स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 107, कुल 474 में से
संदर्भ में पढ़ें87
पञ्चदशदिनात्मक एवेति दर्शयितुमुक्तम् । यद्वा अमावास्या-
या अनन्तरभूता या प्रतिपत्तिथिः तस्या अपि सङ्ग्रहणार्थं
तिथिषोडशक इत्युक्तं, प्रतिपदोपि क्षीणचन्द्रत्वेनापरपक्षतु-
ल्यत्वात् । न चैवं वाच्यं, नभस्यस्यापरे पक्षे कन्यागते
सूर्ये सति तद्दिनात्प्रभृति तिथिषोडशकं श्राद्धकालस्स्यादि-
त्यनेन प्रतिपाद्यत इति । यत आह वृद्धमनुः—
मध्ये वा यदि वाऽप्यन्ते यत्र कन्यां रविर्व्रजेत् ।
स पक्षस्सकलः पूज्यः श्राद्धं तत्र विधीयते ॥
इति । यत्र यस्मिन् पञ्चमे पक्षे यत्रकुत्रचित्कन्यागते सवि-
तरि सति सकलस्स पक्षः श्राद्धे प्रशस्ततरकालः । तेन
तत्र प्रतिदिनमेकस्मिन्वा दिने शक्त्यनुसारेण श्राद्धं कर्त-
व्यमित्यवगन्तव्यम् । तथा चादित्यपुराणं—
पक्षान्तरेऽपि कन्यास्थे रवौ श्राद्धं प्रशस्यते ।
कन्यागते पञ्चमे तु विशेषेणैव कारयेत् ॥
पक्षान्तरेऽपि पञ्चमपक्षात् पक्षान्तरेऽपीत्यर्थः । पञ्चमपक्षस्य प्र-
शस्ततरत्वं 'विशेषेणैव कारयेत्' इत्यनेनोक्तम् । अनेनैवाभि-
प्रायेण जातूकर्ण्यः—
आकाङ्क्षन्ति स्म पितरः पञ्चमं पक्षमाश्रिताः ।
तस्मात्तत्रैव दातव्यं दत्तमन्यत्र निष्फलम् ॥
प्रशस्तकाले दत्तमत्यन्ताधिकफलसाधकमित्यर्थः । किं पुनः
प्रशस्ततरकाले दत्तस्य फलमित्यपेक्षिते कार्णाजिनिः—