षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
६ श्रीवल्लभकृतविवरणसमेता।
भागवती भक्तिर्मुक्तेर्गरीयसी' । 'राजनपतिर्गुरुरलं भवतां यदूनां दैवं प्रियः कुलपतिः क्वच
किंकरो च' । 'अस्त्वेवमेव भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्ति-
योग'मित्यादि । प्रवाहमार्गस्य 'प्रवृत्तिं च निवृत्तिं चे'त्यारभ्य 'मामप्राप्यैवे'त्यन्तेन सर्वात्मना
स्वसम्बन्धाभावकथनेन । अथ च भक्तिमार्गीयमुक्तेरमृतत्वकथनेन च प्रवाहमार्गीयमुक्ते-
रधमगतित्वकथनेन च प्रवाहमार्गस्य न भक्त्यङ्गत्वमिति त्वदुक्ताङ्गित्वशङ्का निरस्ता । एवं
प्रवाहमार्गस्य भक्त्यङ्गत्वं निराकृत्य मर्यादामार्गस्यापि भक्त्यङ्गत्वं निराकुर्वन्ति युक्त्या
हि वैदिक इति । भिन्न इति शेषः । युक्त्येत्येकवचनं जात्यभिप्रायेण । तत्रैता युक्तयः ।
भगवद्गीतासु द्वादशाध्याये, 'एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरम-
व्यक्तं तेषां के योगवित्तमा' इति अर्जुनेन भक्तिज्ञानयोस्तारतम्यप्रश्ने कृते सति, भगवता
'मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मता'
इति भक्तिमार्गोत्कर्षमुक्त्वा, तदनन्तरं ज्ञानमार्गस्य अक्षरपर्यवसायित्वेन तारतम्यज्ञापनार्थं
'ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् । सन्निय-
म्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः । क्लेशोधिकतरस्तेषा-
मव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते' । अत्र भगवता 'ते प्राप्नुवन्ति
मामेवे'ति यदुक्तम्, तदक्षरस्य पुरुषोत्तमविभूतिरूपत्वात् ज्ञानमार्गस्याक्षरपर्यवसायित्व-
ज्ञापनार्थम् । तत्रासौ 'सन्नियम्येन्द्रियग्राम'मित्यारभ्य 'अव्यक्ता हि गतिर्दुःखं देहवद्भि-
रवाप्यत' इत्यन्तेन साधनानां क्लेशसाध्यत्वमुक्तम् । एतदग्रे 'मय्येव मन आधत्स्व मयि
बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशय' इति भक्तिमार्गसाधनानां
सुखरूपत्वकथनेन अनायासेन स्वप्राप्तिहेतुत्वमुक्तम् । 'मय्येवे'त्येवकारेण पुरुषोत्तमपर्यव-
सायित्वं च । यद्यपि पूर्वं 'ते प्राप्नुवन्ति मामेवे'त्यत्रैवकारेण पुरुषोत्तमपर्यवसायित्वमपि
सम्भवति, तथापि तत्र 'ये त्वक्षर'मित्येवोद्दिश्य 'मामेवे'त्युक्तत्वात् 'मा'मितिपदस्याक्षर-
पर्यवसायित्वमेव, अत्र तु 'मय्येव मन आधत्स्वे'ति सुखरूपभक्तिमार्गमुद्दिश्य कथनेन
'मय्येव'पदं पुरुषोत्तमपरमेव । एवं मर्यादामार्गविभेदिकामेकां युक्तिमुक्त्वा अन्यां युक्ति-
माहुः । 'तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः
श्रेयो भवेदिहे'ति । यत्र भक्तियुक्तस्य मर्यादामार्गीयज्ञानस्य श्रेयस्त्वेनापि नोपयोगः, तत्र
मर्यादामार्गीयज्ञानस्य तदुत्तराङ्गस्य वैराग्यस्यापि भक्त्यङ्गत्वभावे किं वाच्यमित्यपि युक्तिः।
युक्त्यन्तरमपि । 'नायं सुखापो भगवान् देहिनां गोपिकासुतः । ज्ञानिनां चात्मपोतानां
यथा भक्तिमतामिहे'त्यत्र 'गोपिकासुत' इति भगवति पूर्णपुरुषोत्तमत्वमुक्त्वा तस्य भक्तिमतां
सुखावाप्तिकथनेन ज्ञानिनामक्षरप्राप्तौ क्लेशयुक्तसाधनत्वकथनेन भक्तिमार्गे पुरुषोत्तमः प्राप्यः,
स च अनायासेनैव प्राप्यः । ज्ञानमार्गे अक्षरप्राप्तिः, सापि तु अधिकतरक्लेशेनेति भक्ति-
१ 'एव'मित्यारभ्य 'आहु'रित्यन्तं 'तस्मान्मद्भक्ती'त्यादिग्रन्थस्य केनचिल्लिखित आभासो लेखकदोषान्मध्ये
पतित इति भाति, असङ्गतत्वात् । इति टिप्पणं एकप्राचीनादर्शे । भगवत्कर्तृकत्वं वा कल्प्यं क्रियायाम् ।
पुष्टिमवाहमर्यादा । ७
मार्गभेदिका युक्तयः किम्तोधिकं वाच्या इति ज्ञापनायोक्तं भिन्नो युक्त्या हि वैदिक
इति । पूर्वं सूत्रतो हीति हिशब्देन सूत्रप्रामाण्येन प्रवाहमार्गस्य भक्तिमार्गाङ्गत्वभावस्य
युक्तत्वं ज्ञापितम् । युक्त्या हि वैदिक इत्यत्र युक्तीनां गीताश्रीभागवतादिषु मर्यादा
मार्गस्य भक्तिमार्गाङ्गत्वभावप्रसिद्धिद्योतनाय हिशब्दः ॥ ६ ॥
एवं सूत्रयुक्तिभ्यां प्रवाहमर्यादयोः पुष्टिमार्गाङ्गत्वभावं निरूप्यातः परं पुष्टिमार्ग-
स्थानां जीवदेहकृतीनां मार्गद्वयापेक्षया सर्वात्मना सर्वप्रकारकोत्कर्षज्ञापनाय मार्गद्वयस्थ-
जीवदेहकृतीनां स्वरूपं निरूपयन्ति जीवदेहकृतीनामिति ।
जीवदेहकृतीनां च भिन्नत्वं नित्यतः श्रुतेः ।
यथा तद्धत्पुष्टिमार्गे द्वयोरपि निषेधतः ॥ ७ ॥
प्रमाणभेदाद्भिन्नो हि पुष्टिमार्गो निरूपितः ॥ ७ १/२ ॥
प्रवाहमार्गे जीवा आसुराः, दैवजीवेभ्यो भिन्नाः, तेषां देहा भगवद्भजनप्रातिकूल्यात्
दैवदेहेभ्यो भिन्नाः । तेषां कृतिरपि स्वार्थं पशुहिंसादिरूपा दैवजीवकृतेः सकाशाद्भिन्ना
एव । एवं मर्यादामार्गेपि मर्यादामार्गीया दैवजीवाः प्रवाहमार्गीयासुरजीवेभ्यो भिन्नाः ।
तेषां देहा अपि वैदिकधर्मभगवत्पूजाद्यानुकूल्यात् आसुरजीवदेहेभ्यो भिन्नाः । तेषां कृति-
रपि अग्निहोत्रादिश्रौतकर्मकरणेन मर्यादामार्गोक्तभगवत्पूजादिकरणेन ज्ञानोत्पत्त्यननु-
