सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 271, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 271

२५६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

समुद्भ्रूभङ्गं प्रविहितधनुर्भङ्गमनिशं वयस्तत्पद्माक्ष्याः कथ-
मिव मनो न व्यथयतु ॥ ३४ ॥ मुखं विकसितस्मितं
वेशितवक्रिमप्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंस्था
मतिः । उरो मुकुलितस्तनं जघनमसबन्धोर्द्धुरं बतेन्दु-
वदनातनौ तरुणिमोद्गमो मोदते ॥ ३५ ॥ न दन्तुरमुरःस्थलं
वचसि नाश्रिता चातुरी विकारि न विलोकितं भ्रुवि न
वक्रिमोपक्रमः । तथापि हरिणीदृशो वपुषि कापि कान्ति-
च्छटा पट्टावृतमहामणिद्युतिरिवात्र सलक्ष्यते ॥ ३६ ॥ इदं
परमसुन्दरं तनूपुरं कुरङ्गीदृशा निवार्य खलु शैशवं स्वय-
मनेन नीतं बलात् । तदागमनशङ्कया मकरकेतुना किं
कृतं पयोधरधराधरो त्रिवलिवाहिनीदुस्तरो ॥ ३७ ॥ स्थिर-
त्वमचिरद्युतौ तमसि कोऽपि बन्धग्रहो विधौ किमपि सौरभं
मधुनि कापि वर्णालता । शिरीषनवदामनि स्फुरति कोऽपि
शैलोदयो वयोऽभिनववेधसस्तदिह मन्महे कौशलम् ॥ ३८ ॥
क्षणं सरलवीक्षणं क्षणमपाङ्गसवीक्षणं क्षणं रजसि खेलनं
क्षणमतीव भूषादरः । क्षणं द्रुततरा गतिः क्षणमतीव मन्दा
गतिः क्षणक्षणविलक्षणं जयति चेष्टितं सुभ्रुवः ॥ ३९ ॥
क्षोभं धत्ते यदतिबहलं स्निग्धलावण्यपूरः प्रत्यङ्गं यत्तटम-
नुसरन्मूर्च्छयो विश्रमाणाम् । उन्मग्नं यत्स्फुरति च मना-
क्कुम्भयोर्द्वन्द्वमेतत्तन्मन्येऽस्याः स्मरगजयुवा गाहते हृत्तडा-
गम् ॥ ४० ॥ मन्दं मन्दं श्रवणपुतकोपान्तगन्ता दृगन्तः
किंचित्किंचिद्विरमति मनो धूलिकेलीरसेभ्यः । आविर्भावः
स्तनमुकुलयोः कापि कान्तिः समन्तादद्य श्वो वा कुसुम-
धनुषो यौवराज्याभिषेकः ॥ ४१ ॥ सन्नद्धोऽद्य नवतरु-
णिमा काममास्कन्दुकामो नैवा मुञ्चत्यहह सहसा कौतुकी
बालभावः । तद्वैराज्यं वरतरतनुस्वर्णभूमौ प्रवृत्तं प्रायस्त्व-
क्षादनुदिनमयं क्षीयते मध्यदेशः ॥ ४२ ॥ श्रोणीबन्धस्त्य-
जति तनुतां सेव्यते मध्यभागः पद्ध्या मुक्तास्तरलग तयः
सश्रिता लोचनाभ्याम् । धत्ते वक्षः कुचसचिवतामद्वितीयं
तु वक्त्रं तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ ४३ ॥
सभ्रूभङ्गं करकिसलयावर्तनैरालपन्ती सा पश्यन्ती ललित-
ललितं लोचनस्याञ्चलेन । विन्यस्यन्ती चरणकमले लीलया
स्वैरयातैर्नि सङ्गीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ॥ ४४ ॥
दोलायां जघनस्थलेन चलता लोलेक्षणा लज्जते साशङ्कं
तनुकण्टकक्षतभिया क्रीडावने क्रीडति । धत्ते दिक्षु निरी-
क्षणं स्मितमुखी पारावतानां रुतैः सज्जं मौग्ध्यविसर्जनाय
सुतनोः शृङ्गारमित्रं वयः ॥ ४५ ॥ वक्षस्यावरणोदरस्तन-
