स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 106, कुल 474 में से
संदर्भ में पढ़ें86 ' स्मृतिचन्द्रिकायां
पञ्चम्यूर्ध्वं तु तत्रापि दशम्यूर्ध्वं ततोपि च ॥
मघायुक्ताऽपि तत्रापि शस्ता राजन् त्रयोदशी ।
इति । श्राद्धकालेषूदगयनाद्दक्षिणायनं श्रेष्ठं याम्यायनाद्दक्षि-
णायनादित्यर्थः । तत्र दक्षिणायने केशवे सुप्ते सति मास-
चतुष्टयं श्रेष्ठं, याम्यायनेऽप्याषाढीं पौर्णमासीमारभ्य मासच-
तुष्टयं श्रेष्ठमिति यावत् । तत्रापि प्रोष्ठपदमासस्यापरपक्षो वि-
शेषतः श्रेष्ठः । तत्रापि पञ्चम्या ऊर्ध्वं दर्शान्तानि दिनानि
श्रेष्ठानि । तत्रापि दशम्या ऊर्ध्वं पञ्चदिनानि श्रेष्ठानि ।
तेष्वपि मखानक्षत्रयुक्ता त्रयोदशी अतिप्रशस्तेत्यर्थः । आ-
दित्यपुराणेऽपि—
आषाढीमवधिं कृत्वा यस्स्यात्पक्षस्तु पञ्चमः ।
श्राद्धं तत्र तु कुर्वीत कन्यां गच्छतु वा न वा ॥
पञ्चमे पक्षे सूर्यः कन्याराशिं गच्छतु वा न वेत्यर्थः । अत्र
न वेति पक्षः कन्यागतत्वाभावेऽपि तत्र श्राद्धं कुर्वीतेति वि-
धातुं नोक्तं, किन्तु पञ्चमः पक्षः कन्यागतसूर्यरहितोपि श्रेष्ठः
किं पुनस्तत्सहित इति दर्शयितुमिति मन्तव्यम् । अत एव
शाठ्यायनिः—
नभस्यस्यापरे पक्षे तिथिषोडशकस्तु यः ।
कन्यागतान्वितश्चेत्स्यात्स कालः श्राद्धकर्मणि ॥
इति । तिथिषोडशक इति कदाचित्पक्षवृद्धेः षोडशादिनात्म-
कोपि नभस्यस्यापरः पक्षः श्राद्धकर्मणि कालो न तु तत्र