कूलत्यागादिकरणेन च भिन्नैव । ननु भवता प्रवाहमर्यादयोर्जीवदेहकृतीनां भिन्नत्वं
निरूपितम्, तत्र यथा मार्गद्वयेपि देहकृतीनामनित्यत्वं प्रतीयते, तथा मार्गद्वयजीवाना-
मप्यनित्यत्वं भवत्वित्याशङ्कां निराकुर्वन्ति नित्यतेतिपदेन । तत्र हेतुः श्रुतेः । तत्रेयं
श्रुतिः । ‘द्वा सुपर्णा सयुजा सखायौ समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्व-
त्त्यनश्नन्नन्यो अभिचाकशीति’ इतिश्रुत्या अन्तर्यामिनित्यत्ववत् जीवस्य नित्यत्वं साधित-
मिति न जीवानामनित्यत्वम् । अथवा । एवं मार्गद्वये जीवदेहकृतीनां भिन्नत्वं निरूप्य
मार्गद्वयजीवदेहकृतीनां नित्यत्वकथनस्यायमाशयः । तत्र जीवानां नित्यत्वं सर्ववादि-
सम्मतमस्त्येव, परं यद्यपि देहकृतीनां नित्यत्वं न प्रतीयते, तथापि देहकृतीनां नित्यता
श्रुतेरिति नित्यत्वकथनस्यायमाशयः । प्रवाहमार्गीयो जीवो यदा उत्पद्यते, देहान्तरं
गृह्णाति, तदा पूर्वदेहक्षणयुक्तमेव देहं गृह्णाति, प्राचीनदेहकर्मानुसारणेव कर्म करोति,
न तु पूर्वदेहपरावृत्तौ देहान्तरं प्राप्तमिति पूर्वदेहधर्मपरावृत्तिरपि भवति । एवमेव पूर्व-
कर्मणोपि । एवं प्रतिजन्मनि देहधर्मकर्मणां तादृशत्वम् । न तु विपर्यासः । एवं देह-
कृतीनां प्रावाहिकीरीत्या नित्यत्वज्ञापनायोक्तं नित्यतेति । तत्र हेतुः श्रुतेरिति । श्रुतिश्च
‘सत्यं चानृतं च सत्यमभवत्’, ‘यदिदं किंच तत्सत्यमित्याचक्षते’ इति । अथवा । देहकृतीनां
नित्यता लिङ्गशरीराभिप्रायेण । एवं मर्यादामार्गेपि जीवदेहकृतीनां नित्यता ज्ञेया । एवं
यथा प्रवाहमर्यादामार्गीययोर्जीवदेहकृतीनां भिन्नत्वं नित्यत्वं चोक्तम्, तथा पुष्टिमार्गेपि
१. ज्ञानोत्पत्त्यनुकूलेति पाठः । २. परावृत्तिरिति शेषः ।
८ श्रीवल्लभकृतविवरणसमेता ।
जीवदेहकृतीनां भिन्नत्वं नित्यत्वं चाहुः तद्वत्पुष्टिमार्ग इति । यद्यपि पुष्टिमार्गे जीवा दैवा
एव, तथापि तेषां मर्यादामार्गीयदैवजीवेभ्यो वैलक्षण्यं दर्शयन्ति । यद्यपि मर्यादामार्गीय-
जीवा दैवाः, पुष्टिमार्गीया जीवाश्च दैवा एव, तथापि द्वयोरपि दैवजीवत्वेपि मर्यादामार्गी-
यजीवादीनां निषेधपूर्वकं पुष्टिमार्गीयजीवादीनां भिन्नत्वं चाहुः द्वयोरपि निषेधत इति ।
तत्र भेदप्रकारः । दैवत्वेपि पुष्टिमार्गे 'अनुग्रहः पुष्टिमार्गे नियामक' इति वचनात् पुष्टिमार्गी-
यजीवानामनुग्रहविशिष्टत्वम्, न तु मर्यादामार्गीयजीववद्विध्यधीनत्वमपि । किञ्च ।
पुष्टिमार्गीयजीवानां 'यमेवैष वृणुते तेन लभ्य' इति श्रुत्या साक्षात्पुरुषोत्तमवरणात् साक्षा-
त्पुरुषोत्तमप्राप्तिरेव । मर्यादामार्गीयाणां तदभावादक्षरप्राप्तिरेव । यथा मर्यादामार्गीयदे-
हस्याग्निहोत्राद्यनुकूलत्वम्, तथा पुष्टिमार्गीयदेहस्य शुद्धपुष्टिमार्गीयाचार्यप्रकटितभगव-
त्सेवापरत्वमेव, न त्वन्यपरत्वमिति देहभेदः । देहभेदनिरूपणेन कृतेरपि देहाधीनत्वात्
कृतीनां भेदः सिद्ध एवेति नानुपपन्नं किञ्चित् । अथवा । यद्यपि पुष्टिमार्गीयजीवदेहकृतीनां
पूर्वोक्तप्रावाहिकरीत्या नित्यत्वमस्त्येव, तथापि प्रकारान्तरेणापि नित्यत्वमुच्यते । साक्षा-
त्पुष्टिपुष्टिभक्तानां साक्षात्पुरुषोत्तमसंबन्धिफलानुभवयोग्यदेहानां नित्यत्वमेव । अन्यथा
श्रीगोकुलवासिनां 'ते तु ब्रह्महदं नीता' इति मुक्त्यनुभवकालेपि तेनैव देहेन मुक्त्यनुभवः ।
तदनन्तरं तेनैव देहेन सर्वेषां यथायोग्यं भक्तिमार्गीयफलानुभवः । यदि पुष्टिमार्गीयसाक्षा-
त्पुरुषोत्तमसम्बन्धिफलानुभवयोग्यदेहानां नित्यता न स्यात्, तदा मुक्त्यनुभवकाले स्थितिर्न
स्यात् । तस्मात् पुष्टिमार्गीयदेहानां नित्यत्वमेवेति नानुपपन्नं किञ्चित् । एवं फलोपयोगि-
देहनित्यत्वनिरूपणेनैव साक्षात्पुरुषोत्तमसम्बन्धिफलानुभवयोग्यकृतीनां नित्यत्वमुक्तसि-
द्धमितिदिक् । एवं पुष्टिमार्गीयजीवदेहकृतीनां स्वरूपं निरूप्योपसंहरन्ति प्रमाणभेदादिति ।
'अनुग्रहः पुष्टिमार्गे नियामक' इत्याद्युक्तप्रमाणैर्भेदनिरूपणात् प्रवाहमर्यादाभ्यां भिन्नः
सर्वोत्कृष्टः शुद्धपुष्टिमार्गो निरूपितः । हि युक्तश्चायमर्थः । न हि साक्षात्पुरुषोत्तमसम्बन्धो-
पयोगिनो धर्माः मार्गान्तरेपि सम्भवन्तीति पुष्टिमार्गस्यैव सर्वोत्कृष्टत्वं युक्तमेवेति ज्ञापनार्थ
हीत्युक्तम् ॥ ७ १/२ ॥
एवं प्रमाणभेदेन मार्गत्रयभेदं निरूप्य एतदग्रे मार्गत्रयस्य सर्गान्तरसादृश्यनिरा-
करणपूर्वकं सर्गमारभ्य फलपर्यवसानपर्यन्तं भेदं निरूपयन्ति सर्गभेदमित्यादि ।
सर्गभेदं प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतम् ॥ ८ ॥
इच्छामात्रेण मनसा प्रवाहं सृष्टवान् हरिः ।
वचसा वेदमार्गं हि पुष्टिं कायेन निश्चयः ॥ ९ ॥
तत्र प्रथमं प्रवाहमार्गसर्गभेदमाहुः इच्छामात्रेनेति । हरिः इच्छामात्रेण कांश्चिज्जी-
वानासुरान् करिष्यामीतीच्छया मनसा प्रवाहमार्गसृष्टिं कृतवान् । एवं प्रवाहमार्गसृष्टिमुक्त्वा
१. ऐक्यनिषेधपूर्वकमित्यर्थः । २. कृतिभेदः । ३. जीवदेहानाम् ।
मर्यादामागैसृष्टिप्रकारमाहुः वचसेति । वचसां वेदरूपवाण्या मर्यादामागं सृष्टवान् ।
