सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 273, कुल 516 में से
संदर्भ में पढ़ें| २५८ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
सम्यगावज्य वक्षोरुहकुम्भयुग्मम् । कासौ करालम्बिततैल-
पात्रा मन्दं समासीदति सुन्दरी ताम् ॥ २८ ॥ वक्षोजौ
निबिडं निरुध्य सिंचयेनाकुञ्च्य मध्यं शनैः कृत्वा चम्पक-
तैलसेकमवला संपीड्य मन्दं शिरः । पाणिभ्या चलकङ्क-
णोद्यतझणत्कारोच्चगम्या करोल्यभ्यङ्गं परिपश्यतः सकुंतुक
दोरन्तर प्रेयस. ॥ २९ ॥
सीमन्तरचनम्
स्नेहसंवर्धितान्वालानदृढं बध्नाति सुन्दरी । करुणा
हरिणाक्षीणा कुत कठिनचेतसाम् ॥ ३० ॥ संप्राप्तचिकुर-
भाव. कचयो वा युवा करे लग्न । स्त्रीभिर्दृढ निबध्यो
न चेत्परकैलत्रमनुसरति ॥ ३१ ॥ यथा यथाऽयं वलते
भुजोऽस्या उदश्चित सयमनै कचानाम् । तथा तथा वल्गति
काममेक स एव वक्षोरुह उपलाक्ष्या ॥३२॥ जानुभ्यामुप-
विश्य पाष्णिनिहितश्रोणीभग प्रोन्नमद्दोर्वल्ली नमदुन्नमत्कुचतटी
दीयन्नखाङ्कावलि । पाणिभ्यामवधूय कङ्कणझणत्कारान्वतागे-
त्तर बाला नॅघ्नति कि निजालकभर किंवा मदीयं मन ॥३३॥
अैश्रान्तं हृदयव्रणेन कुचयोरत्यक्तकाठिन्ययोरा बद्धस्फुटमण्ड-
लोन्नतिमिलच्चोलं विमुच्योरस. । ^६नीवीविच्छुरितं विधाय
तममुं वामस्तनालम्बिनी वेणीं पाणिनखाञ्चलै. शिथिलयत्या-
क्रम्य पीठ पदा ॥ ३४ ॥ आधुम्नाङ्गुलिपल्लवौ कचभरे
व्यापारयन्ती करौ बन्धोत्कर्षणिवद्धमानसत्या शून्या
दधाना दृशम् । बाहूत्क्षेपसमुन्नते कुचतटे पर्यस्त-
चोलांशुका हीसकोचितबाहुमूलसुभगा बध्नाति जूटीं वधू.
॥ ३५ ॥ जानुस्थापितदर्पणं परिणमद्ग्रीवं समुद्यद्भुजं
न्यञ्चत्कर्परसुन्नमद्गलजलत्कक्षांन्तगेहत्कुचम् । पाणिभ्या
प्रविभज्य केशनिचयं सीमन्तकर्मोद्यता चेत कस्य वशीकरोति
न बलाद्वाला विलोलेक्षणा ॥ ३६ ॥ केशान्व्यामकरावलम्बित
शिखान्भूयो रणत्कङ्कणं व्याधूयाथ कनिष्ठिकानखमुखेना-
कुञ्चितान्याङ्गुलि । सीमन्तं विरचय्य तस्य करमेणोन्मृज्य पार्श्व-
द्वय तान्यश्रांयुगपत्प्रणीय करयोर्युग्मेन बध्नात्यसौ ॥ ३७ ॥
सीमन्तसिन्दूरम्
वहन्ती सिन्दूरं प्रबलकवरीभारतिमिरत्विषा वृन्दैर्बन्दीकृत
मिव नवीनाकं भरणम् । तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी-
परीवाहस्रोत सरणिरिव सीमन्तसरणि. ॥३८॥ अये मातर्दृष्ट्वा
मुखममृतभानुभ्रमवशात्कचच्छद्मा राहुर्द्रमति किमु तृष्णानर-
लित. । किमेवं कदर्पान्तकतरुणि सिन्दूरसरणिच्छलाद्रोक्तु
भूयो वहिरिव रसज्ञां कलयति ॥ ३९ ॥
ललाटः
केशान्धकारादथ दृश्यभालस्थलार्धचन्द्रा स्फुटमष्टमीयम् ।
एना यदासाद्य जगज्जयाय मनोभुवा सिद्धिरसाधि
साधु ॥ ४० ॥
तिलकः
बाले ललामलेखेय भाले भल्लीव राजते । भ्रूलताचापमा-
कृष्य न विद्म कं हनिष्यति ॥४१॥ कस्तूरीतिलकं वाले भाले
मा कुरु मा कुरु । अद्य साम्य भजामीति जृम्भते शशलाञ्छन.
