सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 158, कुल 516 में से
संदर्भ में पढ़ेंराजनीतिः । १४३
शठान् व्यथयिता धर्म्यैस्तिलोमान्वितो द्विर्भावे परतत्त्वबद्ध-
हृदयो राज्ञश्च कोपापहः ॥ ३२ ॥
सेनापतिः
समस्तनीतिशास्त्रज्ञो वाहने पूजितश्रमः । शौर्यवीर्य-
गुणोपेत सेनाध्यक्षो विधीयते ॥ ३३ ॥
शूरोऽर्थशास्त्रनिपुणः कृतशास्त्रकर्मा सङ्ग्रामकेलिचतुरश्च तुरङ्गयुक्तः ।
भर्तुर्निर्देशवशगोऽभिमतश्च तन्ने सेनापतिर्नरपतेर्विजयागमाय ॥ ३४ ॥
गजाः
यतः सत्यं ततो धर्मो यतो धर्मस्ततो धनम् ।
यतो रूप ततः शील यतो नागास्ततो जयः ॥ ३५ ॥
यतो गजैर्विना राज्ञा राज्यशोभा न जायते ।
जयप्रतापौ सैन्यस्य रक्षा तस्मादिहोच्यते ॥ ३६ ॥
यद्वद्धनमसिंह च यद्वद्राष्ट्रमपार्थिवम् ।
यद्वच्छौर्यमशस्त्र तु तद्वत्सैन्यमकुञ्जरम् ॥ ३७ ॥
प्राकारगोपुराट्टालकपाटोद्घाटनादिषु ।
भञ्जने मर्दने चैव नागा वज्रोपमाः स्मृताः ॥ ३८ ॥
शरजालाञ्चितमुख. कोऽन्य, शक्तः परं गजात् ।
हन्तुं प्राकारमुन्मथ्य रथांश्च नरकुञ्जरान् ॥ ३९ ॥
एकशक्तिप्रहारेण म्रियतेऽश्वो नरोऽपि च ।
सहेच्छतं प्रहाराणा महायुद्धेषु वारण. ॥ ४० ॥
क्रीडासु च नरेन्द्राणा चले पुष्पितपङ्कजे ।
रूपयन्ति गजा हस्तैर्लयपुष्करपुष्करैः ॥ ४१ ॥
श्रियोऽवतारयन्त्येते मृण्मया इव निश्चलाः ।
नास्ति हस्तिसमो बन्धुर्नास्ति हस्तिसमः सखा ॥ ४२ ॥
चलन्ति येषा न शत गजेन्द्राः पुरः प्रयाणे बत शैलतुल्या. ।
वाञ्छन्ति चैवं विजय कथ ते राजेति शब्दं च कथं लभन्ते ॥ ४३ ॥
रक्षन्ति पक्ष मुदिताः स्वकीयं मथ्नन्ति सैन्यं कुपिताः परेषाम् ।
प्राणैरपीच्छन्ति हित प्रभूणा गजैः समानं क बलं बलीयः ॥ ४४ ॥
सैन्योत्तारणतो धुनीषु सततं यो वारिबन्धायते यो मक्ष्न्यरितः परोद्धतबले युद्धेषु योधायते ।
यः स्वीयक्षितिनाथरक्षणविधौ प्रोच्चैर्कुदूर्गायते स प्राजैर्विजिगीषुभिर्गजगणः कैः पार्थिवैर्नोऽर्च्यते ॥ ४५ ॥
मातङ्गैरथ यैर्महेन्द्रभवनं पुण्याधिक जन्यते यैः श्यामैरपि सर्वलोकमहिता कीर्तिः सिता तन्यते ।
यैर्मत्तैरपि संगरे रिपुमद शोष समानीयते तेऽमी भाग्यवतः प्रयान्ति पुरतः स्तम्बेरमा भूपतेः ॥ ४६ ॥
चीत्कारैर्नाशयन्तः स्वपतिमटमनो मोदयन्तो मदाढ्याः प्रौढा. सङ्ग्रामसीम्न्नि स्वबलबहलता बाढमाढौकमानाः ।
शुण्डादण्डप्रहारैः परममपि बलं कम्पयन्तः परेषा येषा सर्वे गजेन्द्रा भुवि विजयविधौ ते मता भूमिपालाः ॥ ४७ ॥
सेतुं समेद्यन्तो बलविकटभटग्रोन्नतिं त्रोटयन्तः प्राकार दारयन्तः परमनसि परा भीतिमुत्पादयन्तः ।