मर्यादामागंस्य वेदमूलकत्वप्रसिद्धिद्योतनार्थं हिशब्दः । एवं शरीरैकदेशाभ्यां मार्गद्वयसर्ग-
मुक्त्वा पुष्टिमार्गसृष्टेः सर्वोत्कृष्टत्वज्ञापनाय पुष्टिमार्गसृष्टिमाहुः पुष्टिं कायेनेति । आनन्द-
मात्रकरपादमुखोदरादिरूपेण सम्पूर्णकायेन पुष्टिमार्गसृष्टिं कृतवान् । मार्गत्रयप्रयोजनमग्रे
वक्ष्यन्ति । सम्पूर्णदेहेन पुष्टिसर्गस्य कथनात् पुष्टिसर्गस्य सर्वोत्कृष्टत्वं निर्धारितमिति
ज्ञापनायोक्तं निश्चय इति ॥ ९ ॥
एवं मार्गत्रयसर्गस्वरूपं निरूप्य मार्गभेदेन मार्गत्रयफलस्वरूपमाहुः मूलेच्छात् इति ।
मूलेच्छातः फलं लोके वेदोक्तं वैदिकेपि च ।
कायेन तु फलं पुष्टौ भिन्नेच्छातोऽपि नैकता ॥ १० ॥
सृष्ट्यन्तर्गतानां केषाञ्चित् जीवानामासुरत्वसम्पादिका या भगवदिच्छा सा मूलेच्छा,
ततः तदिच्छया लोके प्रवाहमार्गे फलं अन्धंतमःप्रवेशरूपं भवतीत्यर्थः । एवं प्रावाहिकाणां
फलं निरूप्य मर्यादामार्गीयाणां फलं निरूपयन्ति वेदोक्तं वैदिकेऽपि चेति । वैदिके
मर्यादाज्ञानमार्गे 'तमेव विदित्वाति मृत्युमेति' इत्यादिश्रुतिप्रतिपाद्यमक्षरप्राप्तिरूपं फल-
मुक्तम् । एवं कर्ममार्गेपि 'अग्निष्टोमेन स्वर्गकामो यजेते'त्यादिश्रुत्या सकामस्य स्वर्गलोक-
प्राप्तिरूपं फलम्, निष्कामयागकर्तुरपि स्वर्गलोककामनाभावात् स्वर्गलोके च 'यन्न दुःखेन
संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं यत् तत्पदं स्वःपदास्पद'मिति स्वःपद-
लक्षणाभावात् आत्मसुखे च स्वःपदलक्षणयोगात् निष्कामयागकर्तुरात्मसुखरूपं फलं
भवति । चकारात्तादृशस्यापि भगवदनुग्रहेण भगवद्भक्तसङ्गेन भक्तिप्राप्तौ सत्यां मर्यादा-
मार्गीयभक्तस्यापि मुक्तिरूपा पुरुषोत्तमप्राप्तिर्भवतीति ज्ञापनाय चकारः। एवं द्विविधमर्यादा-
मार्गीयाणां द्विविधं वेदोक्तं फलं निरूप्य पुष्टेः फलं निरूपयन्ति कायेन तु फलं पुष्टा-
विति । कायेन आनन्दमात्रकरपादमुखोदरादिरूपेण, सर्वेन्द्रियास्वाद्यस्वरूपानन्ददानरूपं
फलम् । एतदतिरिक्तप्रकारस्य फलत्वाभावार्थे तुशब्दः । अत एव पुष्टिश्रुतिरूपाभिर्व्रजसी-
मन्तिनीभिः 'अक्षण्वता'मिति श्लोके सर्वश्रुतिविरोधपरिहारेण सर्वेन्द्रियास्वाद्यपुरुषोत्तम-
स्वरूपस्यैव फलत्वं निरूपितम् । ननु मर्यादामार्गीयभक्तेरपि पुरुषोत्तमप्रापकत्वात् पुष्टि-
मार्गीयभक्तेरपि पुरुषोत्तमप्राप्तिहेतुत्वात् उभयोरपि फलैक्यं भवत्वित्याशङ्कां परिहरन्ति
भिन्नेच्छातोपि नैकतेति । तस्यायमर्थः । यद्यपि मर्यादामार्गीयभक्तस्यापि अन्ते पुरुषो-
त्तमप्राप्तिरस्ति, तथापि तस्य मुक्तिरूपैव प्राप्तिः, न तु पुष्टिमार्गीयभक्तवत् साक्षात्सम्बन्ध-
रूपप्राप्तिः, यतो मर्यादामार्गीयभक्तस्यान्ते स्वप्राप्तौ तादृश्येव भगवदिच्छा । अत एव
श्रीभागवते 'अनिच्छतोपि गतिमण्वीं प्रयुङ्क्त' इति । पुष्टिमार्गीयस्य साक्षात् स्वरूपसम्बन्धानु-
भवरूपफलप्राप्तावेव भगवदिच्छा । यदि मार्गद्वयेपि एकमेवं फलं स्यात्, तदा मार्गभेदवै-
यर्थ्यमेव स्यादित्यत उक्तं 'भिन्नेच्छातोपि नैकते'ति ॥ १० ॥
१. गोपीभिरित्यधिकं क्वचित् ।
२ पु. प्र. म.
१० श्रीवल्लभकृतविवरणसमेता ।
एवं मार्गत्रयस्य सर्गभेदं फलभेदं च निरूप्यैतेषां त्रयाणां स्वरूपाङ्गक्रिया निरूप-
यन्ति । तत्र प्रथमं प्रवाहमार्गीयाणां स्वरूपमाहुः तानहं द्विषतो वाक्यादिति ।
'तानहं द्विषतो' वाक्याद्विन्ना जीवाः प्रवाहिणः ।
अत एवैतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११ ॥
तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः ।
भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ १२ ॥
'तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमसुरानासुरीष्वेव
योनिषु । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो
यान्त्यधमां गति'मिति प्रवाहमार्गीया जीवा मर्यादामार्गीयपुष्टिमार्गीयजीवेभ्यो भिन्ना आसुरा
इत्यर्थः । अत एवैतरौ मर्यादामार्गीयपुष्टिमार्गीयजीवौ प्रवाहमार्गीयजीवेभ्यो भिन्नौ
दैवावित्यर्थः । भेदप्रकारमाहुः सान्ताविति । तत्तन्मार्गीयफलपर्यवसानावन्तौ । फलरूप-
माहुः मोक्षप्रवेशत इति । स्वस्वमार्गीयमोक्षप्रवेशत इत्यर्थः । ननु प्रावाहिकाणां जीवाना-
मपि तन्मार्गीयमोक्षप्राप्त्या सान्तत्वसम्भवेपि उभयोरेव सान्तत्वकथने को हेतुरिति चेत्,
सत्यम्, यद्यपि तन्मार्गीयमुक्त्या तस्यापि सान्तत्वं सम्भवति, तथापि तन्मुक्तेरानन्दरहित्या-
न्मोक्षलक्षणाभावात्, किञ्च, 'ततो यान्त्यधमां गति'मिति तन्मुक्तेरधमगतित्वनिरूपणात्
आनन्दरूपफलपर्यवसानाभावाच्च सान्तत्वेन गणना, न सान्तत्वमिति उभावेव सान्तौ
गणितौ, न तु प्रवाहोपि, इति ज्ञापनायोक्तं सान्तौ मोक्षप्रवेशत इति ।
ननु 'मोक्षप्रवेशत' इति सामान्योक्त्या मोक्षस्य मार्गद्वयेपि एकरूपता भविष्यतीत्या-
शङ्कानिरासायाहुः तस्मादिति । यस्मात् पूर्वमेव पुष्टिमार्गीयाणां 'कायेन तु फलं पुष्टा'-
