सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 156, कुल 516 में से
संदर्भ में पढ़ेंवनश्रीवर्णनम्, मृगयावर्णनम्, मृगयानिवृत्तिः, ऋष्याश्रमवर्णनम् १४१
स्थगितमिव तलं भाति शेफालिकाना गन्धः सप्तच्छदाना
सपदि गजमदामोदमोह करोति । एते चोच्छिद्रपद्मच्युतबहु-
लरजःकायपिञ्जाङ्गरागा गायन्त्यत्राप्यवाचः किमपि मधु-
लिहो वारुणीपानमत्ताः ॥ ६ ॥ श्रोत्र हसस्वनोऽयं सुखयति
दयितानूपुराह्लादकारी दृष्टिप्रीति विधत्ते तटतरुविवराल-
क्षिता सौधमाला । गन्धेनाम्भोरुहाणा परिमलपटुना जायते
घ्राणसौख्य गात्राणा ह्लादमेते विदधति मरुतो वारिसपर्क-
शीताः ॥ ७ ॥
मृगयावर्णनम्
निहत निहत तूर्णं धत्त धत्त त्वराभिर्मिलत मिलत के
के कुत्र कुत्र प्रयान्ति । इत इत इत एते यान्ति यान्तीत्य-
रण्यादतुलकलकलश्रीः सर्वतः प्रादुरासीत् ॥ १ ॥ अनवरत-
धनुर्ज्यास्फालनक्रूरकर्मा रविकरणसहिष्णुः स्वेदलेशैरभिन्नः ।
उपचितमपि गात्रं व्यायतत्वादलक्ष्य गिरिचर इव नागः
प्राणसार बिभर्ति ॥ २ ॥ मार्ग देहिं पद निधेहि निभृतं
तं शब्दमाकर्णय श्वान वारय कन्दलात्कलकल कोऽय
सखे तावकः । इत्यन्योन्यमनेकधा मृगवधव्यापारपारगमै-
र्व्याधैः कोऽप्यधिको रसः प्रतिपदं जल्पद्भिरुत्पाद्यते ॥ ३ ॥
श्वेलातर्जितसिंहगर्जितभयभ्राम्यद्गजग्रामणीभीट्टारद्रवदक्षद-
र्शनकृतभ्रूभङ्गशाखामृगम् । कुन्तक्षुण्णतरक्षुवक्त्रगलितक्षो-
णीनिषण्णार्भकघ्राणं व्यापृतरोहिताहितबहूत्कारं वनाभ्यन्त-
रम् ॥ ४ ॥ एष क्षु॑भाति पङ्क द॑लति कमलिनीमत्ति
गुन्द्राप्ररोहाना॑रात्समुस्तास्थलानि खैपुटयति जला॑न्युत्कसे-
तूर्नि याति । प्राप्तः प्राप्तः प्रविष्टो वनगहनमयं याति
यातीति सैन्यैः पश्चादन्विष्यमाणः प्रविशति विषमान्कानना-
न्तान्यराहः ॥ ५ ॥ आस्तीर्यन्तामुपान्ते वैनवृतिनिपुणैर्जा-
लिकैर्जांलबन्धा मुच्यन्ता शृङ्खलाभ्यः श्वगणभिरटवीगह्वरे
सारमेयाः । आकीर्यन्ता स्थलानि श्रमशिथिलहयैः सादिभिः
पाशहस्तैर्व्याधूयन्ता कृतान्तैरिव महिषचरैर्दण्डिभिः कान-
नानि ॥ ६ ॥ शङ्कुव्याकीर्णरङ्गुद्रुतनिशितशरक्षुण्णदीव्यत्तर-
क्षुव्याघोषक्षुब्ध कण्ठीरव रव चकितव्यस्तमातङ्गयूथम् । खड्ग-
व्यालूनकण्ठं तुमुलकलकलप्रान्तकूजच्छकुन्त भल्लध्वस्ता-
च्छभल्लू वनभुवि मृगयाकर्म तेन प्रतेने ॥ ७ ॥
मृगयानिवृत्तिः
गाहन्ता महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छाया-
बद्धकदम्बक मृगकुलं रोमन्थमभ्यस्यतु । विश्रब्धैः क्रियता
