्यार्श्व-
मूर्च्छत्कुचशिखरमुरो नूनमन्तः खरेण स्पृष्टा कोदण्डकोट्या
हरिणशिशुदृशो दृश्यते यौवनश्रीः ॥ ६० ॥

तरुणीपृथगवयववर्णनम्

केशपाशः

अस्या मनोहराकारकबरीभारनिर्जिताः । लज्जयेव वने
वास चक्रुश्चमरबर्हिणः ॥ १ ॥ भाति विन्यस्तकहार
सुकेश्याः केशसंचयम् । शोणितादैः शरैः पूर्णे तूणीरमिव
मान्मथम् ॥ २ ॥ स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽ-
लकः । शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ॥ ३ ॥
चलत्कामिमनोमीनमादातुं चित्तजन्मनः । गलयष्टिरिवाभाति
बालावेणी गुणोज्ज्वला ॥ ४ ॥ एणीदृशो विजयते वेणी
पृष्ठावलम्बिनी । केशैव पञ्चबाणस्य युवतर्जनहेतवे ॥ ५ ॥
तमस्तोम भृशं सोममण्डलोपरि राजसे । धूमपानेन कि
नाम धाम गम्यमतः परम् ॥ ६ ॥ वेणी श्यामा भुजगीय
नितम्बान्मस्तकं गता । वक्रचन्द्रसुधा लेढुं सान्द्रसिन्दूर-
जिह्वया ॥ ७ ॥ तस्याः कचभरव्याजान्नयनस्नेहलालितः ।
आरूढः पार्वतीबुद्ध्या गृहबर्हीव मूर्धनि ॥ ८ ॥ श्यामा
मिलिन्दमाला बालाया वदनपद्ममकरन्दम् । आस्वादितुमिव
मिलिता ललिता वेणीमिषादेषा ॥ ९ ॥ मलिना अपि
१संयमनात्कुटिला अपि २सुमनसा समागमतः । ३बौला अपि
४मुक्तानाममुषङ्गान्५निर्जरत्वमुपयान्ति ॥ १० ॥ स्नानादर्मुक्ते-
ष्वनुधूपवासं विन्यस्तसायंतनमल्लिकेषु । कामो वसन्तात्यय-
मन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥ ११ ॥ एणीदृशः
पाणिपुटे निरुद्धा वेणी विरेजे शयनोत्थितायाः । ६सरोज-


१ बन्धनात्, पक्षे,-इन्द्रियनिग्रहात् २ पुष्पाणाम्, पक्षे,-
साधूनाम् ३ बवयोरभेदात् केशा-, पक्षे,-अभ्रका ४ मौक्तिकानाम्,
पक्षे,-जीवन्मुक्तानाम् ५ जरारहितत्वम्, पक्षे,-देवत्वम् ६ कमल-
कञ्चलात्

कोशादिव निष्पतन्ती १श्रेणी घनीभूय २मधुव्रतानाम् ॥१२॥
इयं मुखाम्भोरुहसन्निधाने विलम्बिधम्मिल्लततिच्छलेन ।
समागता सादरमेव बाला द्विरेफमालामुत वा दधाति
॥ १३ ॥ अस्याः सपक्षकैविधोः कचौघः स्थाने मुखस्यो-
परि वासमाप । पक्षस्यतावद्बहुचन्द्रकोऽपि कलापिना येन
जितः कलापः ॥ १४ ॥ अस्या यदास्येन पुरस्तिरश्च
तिरस्कृतं शीतरुचान्वकारम् । स्फुटत्स्फुरद्भृङ्गिकचच्छलेन
तदेव पश्चादिदमस्ति बद्धम् ॥ १५ ॥ अस्याः कचाना
शिखिनश्च कि नु विधि कलापौ विमतेरगाताम् । तेनायमेभिः
किमपूजि पुष्पैर्मंसिं दत्त्वा स किमर्धचन्द्रम् ॥ १६ ॥
आभाति शोभातिशयं प्रपन्नादेणीदृशोऽसा रमणीयशोभा ।
वेणी लसत्कुन्तलधोरणीना श्रेणीय कि चास हरिन्मणीनाम्
॥ १७ ॥ विधि किमस्या नितराममान्तमङ्गेषु शृङ्गाररस
सुकेश्याः । स्निग्धोलसत्कुन्तलकैकतवेन निधाय मूर्ध्नि स्तबकी-
चकार ॥ १८ ॥ चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि
यान्बिभर्ति सा । पशुना४ऽधःपुरस्कृतेन तत्तुलनामिच्छति
चामरेण कः ॥ १९ ॥ लसन्मौक्तिकश्रेणिगङ्गातरङ्गा स्वयं
नन्दिनी भाखतो नीलवर्णी । ससीमन्तसिन्दूरसारखताभा
त्रिवेणीमेणीदृशो मौलिवेणी ॥ २० ॥ एता नवाम्बुधर-
कान्तिमुदीक्ष्य वेणीमेणीदृशो यदि वदन्ति वदन्तु नाम । ब्रूमो
वय मुखसुधांशुसुधामिलाषादम्यागता भुजगिनी मणिमुद्व-
हन्तीम् ॥ २१ ॥ खर्भानुराकलियितुं स समुद्यतोऽभूद्राका
विनाननसुधाशुमहो यदस्याः । मन्ये तदस न च तिष्ठति
पूर्णमाया भावो हि कितु परिपूर्णकले सुधाशौ ॥ २२ ॥
विकचचकचकलापः किचिदाकुञ्चितोऽयं कुचकलशनिवेशी
शोभते श्यामलाक्ष्याः । मधुरसपरितोषात्किंचिदुत्फुल्लकोशे
कमल इव निलीनाः पेटकाः षट्पदानाम् ॥ २३ ॥ न
जीमूतच्छेदः स हि गगनचारी न च तमो न तस्सेन्दो-
मैत्री न च मधुकरास्ते हि मुखराः । न पिच्छ तत्केकिन्यु-
चितमसितोऽयं न च मणिर्मृदुत्वादाज्ञातं घनचिकुरपाशो
मृगदृशः ॥ २४ ॥ धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवर-
वनं घनस्निग्धं श्लक्ष्णं चिकुरनिकुरम्बं तव शिवे । यदीयं
सौरभ्यं सहजमुपलब्धुं सुमनसो वसन्त्यस्मिन्मन्ये बल-
मथनवाटीविटपिनाम् ॥ २५ ॥ उन्मीलद्वदनेन्दु कान्तिवि-
सरैर्दूरे समुत्सारितं भन्नं पीनकुचस्थलस्य च रुचा हस्त-
प्रभाभिर्हतम् । एतस्याः कलविङ्ककण्ठकदलीकल्पं मिलत्कौतु-
कादप्राप्ताङ्गसुख रुषेव सहसा केशेषु लभे तमः ॥ २६ ॥

अभ्यङ्गारम्भः

अस्याः पीठोपविशाया अभ्यङ्गं वितनोत्यसौ । लसच्छ्रोणि
चलच्छ्रोणि नटद्रूपपयोधरम् ॥ २७ ॥ आवर्त्य कण्ठं सिञ्चयेन


१ पङ्क्ति २ भ्रमराणाम् ३ केशकलापा ४ पश्चात्कृतेन