सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 101, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 101

श्रा[द्ध०] 81
अपराह्णे पितॄणां च तत्र दानं प्रशस्यते ॥
अपराह्णोपि पञ्चधाविभक्तस्याह्नश्चतुर्थो भाग इत्याह व्यासः-
मुहूर्तत्रितयं प्रातः तावानेव च सङ्गवः ।
मध्याह्नस्त्रिमुहूर्तस्स्यादपराह्णोपि तादृशः ॥
सायाह्नस्त्रिमुहूर्तस्तु सर्वकर्मबहिष्कृतः ।
इति । वाजसनेयश्रुतिरपि—‘आदित्यो वै सर्वा ऋतवस्स
यदैवोदेत्यथ वसन्तो यदा सङ्गवोऽथ ग्रीष्मो यदा मध्य-
न्दिनोऽथ शरदथदाऽपराह्नस्तदा वर्षा यदाऽस्तमेत्यथ हेमन्तः’
इति । श्रुत्यन्तरे तु त्रेधा विभक्तस्याह्रस्तृतीयभागेऽपराह्नशब्दः
प्रयुक्तः—‘पूर्वाह्नो वै देवानां मध्यंदिनं मनुष्याणामपराह्नः
पितॄणाम्’ इति । मनुस्तु द्वेधा विभक्तस्याह्नो द्वितीयभागेऽप-
राह्नशब्दमाह—
यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते ।
तथा श्राद्धस्य पूर्वाह्नादपराह्नो विशिष्यते ॥
स्कन्दपुराणेऽपि—
आवर्तनात्तु पूर्वाह्नो ह्यपराह्नस्ततः परः ।
इति । आवर्तनावधिः पूर्वाह्न इत्यर्थः । एवमनेकधाऽपराह्न-
शब्दप्रयोगेऽपि मनूक्त एवापराह्नशब्दार्थः स्वीक्रियते ।
शुक्लपक्षस्य पूर्वाह्ने श्राद्धं कुर्यात् द्विजोत्तमः ।
कृष्णपक्षापराह्णे तु रौहिणं तु न लङ्घयेत् ॥
इति मार्कण्डेयेन द्वेधा विभक्तस्याह्नो द्वितीयभागे श्राद्धाव-
SMRITI CHA.—VOL. V. 11