स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 104, कुल 474 में से
संदर्भ में पढ़ें84 स्मृतिचन्द्रिकायां
नात् । अतस्तर्पणशब्दोपि कथञ्चित्पिण्डपितृयज्ञपर इत्यवग-
न्तव्यम् । एवञ्च यत्र श्राद्धदिने चन्द्रदर्शनेन पिण्डपितृय-
ज्ञप्राप्तिः तत्राग्निमान् कृत्वैव पिण्डपितृयज्ञं श्राद्धं कुर्यात् ।
अन्यथा तु साग्नेरपि कुतपाद्येव श्राद्धमित्यनुसन्धेयम् । ननु
कुतपादिरौहिणान्तत्वाच्छ्राद्धकालस्य तस्य च कर्मद्वयापर्याप्तत्वा-
त्कथमग्निमच्छ्राद्धस्यापि पिण्डपितृयज्ञानन्तर्यम् । मैवं, मत्स्य-
पुराणे रौहिणादुपर्यपि कालविधानात्—
ऊर्ध्वं मुहूर्तं कुतपाद्यन्मुहूर्तचतुष्टयम् ।
मुहूर्तपञ्चकं ह्येतत्स्वधाभवनमिष्यते ॥
इति कुतपादिमुहूर्तपञ्चकं श्राद्धस्याङ्गमित्यर्थः । यत्तु यमेनोक्तं-
चतुर्थे प्रहरे प्राप्ते यश्श्राद्धं कुरुते नरः ।
आसुरं तद्भवेच्छ्राद्धं दाता च नरकं व्रजेत् ॥
इति, तत् चतुर्थप्रहरे प्राप्ते सति योऽन्तिमे मुहूर्तत्रये श्राद्धं
करोति तस्य दोष इत्येवंपरं, न पुनः प्रहरनिषेधपरं पूर्वोक्त
मत्स्यपुराणवचनविरोधात् । उक्तं च तत्रैव—
सायाह्नस्त्रिमुहूर्तस्स्याच्छ्राद्धं तत्र न कारयेत् ।
राक्षसी नाम सा वेळा गर्हिता सर्वकर्मसु ॥
इति । यदपि कात्यायनेनोक्तं—
पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।
वासरस्य तृतीयेऽंशे नातिसन्ध्यासमीपतः ॥
इति, तदपि कूर्मपुराणवचनविरोधात् ‘वासरस्य तृतीयेऽंशे