वित्यत्र फलभेदोपि निरूपित एव, तथापि पुनरपि यत् 'मोक्षप्रवेशत' इति सामान्योक्त्या
फलैकत्वशङ्का तन्निरासाय विशेषतस्तेषां पुष्टिमार्गीयजीवानां स्वरूपमाहुः तस्माज्जीवाः
पुष्टिमार्गे भिन्ना इति । मर्यादामार्गीयेभ्यो भिन्ना एव, अत्युत्कृष्टा एवेत्यर्थः । तेषां
कदाचिन्मार्गान्तरीयसङ्गेपि मार्गान्तरप्रवेशो न भवतीति ज्ञापनाय न संशय इत्युक्तम् ।
अतः परं केवलपुष्टिसृष्टेः सर्वात्मना सर्वतो भेदेन सर्वोत्कृष्टत्वनिरूपणस्य प्रयोजनमाहुः
भगवद्रूपसेवार्थमिति । यथा मर्यादासृष्टेः तन्मार्गीयधर्मकरणं प्रयोजनम्, तथा पुष्टिसृष्टेः
भगवत्सेवाकरणमेव प्रयोजनमिति, अत उक्तं भगवद्रूपसेवार्थमिति । यद्यपि मर्यादा-
मार्गे सेवा वर्तते, परं तत्र मनस्येव अङ्गुष्ठमात्रादिरूपकल्पनेन, न तु साक्षादानन्दमात्र-
करपादमुखोदरादिरूपेण प्रकटस्येति ज्ञापनाय स्वरूपपदमुक्तम् । नान्यथेति । एतत्प्रयो-
जनातिरिक्तप्रयोजनाभावार्थमुक्तं नान्यथेति । यदिदं प्रयोजनं न भवेत्, तदा पुष्टि-
सृष्टिरेव न भवेत्, अत उक्तं नान्यथा भवेदिति ॥ १२ ॥
पुष्टिप्रवाहमर्यादा । ११
सेवाकरणप्रकारमाहुः स्वरूपेणेति ।
स्वरूपेणावतारेण लिङ्गेन च गुणेन च ।
तारतम्यं न स्वरूपे देहे वा तत्क्रियासु वा ॥ १३ ॥
तथापि यावता कार्यं तावत्तस्य करोति हि ॥ १३½ ॥
यद्यपि केवलस्वरूपपदं केवलजीवपरमपि भवति, तथाप्यत्र फलरूपसेवाकरण-
प्रकारनिरूपणे देहरहितकेवलजीवस्वरूपेण सेवाकरणासम्भवात् स्वरूपपदं लीलोपयोगि-
देहपरमेव । देहस्य फलरूपसेवोपयोगिफलोपयोगिफलरूपभजनोपयोगित्वकथनेन अविकृत-
त्वमानन्दमयत्वं नित्यत्वं च ज्ञापितम् । एवं साक्षाद्भजनोपयोगिदेहस्वरूपं निरूप्या-
विर्भावप्रकारमाहुः अवतारेणेति । अवतारेण साक्षात् फलरूपभजनोपयोगिसमाजमध्ये
प्राकट्येन । भजनोपयोगिप्रकारान्तरमाहुः लिङ्गेनेति । भजनोपयोगिदेहचिह्नैस्तैरित्यर्थः ।
चकारस्तदुपयोगिवयःसमुच्चयार्थः । पुनः प्रकारान्तरमाहुः गुणेनेति । गुणाः सौन्दर्य-
रसोद्बोधकचातुर्यभावादयः । फलभोगस्य सर्वाज्ञातत्वप्रकारज्ञापनाय चकारः । (यतोऽयं
रसः सर्वात्मना गोपनीय एव, भगवतो रसपोषाय । अत एव फलप्रकरणीयलीलारम्भे
मुख्यभक्तानां भगवन्निकटागमनसमये 'ता वार्यमाणा' इति भर्त्रादीनां तदागमनज्ञाना-
नन्तरमपि रसपोषाय योगमायाद्वारा तथा प्रभुः सम्पादितवान्, यथा तेषां 'मन्यमानाः
स्वपार्श्वस्था'निति वचनात् तदागमनज्ञानसम्भावनापि नाभूत् । यदि तेषां तदागमनज्ञान-
सम्भावनापि स्यात्, तदा रसाभासः स्यात् । अतः सर्वाज्ञानमावश्यकम् ।) ननु पुष्टिमार्गीय-
फलानुभवः भोक्तृभोग्यसाम्ये सति सम्पूर्णो भवति, न तु यत्किञ्चित्तारतम्येन । प्रभो-
रगणितानन्दस्वरूपत्वेन भजनरसानुभवकर्तॄणां तत्समत्वाभावात् पूर्णरसानुभवो न भविष्य-
तीत्याशङ्कापरिहाराय स्वरूपेणेत्यादिना भजनरसानुभवकर्तृयोग्यताप्रकारं निरूप्य पूर्ण-
रसानुभवसिद्धिहेतुमाहुः तारतम्यं न स्वरूप इति । पूर्वोक्तरसानुभवकर्तृयोग्यताप्रकारैः
पूर्णस्वरूपरसानुभवसिद्धिप्रतिबन्धेहेतुतारतम्याभाव उक्तः । तारतम्यं न स्वरूप इति ।
स्वरूपे । यथा आनन्दमात्रकरपादमुखोदरादेर्भगवतः आत्मनि देहे वा आनन्दमयत्वेन
तारतम्याभावः, तथा साक्षात्फलानुभवकर्तृभक्तेष्वपि आत्मनि आत्मस्वरूपे देहे वा आनन्द-
मयत्वादिना तारतम्याभावः । नतु प्राकृतदेहवत् देहात्मनोस्तारतम्यमपि । अत एव जन्मो-
त्सवाध्याये शुकदेवैरपि 'गोप्यश्चाकर्ण्य मुदिता' इतिश्लोके एतासां देहस्यालौकिकानन्दम-
यत्वज्ञापनाय 'आत्मानं भूषयाञ्चक्रु'रित्युक्तम्, न तु देहं भूषयाञ्चकुरिति । तेनात्मपदोपादा-
नात् यथा आत्मा नित्य आनन्दमयः अविकृतः, तादृश एवैतासां देह इति ज्ञापितम् । यद्येवं
न स्यात्, तदा 'ते तु ब्रह्महदं नीता' इत्यत्र मुक्तिसुखानुभवसमये तद्देहस्थितिर्न स्यात् ।
मुक्त्यनुभवानन्तरमपि तेनैव देहेन मुक्त्यधिकपूर्णभजनानन्दानुभवो न स्यात् । एतदेवा-
भिप्रेत्याचार्यैरुक्तं तारतम्यं न स्वरूपे देहे वा तत्क्रियासु चेति । अन्यथा उभयत्र पूर्ण-
१. चिह्नान्तर्गतं नास्ति क्वचित् । २. पूर्णरसः ।
१२ श्रीवल्लभकृतविवरणसमेता ।
रसानुभवो न स्यात् । एवं देहात्मनोस्तारतम्याभावमुक्त्वा तत्क्रियास्वपि तारतम्याभावमाहुः
तत्क्रियास्विति । क्रियासु तारतम्याभावप्रकारविशेषः । यथा भगवत्कर्तृकरसोपयोगिक्रिया-
विशेषैर्भक्तेषु परमानन्दरसानुभवः, तथा भक्तकर्तृकरसोपयोगिक्रियाविशेषैर्भगवति परमानन्द-
रसानुभव इति तारतम्याभावः, तथा सर्वत्र तारतम्याभावज्ञापनाय वाशब्दः । यद्यपि
सर्वत्र तारतम्याभावोऽस्त्येव, तथापि भगवान् ततोपि अनिर्वचनीयपरमकाष्ठापन्नरसानुभवार्थं
तारतम्यमपि करोतीत्याहुः तथापि यावतेति । यथा फलप्रकरणीयप्रथमाध्याये ‘बाहु-
प्रसारपरिरम्भे’ति श्लोके ‘उत्तम्भयन् रतिपतिं रमयाञ्चकारे’ति स्वरमणेन पूर्णरसानुभवं
कारयित्वा, अग्रिमश्लोके ‘आत्मानं मेनिरे स्त्रीणां मानिन्योभ्यधिकं भुवी’ति स्वरूपपरावृत्ति-
रूपेण पूर्णरसानुभवं कारयित्वापि, पुनश्च फलप्रकरणीयचतुर्थाध्याये ‘तद्दर्शनाह्लादविधूत-