युगोद्भेदं विनाप्यङ्गुलीमुद्रासूचितहास्यमास्यमधिकं नो
पुत्रिकादौ रसः । तिर्यग्लोचनवीक्षितानि वचसा छेकोक्ति-
सक्रान्तयस्तस्याः सीदति शैशवे संभवत्कोऽप्येष नव्यः क्रमः
॥ ४६ ॥ लावण्य्यामृतनिर्झरेण सुदृशः सिक्ताखिलाङ्गस्थली
जातस्तत्र नवीनयौवनकलालीलालतामण्डपः । तस्मिन्वेष-
विशेषशीतलतरच्छायासु सुसोत्थितः कदर्पखिजगजज्योद्यम-
परोऽप्यद्यापि निद्रालसः ॥ ४७ ॥ बाल्ये गेहपतौ निमी-
लति वयःसंधिं विधाय स्मरश्चौरश्चारुतरं विवेश निभृतं
बालाशरीरालयम् । चाञ्चल्यं चरणे पृथुलमुदरे निर्लज्जता
चेतसि क्षामत्वं हृदये दृशोः सरलता सर्वस्वमस्या हरन्
॥ ४८ ॥ एतस्या रतिवल्लभक्षितिपतेः क्रीडासरस्याः शनैः
सशोषं नयतीव शैशवजलं तारुण्यतिग्मद्युतिः । अन्तःस्था
च यथा यथा विकसति प्रायः कुचोच्चस्थली स्थौल्यं हन्त
तथा तथा वितनुते दृक्पीनमौनावती ॥ ४९ ॥ रेखा
काचन कज्जलस्य नयनाम्भोजे मिथः कौशलादालीभिः सर-
लीकृतापि कुटिलीभावं समालम्बते । लक्ष्या वक्षसि पाणि-
पद्मविषमस्पर्शादयादुन्नतिर्जानीमो वयमेणशावनयने बाल्यं न
पाल्यं तव ॥ ५० ॥ मध्यस्य प्रथमानमेति जघनं वक्षो-
जयोर्मन्दता दूरं यात्युदरं च रोमलतिका नेत्राजवं धावति ।
कंदर्पं परिवीक्ष्य नूतनमनोराज्याभिषिक्तं क्षणादङ्गानीव
परस्परं विदधते निर्लुण्ठनं सुभ्रुवः ॥ ५१ ॥ दृष्टिः शैशव-
मण्डना प्रतिकलं लावण्यमभ्यस्यते पूर्वांकारमुरस्तथापि
कुचयोः शोभा नवामीहते । सप्रासा गुरुता तथाप्युपचिता-
भोगा नितम्बस्थली तन्व्याः स्वीकृतमन्मथं विजयते तन्नेत्र-
पेयं वयः ॥ ५२ ॥ तत्तस्याः कमनीयकान्ति विजित-
त्रैलोक्यनारीवपुः शृङ्गारस्य निकेतनं समभवत्संसारसार-
चयः । यस्मिन्विस्तृतपक्ष्मपालिचलनाः कामास दृष्यो नो
यूनां पुनरुत्पतन्ति पतिताः पाशे शकुन्ता इव ॥ ५३ ॥
केलीकौतुकमादराच्छ्रवणयोरालीभिराश्राव्यते बालाभिस्तु पुरः
पुरेव रजसि क्रीडार्थमाहूयते । चेतो याति न वा तत-
स्तदुभयोरेणीदृशः साप्रतं मध्ये चुम्बकयोरयःशकलवन्निः-
पक्षपातं मनः ॥ ५४ ॥ उत्तालालकमञ्जनानि कबरीपाशेषु
शिक्षारसो दन्तानां परिकर्म नीविर्नहनं भ्रूखास्तयोग्याग्रहः ।
तिर्यग्लोचनचेष्टितानि वचसा छेकोक्तिसक्रान्तयः स्त्रीणां
म्लायति शैशवे प्रतिकलं कोऽप्येष केलिक्रमः ॥ ५५ ॥
मौत्रा नर्तनपण्डितञ्जु वदनं किंचित्प्रगल्भे दृशौ स्लोकोद्भेद-
निवेशिनस्तनमुरो मध्यं दरिद्राति च । अस्या यज्जघनं
घनं च कलया प्रत्यङ्गमेणीदृशः सत्यंकारमिव स्मरैकसुहृदा
तद्यौवनेनार्पितम् ॥ ५६ ॥ लावण्यामृतमाहितं वरतनोरङ्गे


१ स्वायत्तीकृतम् २ गमृद्धतं ३ नियतैकविषयता ४ उन्नतम् ५ उत्कर्षभागभवति ६ जघनबन्धं ७ सूक्ष्मताम् ८ चञ्चलगमनानि ९ विपर्ययं

१ बन्धनम् २ परिमाणे