सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 103, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 103

श्राद्धकाण्डे अपराह्ननिर्णयः ८३
इति । एवञ्च यदपराह्ने विहितं तदपराह्नान्तर्गतकुतपे कार्यं
विधीयत इत्यविरोधः । एतदपि प्रारम्भाभिप्रायम् । तदाह
मत्स्यः—
मध्याह्ने सर्वदा यस्मान्मन्दीभवति भास्करः ।
तस्मादनन्तफलदस्तत्रारम्भो विशिष्यते ॥
गौतमोपि—
प्रारभ्य कुतपे श्राद्धं कुर्यादारौहिणं बुधः ।
विधिज्ञो विधिमास्थाय रौहिणं तु न लङ्घयेत् ॥
इति । एतच्च कुतपादिश्राद्धविधानमनग्निकविषयं, साग्नेः कृ-
तपिण्डपितृयज्ञस्यैव मनुना श्राद्धविधानात् ।
पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥
इति पिण्डपितृयज्ञस्याप्यपराह्नकालत्वेन श्राद्धस्य कुतपादि-
त्वासम्भवादिति भावः । न च
पितृयज्ञं तु निर्वर्त्य तर्पणाख्यं तु योऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यादिन्दुक्षये सदा ॥
इति मत्स्यपुराणवचनात्पितृयज्ञशब्दः तर्पणाख्यपितृयज्ञपर इति
साग्नेरपि कुतपाद्येव श्राद्धमिति शङ्कनीयं,
पक्षान्तं कर्म निर्वर्त्य वैश्वदेवं च साग्निकः ।
पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः ॥
इति लौगाक्षिणा साग्नेः पिण्डपितृयज्ञानन्तरमेव श्राद्धविधा-