हृद्रुज’ इतिश्लोके ‘मनोरथान्तं श्रुतयो यथा ययु’रित्यनेन भक्तमनोरथागम्यमपि पूर्वानु-
भूतपूर्णरसतार्तम्यं ज्ञापयितुं स्वरूपानन्दं दत्तवानितिप्रकारं ज्ञापयितुमुक्तं यावतेति ।
यावता तारतम्येन तस्य भक्तस्य कार्यं मनोरथान्तरूपं स्वरूपानन्दानुभवं सिध्यति,
तावत्ता्रतम्यं करोति । यत्र पूर्णरसदानार्थं तारतम्याभावं येषु भक्तेषु सम्पादितवान्, तेषु
मनोरथान्तं स्वरूपानन्ददानं युक्तमेवेति ज्ञापनार्थं हिशब्दः ॥ १३३/२ ॥
एवं प्रकारभेदेन शुद्धमार्गत्रयाणां फलपर्यवसानमुक्त्वा शुद्धमिश्रभेदेन मार्गत्रयेपि
द्वैविध्यमाहुः ते हि द्विधेति ।
ते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ १४ ॥
प्रवाहादिविभेदेन भगवत्कार्यसिद्धये ।
पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ॥ १५ ॥
मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः ॥ १५१/२ ॥
एवं द्वैविध्ये शुद्धभेदप्रकारस्य पूर्वोक्तत्वात् परं मिश्रभेदस्य भेदत्रयमाहुः मिश्रा-
स्त्रिधा पुनरिति । मिश्रेशु त्रैविध्यं दर्शयन्ति प्रवाहादिविभेदेनेति । त्रैविध्यदर्शन-
प्रयोजनमाहुः भगवत्कार्यसिद्धय इति। भगवत्कार्यं मार्गत्रयसर्गरूपम्, तत्सिद्धये मार्ग-
त्रयविवेकज्ञानसिद्ध्यर्थमित्यर्थः । अथवा । भगवत्कार्यं लीलारूपम्, तत्सिद्धये क्रीडारस-
सिद्ध्यर्थमित्यर्थः । अत एव श्रीभागवते विन्ध्यावल्याप्युक्तं ‘क्रीडार्थमात्मन इदं त्रिजग-
त्कृतं ते स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्यु’रिति । मिश्राणां त्रैविध्यं दर्शयन्ति पुष्ट्या
विमिश्रा इति । ये सर्वज्ञास्ते सर्वज्ञत्वेन पुष्टिमार्गोत्कर्षं ज्ञात्वा पुष्ट्या विमिश्रा
भवन्ति, यथा नारदप्रह्लादादयः, ये पूर्णज्ञानफलनिष्ठाः सन्तः पुष्टिखरूपभिज्ञास्ते
पुष्ट्या विमिश्रा भवन्ति । पुष्टिमार्गाभिज्ञत्वे हेतुः सर्वज्ञा इति । ‘ज्ञाननिष्ठा तदा ज्ञेया
सर्वज्ञो हि यदा भवेत्’ । ये स्वभावतः पूर्णज्ञाननिष्ठाः सन्तः सर्वज्ञत्वात् पुष्टिमार्गस्वरूपा-
भिज्ञास्त एवोक्ताः पुष्ट्या विमिश्राः सर्वज्ञा इति । अतः परं प्रवाहविमिश्रणप्रकारमाहुः
१, स्वरूपाङ्गगवरूपादपि परावृत्तिः पूर्वरूपापेक्षया स्वखरूपपरावृत्तिर्वा तत्पूर्वकमित्यर्थः ।
पुष्टिप्रवाहमर्यादा । १३
प्रवाहेण क्रियारता इति । ये स्वभावतः काम्यकर्मरताः काम्यकर्मनिष्ठाः सन्तः प्रवाहेण
मिश्रा जाताः, तदा विशेषेण काम्यकर्मनिष्ठाः काम्यकर्मरताः काम्यकर्मजडा एव भवन्ति ।
यथा सर्वज्ञाः पुष्ट्या विमिश्रा भवन्ति, तद्वदेव प्रवाहेण विमिश्रास्ते कर्मजडा एव
भवन्ति । न तु मार्गान्तरविमिश्रा भवन्ति । त एवोक्ताः प्रवाहेण क्रियारता इति ।
एवं प्रवाहविमिश्रणप्रकारमुक्त्वा मर्यादाविमिश्रणप्रकारमाहुः मर्यादया गुणज्ञा इति । ये
शुद्धमर्यादामार्गीयास्ते मर्यादामार्गीयभक्तसङ्गविमिश्रणेन भगवद्गुणपरा भवन्ति
भगवद्गुणज्ञा इति । एवं मिश्रभेदान्निरूप्य सर्वतः सर्वोत्कृष्टत्वज्ञापनाय केवलपुष्टि-
मार्गीयान् निरूपयन्ति शुद्धाः प्रेम्णेति । शुद्धाः प्रेम्णा पुष्टिमार्गीयभावातिरिक्तभावान्तर-
रहितास्ते अतीव दुर्लभाः । अतीव दुर्लभाः इत्यत्रातीवशब्दात् भगवदनुग्रहैकलभ्या
इत्यर्थः । एवं मिश्रभेदप्रकारेण मार्गत्रयं निरूप्य शुद्धपुष्टिप्रकारनिरूपणेन पुष्टिमार्गस्य
सर्वोत्कृष्टत्वं निरूपितम् ॥ १५ १/२ ॥
एवं तेषां मार्गत्रयाणां सर्गभेदप्रकारमुपसंहरन्ति एवं सर्ग इति ।
एवं सर्गस्तु तेषां हि फलं त्वत्र निरूप्यते ॥ १६ ॥
भगवानैव हि फलं स यथाविर्भवेद्भुवि ।
गुणस्वरूपभेदेन तथा तेषां फलं भवेत् ॥ १७ ॥
आसक्तौ भगवानेव शापं दापयति क्वचित् ।
अहङ्कारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ १८ ॥
न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवः ।
महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ १९ ॥
भगवत्तारतम्येन तारतम्यं भजन्ति हि ।
लौकिकत्वं वैदिकत्वं कापट्यात्तेषु नान्यथा ॥ २० ॥
वैष्णवत्वं हि सहजं ततोऽन्यत्र विपर्ययः ॥ २० १/२ ॥
एवं अनेन प्रकारेण सर्गभेदमुपसंहृत्य तेषां फलनिरूपणं प्रतिजानते फलं त्वत्र
निरूप्यत इति । अत्र मार्गत्रयनिरूपणप्रस्तावे मार्गत्रयस्य फलं निरूप्यते । तत्र पूर्वं
पुष्टिमार्गस्य फलमाहुः भगवानेव हि फलमिति । अत्र भगवत्पदेन साक्षात्पुरुषोत्तम
उक्तः । एवकारेण साक्षात् स एवानन्दमात्रकरपादमुखोदरादिरूपेण प्रकट एव फलम् ।
स यथा पूर्वोक्तस्वरूप एव भुवि पुष्टिमार्गीयभक्तस्थितिस्थाने आविर्भवेत् प्रकटो
भवेत् । कदाचित् ज्ञानिभक्तन्यायेन हृद्येव भावनाप्रकारेण प्राकट्यं भविष्यतीत्याशङ्का-
निरासायाहुः गुणस्वरूपभेदेनेति । गुणाः ईक्षणभाषणादिलीलारूपाः, स्वरूपं तु पूर्वोक्त-
मेव, तद्भेदेन तत्तत्प्रकारभेदेन यथा प्रकटो भवेत्, तथा तेन प्रकारेण प्रकारभेदेन तेषां
फलानुभवहेतुर्भवेदित्यर्थः । पुष्टिमार्गीयाणां साक्षात्सम्बन्धस्यैव फलत्वमेव युक्तमिति