वराहपतिभिर्मुस्ताक्षति पल्वले विश्रान्ति लभतामिदं च
शिथिलज्याबन्धमस्मद्धनु ॥ १ ॥
ऋष्याश्रमवर्णनम्
विक्षवक्तपोवनकुमारसमर्प्यमाणश्यामाकतण्डुलहृता च
पिपोलिकानाम् । श्रेणीभिराश्रमपथाः प्रथमानचित्रपत्रावली-
वलयिनो मुदमुद्वहन्ति ॥ १ ॥ व्याज़म्भमाणवदनस्य हरेः
करेण कर्षन्ति केसरसटाः कलभाः किलैके । अन्ये च
केसरिकिशोरपीतमुक्त दुग्ध मृगेन्द्रवनितास्तनं पिबन्ति
॥ २ ॥ मधुरमिव वदन्ति स्वागतं भृङ्गनादैर्नतिमिव फल-
नम्रैः कुर्वतेऽमी शिरोभिः । ननु ददत इवार्घं पुष्पवृष्टिं
किरन्तः कथमतिथिसपर्यो शिक्षिताः शाखिनोऽपि ॥ ३ ॥
नीपस्कन्धे कुहरिणि शुकाः स्वागतं व्याहरन्ति घ्राणग्राही
हरति हृदय हव्यगन्धः समीरः । एता मृग्यः सलिलपुलि-
नोपान्तसक्तार्द्रपङ्कं पश्यन्त्योऽस्मान्सचकितदृशो निर्झराम्भः
पिबन्ति ॥ ४ ॥ कुल्याम्भोभिः पवनचपलैः शाखिनो
धौतमूला भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन । एते
चार्वागुपवनभुवि च्छिन्नदर्भार्कुरया नशतङ्का हरिणशिशवो
मन्दमन्द चरन्ति ॥ ५ ॥ रसालाना मन्तर्मदकलरुतो-
किलकुल समन्तादुन्मीलत्कुलमुकुलामोदभरितम् । घन-
स्निग्धच्छाय क्रमुककदलीशीतलतलं ननु प्रीतिं धत्ते नव-
मिदमुषेश्राश्रमपदम् ॥ ६ ॥ नीवाराः शुककोटरार्भकमुख-
भ्रष्टास्तरूणामधः प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त
एवोपलाः । विश्वासोपगमादभिन्नगतयः शब्द सहन्ते मृगा-
स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ ७ ॥
तत्तादृक्तृणपुलकोपनयनक्लेशार्चिरद्वेधिभिर्मेध्या वत्सतरो
विहस्य बटुभिः सोल्लुण्ठमालम्यते । अप्येष प्रतनूभवत्यति-
थिभिः सोच्छ्वासनासापुटैरापीतो मधुपर्कपाक सुरभिः प्राग्वश-
जन्मानिलः ॥ ८ ॥ प्रत्यासन्नतपारदीधितिकरक्लिष्टस्यतमो-
वल्लोरुत्पामिर्भखधूमवल्लिभिरमी समीलितव्यञ्जनाः । श्रः
सचीवरयिष्यमाणबटुकव्याधौतशुष्यत्त्वचो निद्राणातिथयस्त-
पोवनगृहाः कुर्वन्ति नः कौतुकम् ॥ ९ ॥ नीवारौदनमं-
ण्डमुष्णमधुर सद्यःप्रसूतप्रियापीतादप्यधिकं तपोवनमृगः
पर्याप्तमचामति । गन्धेन स्फुरता मनागनुसृतो मैक्तस सँ-
पिंषमतः कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते ॥१०॥
पादटिप्पण्यः (वामभागः):
१ विलोडयति २ विमर्दयति ३ विषमोन्नतानि करोति
४ उत्का संशयमारूढा सेतवो येषां तानि ५ अरण्यवेष्टनपद्धभि
पादटिप्पण्यः (दक्षिणभागः):
१ अमरसम् २ पिबति ३ अन्नरस ४ सघृतस्स.