स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 111, कुल 474 में से
संदर्भ में पढ़ेंश्रपणं कृत्वा ज्येष्ठानुक्रमेण श्राद्धानुष्ठाने क्रमोऽनुसन्धेय इ-
त्यर्थः । अत्र यदुक्तं स्मृत्यर्थसारे 'एकः पाको वैश्वदेवं
तन्त्रं पिण्डं बर्हिश्चैकम्' इति, तत्र वैश्वदेवं तन्त्रमिति चिन्त्यं
आचार्यगुरुशिष्यसखिज्ञात्यादीनामेकोद्दिष्टविधानेनैव श्राद्धं का-
र्यमिति स्मृतिवचनैरुक्तत्वात् । तत्र वैश्वदेवासम्भवात् 'नव-
मिश्रपुराणानीति त्रिविधान्येकोद्दिष्टानि' इत्युक्तत्वेन सर्वैको-
द्दिष्टेषु दैवं नास्तीति स्मृत्यर्थसार एवोक्तत्वाच्च । स्मृतिव-
चनानि त्वदूरे दर्शयिष्यामः । यमोप्यसमर्थं प्रत्याह-
हंसे वर्षासु कन्यास्थे शाकेनापि गृहे वसन् ।
पञ्चम्योरन्तरे दद्यादुभयोरपि पक्षयोः ॥
वर्षासु प्रावृषि हंसे सूर्ये कन्याराशिस्थे पञ्चमपक्षस्य पञ्च-
मीप्रभृत्यनन्तरपक्षस्य पञ्चमीपर्यन्तदिवसेष्वन्यतमे दिवसे यथा-
सम्भवं गृही पितृभ्यो दद्यादित्यर्थः । पञ्चम्योरन्तरे चतु-
र्दशीव्यतिरिक्त इति शेषः । तदाह मरीचिः-
विषशस्त्रश्वापदाहितैर्यग्ब्राह्मणघातिनाम् ।
चतुर्दश्यां क्रिया कार्या अन्येषां तु विगर्हिता ॥
विषादिब्राह्मणान्तैः कृतः घातः एषां ते विषशस्त्रश्वापदा-
हितैर्यग्ब्राह्मणघातिनः । क्रिया श्राद्धक्रिया एकोद्दिष्टविधाने-
नेति शेषः । तथाच सुमन्तुः-
समत्वमागतस्यापि पितुश्शस्त्रहतस्य तु ।
एकोद्दिष्टं सुतैः कार्यं चतुर्दश्यां महालये ॥