सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 100, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 100

पुनस्त्रयोदश्यां कलामात्रैव द्वादशी तत्र पुराणोक्तं—
त्रयोदश्यां यदा राजन् द्वादश्यास्तु कला भवेत् ।
सा तिथिसकला चेति वसिष्ठः प्राह धर्मवित् ॥
इति । एवञ्च यानि त्रयोदशीपारणनिषेधपराणि तानि त्र-
योदश्यां द्वादशीसम्भवविषयाणीति सिद्धम् । यानि पुनः—
कलां काष्ठा मुहूर्त्तं वा यदि चेदपरेऽहनि ।
द्वादश द्वादशीर्हन्ति त्रयोदश्यां तु पारणम् ॥
इति, त्रयोदश्यां द्वादशीसम्भवमनूद्य पारणनिषेधपराणि,
तानि
विद्धाऽप्येकादशी ग्राह्या परतो द्वादशी न चेत् ।
द्वादश द्वादशीर्हन्ति त्रयोदश्यां तु पारणम् ॥
इत्यादिभिस्समानार्थानीत्यनवद्यम् । एवञ्च यत्कैश्चिदुक्तं त्रयो-
दश्यां द्वादशीसम्भवेऽपि त्रयोदशीपारणं न दोषायेति, तद-
पास्तम् ॥
इति स्मृतिचन्द्रिकायां एकादशीवैधनिर्णयः.
एवं प्रसक्तमनुप्रसक्तं च परिसमाप्याधुना प्रकृता-
पराह्णनिर्णयः क्रियते.
तत्र शातातपः—
दर्शश्राद्धं तु यत्प्रोक्तं पार्वणं तत्प्रकीर्तितम् ।