सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 157, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 157

१४२ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्

आमूलं क्वचिदुद्धृता क्वचिदपि च्छिन्ना स्थली बर्हिणामानम्रा
कुसुमोच्चयाच्च सदयाकृष्टाग्रशाखा लता । एते पूर्वविलून-
वल्कलतया रूढव्रणाः शाखिनः सद्यश्छेदममी वहन्ति
समिधां प्रस्स्रन्दिनः पादपाः ॥ ११ ॥ वासोऽर्थं दययैव
नातिपृथवः कृत्तास्तरूणां त्वचो भग्नानेकजरत्कमण्डलु नभः-
स्वच्छं पयो नैर्झरम् । दृश्यन्ते त्रुटितोज्झिताश्च वटुभिर्मौ-
ञ्ज्याः क्वचिन्मेखला नित्याकर्णनया शुकेन च पदं साम्नामिदं
गीयते ॥ १२ ॥ क्रीडन्माणवकाङ्किताडनशतैरुज्जागरस्य
क्षणं शार्दूलस्य नखाङ्कुरेषु कुरुते कण्डूविनोदं मृगः । चञ्च्व-
न्द्रशिखण्डितुण्डघटनानिर्मोकनिर्मोचितः किं चायं पिवति
प्रसुप्तनकुलश्वासाऽनिलं पन्नगः ॥ १३ ॥ पक्कानि श्रच्यवन्ते
क्रमुकविटपिनामुच्छ्रितानां फलानि स्पन्दन्ते राजरम्भा-
फलभरनमिता वाति मन्दानिलेऽपि । सह्यन्ते विपाक-
च्युतमधुरफलव्यासमुला रसाला भारेणामी फलान. युवति-
कुचभरस्पर्धिनो नालिकेराः ॥ १४ ॥

राजनीतिः

राजा

राजास्य जगतो वृद्वेर्हेतुर्वृद्धामिसङ्गतः । नयनानन्द-
जननः शशाङ्क इव वारिधेः ॥ १ ॥ राजानं प्रथमं
विन्देत्ततो भार्यां ततो धनम् । राजन्यसति लोकेऽस्मिन्कुतो
भार्या कुतो धनम् ॥ २ ॥ धार्मिकं पालनपरं सम्यक्परपु-
रंजयम् । राजानमभिमन्यन्ते प्रजापतिमिव प्रजाः ॥ ३ ॥
पर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेऽपि हि
पर्जन्ये जीव्यते न तु भूपतौ ॥ ४ ॥ सदानुरक्तप्रकृतिः
प्रजापालनतत्परः । विनीतात्मा हि नृपतिर्भूयसीं श्रियमश्नुते
॥ ५ ॥ सर्वदेवमयो राजा मनुना संप्रकीर्तितः । तस्मात्त-
मेव सेवेत न व्यलीकेन कर्हिचित् ॥ ६ ॥ सर्वदेवमय-
स्यापि विशेषो भूपतेरयम् । शुभाशुभफलं सद्यो नृपाद्देवा-
द्भवान्तरे ॥ ७ ॥ बालोऽपि नावमन्तव्यो मनुष्य इति
भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति ॥ ८ ॥
यस्य प्रसादे पद्मास्ते विजयश्च पराक्रमे । मृत्युश्च वसति
क्रोधे सर्वतेजोमयो हि सः ॥ ९ ॥ अशुचिर्वचनाद्यस्य
शुचिर्भवति पूरुषः । शुचिश्चैवाशुचिः सद्यः कथं राजा न
दैवतम् ॥ १० ॥ निकटस्थं दहत्यग्निर्न तु दूरापसर्पिणम् ।
कुलं दहति राजाग्निः सपशुद्रव्यबान्धवम् ॥ ११ ॥ पात्रे
त्यागी गुणे रागी भोगी परिजनैः सह । बान्धवोद्धा रणे
योद्धा प्रभुः पञ्चगुणो भवेत् ॥ १२ ॥ आक्षेपवचनं तस्य न
वक्तव्यं कदाचन । अनुकूलं प्रियं चास्य वक्तव्यं जनसंसदि
॥ १३ ॥ इन्द्रात्यमृत्वं ज्वलनात्प्रतापं क्रोधो यमाद्वैश्रव-
णाच्च वित्तम् । पराक्रमं रामजनार्दनाभ्यामादाय राज्ञः
क्रियते शरीरम् ॥ १४ ॥ उत्खातान्प्रतिरोपयन्कुसुमितांश्चि-
न्वंल्लघून्वधर्यन्नुत्युञ्चाञ्नमयन्नतान्समुदयन्विश्लेषयन्सहतान् ।
क्षुद्रान्कण्टकिनो बहिर्निरसयन्म्लानान्पुनः सेचयन्मालाकार
इव प्रयोगनिपुणो राजा चिरं नन्दति ॥ १५ ॥

