स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 102, कुल 474 में से
संदर्भ में पढ़ें82 स्मृतिचन्द्रिकायां
धानात्, तथा रौहिणं तु न लङ्घयेदिति चतुर्थभागादर्वागेव
समाप्तिविधानाच्च । रौहिणो नवमो मुहूर्तः । किञ्च—
भूतविद्धा त्वमावास्या प्रतिपन्मिश्रिताऽपि वा ।
पित्र्ये कर्मणि विद्वद्भिः ग्राह्या कुतपकालिकी ॥
इति हारीतः श्राद्धाङ्गत्वेन कुतपकालं विधत्ते, तदपि न
स्यात् । ननु नानेन कुतपकालस्य श्राद्धाङ्गत्वमवगम्यते ।
मैवं, कुतपकालिकीग्रहणविधेः दृष्टार्थतायाङ्गत्वस्यैवोचितत्वा-
त् । उक्तं च पुराणे—
कुं यत्र गोपतिर्गोभिः कात्स्न्येन तपति क्षणे ।
स कालः कुतपो नाम श्राद्धं तत्र प्रदीयते ॥
इति । कुः पृथ्वी । गोपतिः सूर्यः । अत्र यत्कैश्चिदुक्तं 'ए-
कोद्दिष्टं तु मध्याह्ने' इति वचनात्कुतपकालविधानमेकोद्दिष्टवि-
षयमेवेति, तदनेन दर्शश्राद्धेऽपि कुतपकालविधानेनापास्तम् ।
न चैवं सति कुतपापराह्नविध्योर्विकल्पस्स्यादिति शङ्कनीयं,
कुतपोत्तरार्धस्यापराह्नान्तर्भावात् । कुतपो हि नाम पञ्चदशमु-
हूर्तात्मकस्याह्नोऽष्टमो मुहूर्तः । तथाच मत्स्यपुराणं—
अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा ।
तत्राष्टमो मुहूर्तो यः स कालः कुतपस्स्मृतः ॥
इति । वायुपुराणेऽपि—
मुहूर्तात्सप्तमादूर्ध्वं मुहूर्तान्नवमादधः ।
स कालः कुतपो नाम पितॄणां दत्तमक्षयम् ॥