१. जीवाः । २. त्रयभेदम् ।
१४ श्रीवल्लभकृतविवरणसमेता ।
ज्ञापनाय हिशब्दः । ननु पुष्टिमार्गस्य सर्वोत्कृष्टत्वं यद्यपि सर्वप्रमाणसिद्धम्, तथापि तन्मा-
र्गीयस्यापि वृत्रास्यासुरयोनिप्रवेशे को हेतुरित्याशङ्कानिरासायाहुः आसक्तावपीति । पुष्टि-
मार्गीयस्य स्वमार्गीयभगवत्स्वरूपातिरिक्तासक्तेरनुचितत्वात् वृत्रस्य पूर्वजन्मनि सङ्कर्षण-
स्वरूपासक्तत्वात् तस च साक्षात् पुरुषोत्तमत्वाभावात् तदासक्तिनिवृत्त्यर्थं शापं दापि-
तवान् । अथवा । अहङ्कारे सत्यपि क्वचित् लोके भक्ताय शापं दापयति । यथा परी-
क्षिति । कचिदितिपदात् अहङ्काराभावेपि क्वचित् शापो दृश्यते । यथेन्द्रद्युम्ने अगस्त्यशापः ।
शापायोग्येष्वपि भगवद्भक्तेषु शापानिमित्तोद्मनदर्शनेन यत् शापदानम्, तद्भगवदिच्छ-
यैव, नतु प्रकारान्तरेणेति ज्ञापनाय भगवानेवेत्यत्र एवकारः । तत्र शापदाने
हेतुमाहुः तन्मार्गस्थापनाय हीति । यस्य यस्मिन् मार्गे अङ्गीकारः, तस्य शापानन्तर-
मपि तन्मार्गाङ्गीकारस्य नित्यत्वेन तन्मार्ग एव स्थापनम्, न तु मार्गान्तरसम्बन्धस्तदर्थ-
मित्यर्थः । नित्यपदार्थस्य परावृत्त्यभावो युक्त इति ज्ञापनायोक्तं हीति । अतःपरं
शापानन्तरमपि मार्गाङ्गीकारस्थितिनित्यत्वज्ञापनप्रकारमाहुः न ते पाषण्डतां यान्तीति ।
यदि भगवदङ्गीकारस्य नित्यत्वं न स्यात्, तदा तेषां भगवत्सम्बन्धाभावात् पाषण्डित्वमेव
स्यात् । यदि तेषां भगवदङ्गीकारो न स्यात्, तदा कल्माषपादवत् ब्रह्मद्रोहरूपं दुष्टकर्म्माचरणं
स्यात् । अत एवोक्तं न ते पाषण्डतां यान्तीति । ते पाषण्डमार्गप्रविष्टा न भवन्ती-
त्यर्थः । एवमेकं मार्गाङ्गीकारनित्यत्वज्ञापकलक्षणमुक्त्वाव्यान्यान्यपि लक्षणान्याहुः । शापस्य
क्लेशहेतुत्वमाशङ्क्याङ्गीकारनित्यत्वेन तदभावमाहुः न च रोगाद्युपद्रव इति । तेषां
व्याध्याद्युपद्रवो न भवति । अत एव वृत्रस्य सर्वाभिभावुकत्वम्, न तु केनाप्यभिभाव्य-
त्वम् । लक्षणान्तरमाहुः महानुभावा इति । महान् अनुभावो येषाम् । यद्यपि शाप-
युक्तास्तथापि ते महानुभावा एव । अत एव भगवन्मार्गतत्त्वज्ञैर्महादेवैः शापदानान्तरं
पार्वतीं प्रति तेषामनुभाव उक्तः । 'दृष्टवत्यसि सुश्रोणि हरेरद्भुतकर्मणः । माहात्म्यं
भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् । नारायणपरा लोके न कुतश्चन बिभ्यति । स्वर्गा-
पवर्गनरकेष्वपि तुल्यार्थदर्शिन' इति । ननु यदि तेषां महानुभावत्वं तर्हि कथं शापसम्भव
इत्यत आहुः प्रायेण शास्त्रं शुद्धत्वहेतवे इति । शास्यते अनेनेति व्युत्पत्त्या शास्त्रमिति,
शापस्य शास्त्ररूपत्वात् पूर्वजन्मापराधन्निवृत्तिहेतुत्वेन शुद्धिहेतुत्वमुक्तम् । प्रायेणेति
सम्भावना । एवं भगवदङ्गीकारस्य नित्यत्वं मर्यादामार्गेपि ज्ञेयम् । नित्यत्वज्ञापका धर्माः
'न ते पाषण्डतां यान्ती'त्यादयो मर्यादामार्गेपि ज्ञेयाः । परीक्षिति गजेन्द्रे च । ननु यदि
शापानन्तरमपि भगवदङ्गीकारस्य नित्यत्वेन त्रिष्वपि पूर्वधर्मसमानत्वम्, तर्हि फलेपि साम्यं
भविष्यतीत्याशङ्कानिरासायाहुः भगवत्तारातभ्येनेति । भगवत्स्वरूपतद्भजनप्रकारतारत-
म्येन फलेपि भक्तास्तारतम्यं भजन्ति हि । तत्र भजनतारतम्यप्रकारः । पुष्टिमार्गभजने
स्नेह एव नियामकः । मर्यादामार्गीयभक्तभजने मर्यादामार्गीयभक्तस्य यद्यपि भजनीयः
पुरुषोत्तम एव, तथापि तत्र विधिरेव नियामकः, न तु स्नेहोपीति तारतम्यम् । इन्द्रद्युम्नस्य
पुष्टिप्रवाहमर्यादा । १५
पूजापरत्वात्, तत्र पूज्यस्य पुरुषोत्तमविभूतिरूपत्वात् पूजायाश्च कर्ममार्गत्वात् तत्रापि
विधिरैव नियामक इति । भगवत्स्वरूपतद्भजनप्रकारतारतम्येन तारतम्यं भजन्ति । भजन-
तारतम्येन फलतारतम्यस्य युक्तत्वज्ञापनाय हिशब्दः । फलतारतम्यं तु 'गजेन्द्रो भगव-
त्स्पर्शाद्विमुक्तोऽज्ञानबन्धनात् । प्राप्तो भगवतो रूपं पीतवासश्चतुर्भुज'मित्यादिवाक्येषु
प्रसिद्धमिति नात्र विचारः । ननु यदि तेषां केवलं भगवत्परत्वमेव, तर्हि श्रौतस्मार्तकर्म-
चरणे को हेतुरिति चेत्, तत्राहुः लौकिकत्वं वैदिकत्वमिति । यद्यपि ज्ञानमार्गीयस्यापि
भक्तस्य 'तावत्कर्माणि कुर्वीते'त्यनेन श्रौतस्मार्तकर्माणचरणस्यानावश्यकत्वं श्रूयते, पुष्टिमार्गी-
याणामपि 'यानास्थाये'तिवाक्यात् । अत्र 'आस्थाये'ति, आस्थानं नाम कायवाङ्मनसां तदे-
कपरत्वम्, तादृशानामपि श्रौतस्मार्तकर्मचरणानावश्यकत्वेपि यत्कर्माचरणं तत्र को हेतुरि-
त्याशङ्कय हेतुमाहुः वैदिकत्वं लौकिकत्वं कापट्यादिति । वैदिकत्वं वैदिककर्माचरणम्,
लौकिकत्वं लौकिकव्यवहारादिप्रतिपालनम्, तत्तेषु कापट्यात् कापट्याद्धेतोरित्यर्थः ।
कापट्यं नाम लोकसङ्ग्रहः । अत एव भगवताप्युक्तं 'सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति
भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् । न बुद्धिभेदं जनयेदज्ञानां कर्म-
सङ्गिनाम् । जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन्' इति भगवद्वाक्यात् तत्तन्मार्गीय-