सभासदः

धर्मशास्त्रार्थकुशलाः कुलीनाः सत्यवादिनः । समाः शत्रौ
च मित्रे च नृपतेः स्युः सभासदः ॥ १६ ॥ श्रुत्यध्ययन-
सपन्ना धर्मज्ञा. सत्यवादिन. । राज्ञा सभासदः कार्या रिपौ
मित्रे च ये समाः । १७ ॥

पुरोहितः

वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः । आशीर्वादपरो नित्य-
मेष राजपुरोहित ॥ १८ ॥

धर्माध्यक्षः

कुलशीलगुणोपेत. सर्वधर्मपरायणः । प्रवीण्ः प्रेक्षणाध्यक्षो
धर्माध्यक्षो विधीयते ॥ १९ ॥

वैद्यः

आयुर्वेदकृताभ्यासः सर्वेषा प्रियदर्शनः । आर्यशीलगुणो-
पेत एष वैद्यो विधीयते ॥ २० ॥

मन्त्री

मन्त्रतत्राप्रितप्रीतिर्देशकालोचितस्थितिः । यश्च राज्ञि भवे-
द्भक्तः सोऽमात्य पृथिवीपते. ॥ २१ ॥ स ह्यमात्यः सदा
श्रेयान्काकिनी य. प्रवर्धयेत् । कोशः कोशवतः प्राणाः प्राणाः
प्राणा न भूपतेः ॥ २२ ॥ कमण्डलूपमोऽमात्यस्तनुलागो
बहुग्रहः । नृपति' क्षिष्णो मूर्खो दरिद्रः कि वराटकः
॥ २३ ॥ प्रासार्थग्रहण द्रव्यपरिवर्तोऽनुरोधनम् । उपेक्षा
बुद्धिहीनत्वं भोगोऽमात्यस्य दूषणम् ॥ २४ ॥ स्वदे-
शजं कुलाचारं विशुद्धमथवा शुचिम् । मन्त्रज्मव्यसनिनं
व्यभिचारविवर्जितम् ॥ २५ ॥ अधीतव्यवहारज्ञं मौल
ख्यात विपश्चितम् । अर्थस्योत्पादकं चैव विदध्यान्मन्त्रिणं
नृपः ॥ २६ ॥ अन्तःसारैरकुटिलैरच्छिद्रैः सुपरीक्षितैः ।
मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम् ॥ २७ ॥
सग्रह नौकुलिनस्य सर्पसेव करोति यः । स एव श्लाघ्यते
मन्त्री सम्यग्गारुडिको यथा ॥ २८ ॥ पृष्टो ब्रूते न सत्यं
यः परिणामे सुखावहम् । मन्त्री चेत्प्रियवक्ता स्यात्केवलं
स रिपुः स्मृतः ॥ २९ ॥ मूर्ख व्यसनिनं लुब्धमप्रगल्भं
भयाकुलम् । क्रूरमन्यायकर्तार नाधिपत्ये नियोजयेत् ॥३०॥
दूरदर्थं घटयति नवं दूरतश्चापशब्द त्यक्त्वा भूयो भवति
निरतः सत्सभारञ्जनेषु । मन्दं मन्दं रचयति पदं लोकचि-
त्तानुवृत्त्या कामं मन्त्री कविरिव सदा खेदमौरैरुक्तः ॥३१॥
शास्त्रज्ञः कपटानुसारकुशलो वक्ता न च क्रोधनस्तुल्यो
मित्रपरश्वकेषु चरितं दृष्ट्वैव दत्तोत्तरः । क्लीबान्पालयिता


१ कुशानाम्
१ न अकुलीनस्य; पक्षे,-नाकुर्वल्मीक तत्र लीनस.