सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 105, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 105

नातिसन्ध्यासमीपतः' इति दिनान्तिमे मुहूर्त्तत्रये न कार्यमित्येवं-
परं, न पुनर्विशेषेण तृतीयांशे विधिपरमिति । यदपि व्या-
घ्रपादवचनं—
विधिज्ञश्श्रद्धयोपेतः सम्यक्पात्रनियोजकः ।
रात्रेरन्यत्र कुर्वाणः श्रेयः प्राप्नोत्यसंशयम् ॥
इति, तदप्युक्तयुक्त्यैव नाहर्मात्रविधिपरमिति सर्वमनवद्यम् ।
रात्रिनिषेधस्य क्वचिदपवादमाह विष्णुः—
सन्ध्यारात्र्योर्न कर्तव्यं श्राद्धं खलु विचक्षणैः ।
तयोरपि च कर्तव्यं यदि स्याद्राहुदर्शनम् ॥
इति । अत्र शातातपः—
कालातीतं तु यत् कुर्याच्छ्राद्धं होमं जपं तथा ।
व्यर्थीभवति तत्सर्वं अमृते तु विषं यथा ॥
इति स्मृतिचन्द्रिकायामपराह्णनिर्णयः.


अथान्यान्यपि श्राद्धकालविषयाणि कानिचिद्वचनानि
लिख्यन्ते.
तत्र विष्णुधर्मोत्तरे मार्कण्डेयः—
उत्तरादयनाद्राजन् श्रेष्ठं स्याद्दक्षिणायनम् ।
याम्यायनाच्चतुर्मासं तत्र सुप्ते तु केशवे ॥
प्रोष्ठपद्यपरः पक्षः तत्रापि च विशेषतः ।