सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 112, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 112

92 स्मृतिचन्द्रिकायां

समत्वमेकत्वमागतस्यापि कृतसपिण्डीकरणस्यापीत्यर्थः । शस्त्रह-
तस्य पितुः महालये चतुर्दश्यामेकोद्दिष्टश्राद्धे कृतेऽपि दिना-
न्तरे पार्वणश्राद्धं कार्यम्, एकोद्दिष्टश्राद्धेन पितामहादितृ-
प्त्यसिद्धेः । नन्वेवं मृताहेऽप्येकोद्दिष्टश्राद्धे कृते पार्वणश्राद्ध-
मपि पितामहादितृप्तिसिद्धयर्थं कर्तव्यं स्यात् । मैवम्, पि-
तृमृताहे पितामहादेस्तर्पणीयत्वास्मरणेन तत्तृप्त्यर्थं श्राद्धस्या-
ननुष्ठेयत्वात् । महालयप्रकरणे—
काङ्क्षन्ति पुत्रपौत्रेभ्यः पायसं मधुसंयुतम् ।
तस्मात्तांस्तत्र विधिना तर्पयेत्पायसेन तु ॥
मध्वाज्यतिलमिश्रेण ................. ॥
इति पितामहादेरपि तर्पणीयत्वस्मरणात् तत्तृप्तये दिनान्तरे
पार्वणश्राद्धं कार्यमेव । यस्य तु पितामहोपि शस्त्रादिना हतः
तस्य महालये पितामहश्राद्धमपि चतुर्दश्यामेकोद्दिष्टरूपं का-
र्यम् । तथाच स्मृत्यन्तरं—‘एकस्मिन् द्वयोर्वेकोद्दिष्टविधिः'
इति । एकस्मिन् पितरि शस्त्रादिना हते द्वयोर्वा पितृपि-
तामहयोः चतुर्दश्यामेकोद्दिष्टविधिना प्रत्येकं श्राद्धं कार्यमि-
त्यर्थः । द्वयोरेकोद्दिष्टविधानेन प्रत्येकं श्राद्धे कृते प्रपिताम-
हतृप्तिसिद्धयर्थं दिनान्तरे पार्वणश्राद्धं कार्यम्, ‘एकस्मिन्
द्वयोर्वा' इत्यभिधानात् । त्रिषु पितृपितामहप्रपितामहेषु श-
स्त्रादिनिहतेषु नैकोद्दिष्टविधिरिति गम्यते । तेषु त्रिषु शस्त्रा-
भिहतेषु चतुर्दश्यां पार्वणविधिरैव । युक्तं चैतत्, सपिण्डी-