व्यूहं विद्रावयन्तः सुघनमपि वनं हेलयोत्पाटयन्तो येषामाजौ गजेन्द्राः खलु धरणिभुजा तजयः सिद्ध एव ॥ ४८ ॥
तावद्गर्जन्ति वीर्यात्परनिधनविधौ युद्धमध्येऽपि धीरास्तावद्धावन्ति वेगं परमपि दधतः सम्मुखीनास्तुरङ्गाः ।
शूरारूढः सुसज्जो मदमुदितमना मानिमानं विधुन्वन्नावन्नायाति कोपात्कृतविविधरवाटोप एकोऽपि नागः ॥ ४९ ॥
तुरगाः
अश्वा यस्य जयस्तस्य यस्याश्वास्तस्य मेदिनी ।
अश्वा यस्य यशस्तस्य यस्याश्वास्तस्य काञ्चनम् ॥ ५० ॥
निपत्य युधि वेगेन मिषता सर्वधन्विनाम् ।
शत्रुं निहत्य यात्येकः शूरो वाजिप्रभावतः ॥ ५१ ॥
शस्त्राखैर्भिद्यदेहोऽपि श्रान्तोऽपि गुरुभारतः ।
न सुष्वाति रणे नाथमत. कोऽन्यो ह्यात्सुहृत् ॥ ५२ ॥
दूरस्थोऽपि बली शत्रून् शेते रजनीष्वपि ।
तस्य भीत्या गृहे यस्य हरयो वेगवत्तराः ॥ ५३ ॥
न गजैर्न नरै. कार्य सिद्धिमभ्येति भूभृताम् ।
तथा निमेषमात्रेण यथा वाहैः सुसाधितै. ॥ ५४ ॥
राज्य शतक्रतुमृद्धिसमानमश्चैश्वर्यैः श्रिय. सकलकामदुघा भवन्ति ।
अश्वैर्यशांसि विपुलानि समुल्लसन्ति नाश्वैः प्रयान्ति सदशत्वमिभादयोऽपि ॥ ५५ ॥
तीक्ष्णाग्रहेतिहतिभिः सुतलोलदन्तं चञ्चत्कगलकरवालविघट्टिताङ्घ्रिम् ।
कोऽन्यो विहाय हयमाहवजातमूर्च्छाप्राणप्रयाणसमयेऽवतुमीशमीश. ॥ ५६ ॥
पादा कन्दुकवत्स्थितिश्च गिरिवद्वेषारवो मेघवन्नेत्रे नीरजवज्जवः पवनवच्चास्फालनं सिंहवत् ।
विन्यासो नटवन्मुखं कुलवधूवक्रेन्दुवद्वाजिनो यस्य क्षोणिभुजो विशस्तदितरे साम्राज्यमुर्वीतले ॥ ५७ ॥
खङ्गः
खङ्गाल्लक्ष्मीस्तथा राज्य यशः खङ्गादवाप्यते ।
खङ्गाद्वैरिविनाशं च यलात्तमभिदध्महे ॥ ५८ ॥
यस्मिन्खङ्गे शरीर प्रतिफलति यथा खड्गराजोऽभिवन्द्यो वन्द्योऽयं देववृन्दैरपि यदि स भवेदर्थचन्द्रोपपन्न. ।
नानावर्णैर्युतश्चेत्स भवति नृपतेः शत्रुनाशैकहेतुः सेतुर्लक्ष्मीप्रवाहे निखिलरिपुकुलध्वंसने धूमकेतुः ॥ ५९ ॥
सैन्यम्
प्रथमं युद्धकारित्वं समस्तबलपालनम् ।
दिङ्मार्गयोधशोधित्वं पत्तिकर्म प्रचक्षते ॥ ६० ॥
स्वभावशूरमस्त्रज्ञमविरक्तं जितश्रमम् ।
प्रसिद्धक्षत्रियप्रायं बलं श्रेष्ठतमं विदुः ॥ ६१ ॥
वरमल्पबलं सारं न बही मुण्डमालिका ।
कुर्यादसारभङ्गो हि सारभङ्गमपि स्फुटम् ॥ ६२ ॥
दुर्गः
न गजाना सहस्रेण न लक्षेण च वाजिनाम् ।
तथा सिध्यन्ति कार्याणि यथा दुर्गप्रभावतः ॥ ६३ ॥
अदुर्गो विषयः कस्य नारेः परिभवास्पदम् ।
अदुर्गोऽनाश्रयो राजा पोतच्युतमनुष्यवत् ॥ ६४ ॥
विषहीनो यथा नागो मदहीनो यथा गज. ।
सर्वेषा वश्यता याति दुर्गहीनस्तथा