स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 108, कुल 474 में से
संदर्भ में पढ़ें88 स्मृतिचन्द्रिकायां
पुत्रानायुस्तथाऽऽरोग्यमैश्वर्यमतुलं तथा ।
प्राप्नोति पञ्चमे दत्वा श्राद्धं कामांश्च पुष्कलान् ॥
पुराणेऽपि—
कन्यागते सवितरि यान्यहानि तु षोडश ।
ऋतुभिस्तानि तुल्यानि पितॄणां दत्तमक्षयम् ॥
इति । तदेतच्छाठ्यायनिवचनेन समानार्थतया व्याख्येयम् ।
प्रशस्ततरकालातिक्रमे दोषोपि कार्ष्णाजिनिना दर्शितः—
प्रेतास्तं चैव हिंसन्ति पञ्चमं यो व्यतिक्रमेत् ।
तस्मान्नातिक्रमेद्विद्वान्पञ्चमे पैतृकं विधिम् ॥
यदा तु पञ्चमे पक्षे कथञ्चिदेतच्छ्राद्धं न कृतं तदा त्वाह
सुमन्तुः—
कन्याराशौ महाराज यावत्तिष्ठेद्विभावसुः ।
तस्मात्कालाद्भवेद्देयं वृश्चिके यावदागतः ॥
येयं दीपान्विता राजन् ख्याता पञ्चदशी भुवि ।
तस्यां दद्यान्न चेद्दत्तं पितॄणां वै महालये ॥
इति । महालये महालयाख्ये पञ्चमे पक्षे पितॄणां पितृभ्यो
न दत्तं चेत्तदा कन्याराशौ यावद्विभावसुस्तिष्ठेत्तावदन्यस्मि-
न्पक्षेऽपि दद्यात् । तस्मात्कालात्कन्यागतसूर्यान्वितकालात्प-
श्चातुलाराशिगतसूर्यान्वितेऽपि श्राद्धं देयं भवेत् । तत्रापि
काले यदि कथञ्चिन्न दत्तं तदा दीपावळ्याख्यायां पञ्च-
दश्यां दद्यादित्यर्थः । पुराणेऽपि—