॥ ४२ ॥ श्यामलैनाङ्कित भाले वाले केनापि लैक्ष्मणा ।
मुखं तवान्तरासुप्तभृङ्गफुल्लाम्बुजायते ॥ ४३ ॥ नासावश-
विनिर्मुंक्तमुक्ताफलमनाभिना । भाति भालतलस्थेन बाला
चन्दनविन्दुना ॥ ४४ ॥ लोचनफुल्लाम्भोजद्वयलोभान्दोलि-
तैकम्नाः । कस्तूरीतिलकमिशादयमलिकेडलि. समुल्लसति
॥ ४५ ॥ अस्या ललाटे रचिता सखीभिर्विभाव्यते
चन्दनपत्रलेखा । आपाण्डुरक्षामकपोलभित्तावन्नङ्गबाणव्रण-
पट्टिकेव ॥ ४६ ॥ अस्खास्तनुस्सन्दनससितो वै स मीनकेतु-
र्जगतीं विजेतुम् । मकुङ्कुमालेखमिषेण वीरो व्यमोचयच्चा-
रुतरा पताकाम् ॥ ४७ ॥ विराजतेऽस्यास्तिलकोऽयमञ्चितो
विकुञ्चितभ्रूलतिकाद्वयान्तरे । विजित्य लोकद्वितयं दिव प्रति
स्मरेण बाणो धनुषीव योजित. ॥ ४८ ॥ अस्या सुगन्धिनव-
कुङ्कुमपङ्कदत्तो मुग्धश्चकास्ति तिलको मदिरेक्षणाया. ।
आविष्टरागमभिराममुखारविन्दनिष्यन्दलक्ष्मैव मे हृदय
द्वितीयम् ॥ ४९ ॥ अस्या. सयमवान्कचो मधुकैरैरभ्यर्थ्य-
मानो मुहुर्भङ्गीगोपनजाभिशापमचिरादुन्मार्ष्टुकामो निजम् ।
सीमन्तेन करण कोमलरुचा सिन्दूरविन्दुच्छलादात्तस्तायस-
पिण्डमण्डलससावादातुमाकाङ्क्षति ॥ ५० ॥ केयूर न करे
पदे न कटक मौलौ न माला पुन कस्तूरीतिलक तथापि
तनुते ससाग्मारश्रियम् । सर्वाधिक्यमलेखि भालफलके
यत्स्रुश्रुवो वेधसा जानीम किमु तत्र मन्मथमहीपालेन
मुद्रा कृता ॥ ५१ ॥
भ्रुवौ
शृङ्खायुगल भाति तस्याश्चटुलचक्षुष । पत्रद्वयीव हरिता
नामावशविनिर्गता ॥ ५२ ॥ असितात्मा समुन्नद्ध समा-
विष्कृतचापल । भुजंगकुटिलस्तस्या भ्रूविक्षेप. खलायते
॥ ५३ ॥ स्मरकल्पद्रुमो बाले तव भाले द्विपत्रक ।
पत्रयोग्नयोश्छाया भ्रुवोर्व्याजादुदञ्चति ॥५४॥ किचित्सवि-
भ्रमोदञ्चिद्भ्रूलता भाति भामिनी । बालकीडाप्रतिद्वन्द्वि तर्जे-
यन्तीव यौवनम् ॥ ५५ ॥ कामकार्मुकतया कथयन्ति भ्रूलता
मम पुनर्मतमन्यत् । लोचनाम्बुरुहयोरुपरिस्थ भृङ्गशावक-
ततद्वयमेतत् ॥ ५६ ॥ तम्या शलाकाञ्जननिर्मितेव कान्ति-