पूर्णभक्तिमतां लौकिकवैदिककर्माचरणं लोकसङ्ग्रहार्थमेव, न तु कर्मासक्तानामिव परमपु-
रुषार्थरूपत्वेन । यद्यपि तेषां पूर्वोक्तकर्मकरणमनासक्तिपूर्वकं लोकसङ्ग्रहार्थमेवेत्युक्तम्,
तर्हि तेषां कस्मिन् कर्मणि आसक्तिपूर्वकं करणमिति चेत्, तत्राहुः वैष्णवत्वं हि सहज-
मिति । वैष्णवत्वं नाम पुष्टिमर्यादामार्गप्रवर्तकाचार्योपदेशपूर्वकं तदुक्तप्रकारेण तन्मार्गा-
नुवर्तित्वम्, तदेव तेषां सहजो धर्मः स्वाभाविकोधर्मः, सहजमिति । तेन तन्मार्गीया-
णामेव धर्माणामासक्तिपूर्वकं करणम्, ततोऽन्यत्र ततः वैष्णवधर्मातिरिक्तधर्मेषु विपर्ययः
पूर्वोक्तप्रकारः अनासक्तिपूर्वकं करणम्, लोकसङ्ग्रहार्थं करणमित्यर्थः ॥ २०१/२ ॥
एवं मार्गद्वयजीवानां फलपर्यवसानान्तां कृतिं निरूप्य पुष्टिमर्यादामार्गाङ्गीकाररहितानां
दैवजीवानां साधारणानां स्वरूपं कृतिं चाहुः सम्बन्धनस्त्विति ।
सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ २१ ॥
चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु ।
क्षणात् सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ २२ ॥
तेषां क्रियानुसारेण सर्वत्र सकलं फलम् ॥ २२१/२ ॥
सम्बन्धिनः दैवजीवत्वेन पुष्टिमर्यादामार्गाङ्गीकृतजीवसम्बन्धिनो, न तु तन्मा-
र्गप्रवृत्ताः । तथा अपरे प्रवाहस्थाः । ते सर्वे चर्षणीशब्दवाच्याः सर्वमार्गेषु परिभ्रमण-
शीलाः । त एव सर्ववर्त्मसु मार्गत्रयेष्वपि क्षणात् कालविशेषं प्राप्य सर्वत्वं तत्तन्मार्गी-
यत्वं प्राप्नुवन्ति, तत्तन्मार्गीयधर्मानुकरणं कुर्वन्ति । ते मार्गत्रयधर्मानुकरणमेव कुर्वन्ति ।
१६ श्रीवल्लभकृतविवरणसमेता ।
न तु तेषां कुत्रचित् रुचिः । रुचिः क्वापि न भवतीत्यर्थः । न तु क्वापि श्रद्धेत्यर्थः ।
तेषां फलपर्यवसानमाहुः तेषां क्रियानुसारेणेति । तेषां तत्तन्मार्गीयक्रियानुकरणेन सर्वत्र
सकलं कामितं कामनाविषयं फलं भवतीत्यर्थः । तेषां भगवदङ्गीकृतानां साधारणानां
कामासक्तत्वात् तत्तत्क्रियानुसारेण सकलं तत्तत्कामितं फलं भवतीत्यर्थः ॥ २२½ ॥
एवं सम्बन्धिनां स्वरूपमुक्त्वा केवलप्रवाहस्थानां स्वरूपमाहुः प्रवाहस्थान्
प्रवक्ष्यामीति ।
प्रवाहस्थान् प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥ २३ ॥
जीवास्ते ह्यासुराः सर्वे 'प्रवृत्तिं चे'ति वर्णिताः ।
ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४ ॥
दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञास्ताननु ये पुनः ।
प्रवाहेऽपि समागत्य पुष्टिस्थस्तैर्न युज्यते ॥ २५ ॥
सोपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २६½ ॥
कथनप्रकारमाहुः स्वरूपाङ्गक्रियायुतानिति । तेषां स्वरूपमाहुः जीवा इति ।
ते प्रवाहस्था जीवा आसुराः, ते सर्वे भगवतैव 'प्रवृत्तिं च निवृत्तिं चे'ति वर्णिताः ।
आसुरेष्वपि प्रकारभेदमाहुः ते द्विधेति । द्वैविध्यमेव प्रदर्शयन्ति ह्यज्ञदुर्ज्ञविभेदत इति ।
यथा दैवजीवेष्वपि केचन पण्डिताः, केचन न, तद्वत् केचन आसुरेष्वपि दुर्ज्ञाः, केचन
अज्ञाः । दुर्ज्ञानां लक्षणमाहुः दुर्ज्ञास्त इति । 'प्रवृत्तिं च निवृत्तिं चे'ति भगवत्प्रोक्त-
लक्षणा दुर्ज्ञाः । अज्ञानाहुः तानन्विति । ये तान् अनु तदुक्तप्रकारानुवर्तिनस्ते
अज्ञाः । नन्वासुरेष्वपि जीवेषु म्लेच्छादिषु कस्यचिद्भगवत्परतादर्शने को हेतुरित्याशङ्काया-
मुच्यते । वस्तुतस्तु स नैवासुरजीवः, शुद्ध आसुरजीवे भगवद्भावस्यासम्भवात् । किन्तु
भगवदपराधाद्भगवद्भक्तापराधाद्वा सोपि पुष्टिमार्गीयः प्रवाहे समागत्य प्रवाहस्थैः सङ्गं
प्राप्यापि, तत्कुले जन्म वा प्राप्यापि, तैर्न युज्यते, आसुरभावैर्योगं न प्राप्नोति । ननु यदि
स आसुरभावैर्न युज्यते, तर्हि तस्यासुरकुलोत्पत्तौ को हेतुरिति चेत्, तत्राहुः कर्मणा
जायते यत इति । कर्मणा पूर्वोक्तभगवदपराधरूपेण, अथवा, तज्जनितप्रारब्धकर्मणा,
जन्मनः प्रारब्धकर्माधीनत्वात् । तत्रासुरकुले जन्मान्तरमपि तद्भावसम्बन्धाभावः कथं
सम्भवतीति चेत्, उच्यते । तस्य पूर्वजन्मनि पुष्टिमार्गीयत्वेन भगवदङ्गीकृतत्वात् ।
भगवदङ्गीकारस्य नित्यत्वात् । अत एव गीतायां भगवताऽप्युक्तम् 'स्वल्पमप्यस्य धर्मस्य
त्रायते महतो भया'दिति । तस्य पूर्वजन्मनि भगवद्धर्मीचरणाख्यसंस्कारस्य बलिष्ठ-
त्वात् आसुरकुले जन्मान्तरमपि नासुरभावप्रवेशः । किञ्च । गीतायां 'अयतिः श्रद्धयो-
पेतो योगाच्चलितमानस' इत्यारभ्य 'त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते' इत्यन्तेन
पार्थपृष्टेन भगवता 'पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत् कश्चित्
दुर्गतिं तात गच्छति । प्राप्य पुण्यकृतान् लोकान् उषित्वा शाश्वतीः समाः । शुचीनां
पुष्टिप्रवाहमर्यादा । १७
श्रीमतां गेहे योगभ्रष्टोभिजायते । अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि
दुर्लभतरं लोके जन्म यदीदृशम् । तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम् । यतते च ततो
भूयः संसिद्धौ कुरुनन्दन । पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोपि सः । जिज्ञासुरपि योगस्य
परं ब्रह्मातिवर्तते' इत्यन्तेन पार्थसंशयो निवारितः । यत्र योगभ्रष्टस्यापि पूर्वजन्मयोगधर्मा-
चरणसंस्कारानिवृत्तिः, तत्र भगवदङ्गीकृतस्य पुष्टिमार्गीयस्य पूर्वजन्माचरितभगवद्धर्मस्य
सर्वतोधिकप्राबल्यात् आसुरसङ्गेन तत्कुलजन्मनापि पूर्वजन्मसंस्कारानिवृत्त्यभावात्,
यावज्जीवं तत्संस्कारवत्त्वेन अन्तकालेपि तत्संस्कारस्य विद्यमानत्वात् 'अन्ते या मतिः सा
गति'रिति शास्त्रात् 'यं यं वापि स्मरन् भाव'मिति भगवद्वाक्याच्च तस्य भगवत्प्राप्तिरेव,
न तु आसुरभावजनितः कोप्यन्तराय इति सर्वमनवद्यम् ॥ २५॥
यद्यप्यत्र ग्रन्थोपसंहारदर्शनाभावादग्रेपि ग्रन्थोस्तीति ज्ञायते, तथाप्यग्रिमग्रन्थस्या-
प्रसिद्धत्वाद्यावत्प्रसिद्ध एव व्याख्यात इति नानुषपत्तिः काचित् ।
श्रीमत्कृष्णस्य वागर्थो दुर्बोधः सर्वथा स्वतः ।
तत्कृपात्तस्तदीयस्य बुद्धिगम्यो न चान्यथा ॥ १ ॥
नत्वा पितृपदाम्भोजं कृपामधुसुपूरितम् ।
तदालोडितबुद्ध्यैव श्रीमदाचार्यभाषितम् ॥ २ ॥
पुष्टिप्रवाहमर्यादाभेदकं शास्त्रमद्भुतम् ।
श्रीवल्लभेन व्याख्यातं तत्कृपातो यथामति ॥ ३ ॥
तेनाचार्याः प्रसीदन्तु मयि निःसाधने स्वतः ।
तेनैव मम नैश्चिन्त्यमैहिके पारलौकिके ॥ ४ ॥
इति श्रीपितृचरणैकतानश्रीवल्लभ विरचितं पुष्टिप्रवाहमर्यादाविवरणं समाप्तम् ।
श्रीगोपीजनवल्लभाय नमः।
पुष्टिप्रवाहमर्यादा ।
श्रीरघुनाथकृतविवरणसमेता ।
नमो भक्तभयाभावभाविने भक्तिदायिने ।
श्रीमदग्निकुमाराय पारोवाराय सत्कृते ॥ १ ॥
इदानीं भगवत्प्राप्तिलक्षणमुख्यफलतदभावौ किंनिबन्धनाविति संशयं निवारयितुं
मार्गभेदविचारमारभन्ते पुष्टिप्रवाहमर्यादा इति ।
पुष्टिप्रवाहमर्यादा विशेषेण पृथक् पृथक् ।
जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ १ ॥
वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुतेः।
पुष्टिरनुग्रहो धर्म्येकनिष्ठः, स एको मार्गः। प्रवाहो 'जायस्व म्रियस्वे'त्येवं-
रूपः। मर्यादा वेदोक्तवचनोत्थो मार्गः। एतान् पृथक् पृथक् प्रत्येकं तेषामसाधारण-
लक्षणैर्जीवदेहप्रवाहक्रियाफलरूपैर्विशिष्य यथा ज्ञायन्ते, तथा वक्ष्यामि, यतो यच्छ्रू-
वणानन्तरं पूर्वसन्देहाः सर्वविषयका न भविष्यन्तीत्यर्थः। अत्र जीवप्रवाहयोर्विशेषण-
विशेष्यभावेनैक्यं ज्ञेयम्, न भेदः। देहक्रिययोरप्येवमेव ज्ञेयम्। भेदानग्रे स्वयमेव
वदिष्यन्ति ॥ १ ॥
मार्गत्रयसद्भावं प्रमाणयन्ति भक्तिमार्गस्येति ।
भक्तिमार्गस्य कथनात् पुष्टिरस्तीति निश्चयः ॥ २ ॥
'द्वौ भूतसर्गौ'वित्युक्तेः प्रवाहोपि व्यवस्थितः ।
वेदस्य विद्यमानत्वान्मर्यादापि व्यवस्थिता ॥ ३ ॥
कथनादिति । श्रीभागवतगीतादौ । अत्र भक्तिरूपकार्येण कारणं पुष्टिरस्तीति
निश्चीयते । इदं धर्मिनिष्ठं पुष्टिमार्गे प्रमाणमुक्तम् । 'द्वौ भूतसर्गौ लोकेस्मिन् दैव आसुर
एव चे' त्याद्युक्तेः प्रवाहाख्योपि मार्गः प्रमाणसिद्धोस्तीति निश्चीयते । काण्डत्रयात्मक-
वेदस्य विद्यमानत्वाच्छ्रूयमाणत्वान्मर्यादामार्गेपि सप्रमाणत्वं सिद्धम् ॥ ३ ॥
त्रयाणामसङ्कीर्णमितरेतरभेदकं लक्षणमाह कश्चिदिति ।
कश्चिदेव हि भक्तो हि 'यो मद्भक्त' इतीरणात् ।
सर्वत्रोत्कर्षंकथनात् पुष्टिरस्तीति निश्चयः ॥ ४ ॥
१. मुक्तिदायिने । २. पारः संसारस्तदुत्तारकायेत्यर्थः । ३. प्रवाहेतिनास्ति ४. अतः। ५. वेदेति
नास्ति क्वचित् ।
पुष्टिप्रवाहमर्यादा । १९
न सर्वोतः प्रवाहाद्धि भिन्नो वेदाच्च भेदतः ।
'यदा यस्ये'ति वचना'न्नाहं वेदै'रितीरणात् ॥ ५ ॥
'मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रिय' इति वचनाद्भक्तिमार्गीया विरला एव
भवन्ति । न हि भगवत्प्रियत्वं स्वल्पसाध्यम्, अतः प्रवाहाद्भिन्नः पृथगेव । प्रवाहस्य
सर्वसाधारणत्वाद्भक्तेरनुग्रहैकलभ्यत्वान्महानेव भेदोस्तीति मन्तव्यम् । मर्यादायाप्यसङ्कीर्णत्वं
वेदाच्च भेदत इत्यारभ्य निश्चय इत्यन्तेनाह । 'यदा यस्ये'ति श्रीभागवते । 'नाहं वेदैर्न
तपसे'ति गीतायाम् । सर्वत्र भगवच्छास्त्रादौ भक्तिमार्गस्य कर्माद्यपेक्षयोत्तमत्वकथनात्
पुष्टिमार्गो भिन्नोस्तीति निर्धारितम् । अभेदे तूत्कर्षवैयर्थ्यात् ॥ ५ ॥
मर्यादाप्रवाहयोर्भक्तावन्तर्भावमाशङ्क्य निषेधन्ति मार्गैकत्वेनेति ।
मार्गैकत्वेन चेदन्त्यौ तनू भक्त्यागमौ मतौ ।
न तद्युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥ ६ ॥
जीवदेहकृतीनां च भिन्नत्वं नित्यतः श्रुतेः ।
यथा तद्वत्पुष्टिमार्गे द्वयोरपि निषेधतः ॥ ७ ॥
प्रमाणभेदाद्भिन्नो हि पुष्टिमार्गो निरूपितः ।
अन्त्यौ प्रवाहमर्यादे । तनू भक्तिं प्रत्यङ्गभूते, साधने इति यावत् । एवंविधे भूत्वा
भक्त्यागमौ भक्तिशास्त्ररूपौ मतौ चेत्, तन्न युक्तमिति योजना । तन्कुतो नेत्याशङ्क्याह
सूत्रतो हीति । वैदिको मर्यादामार्गो भिन्नः, भक्तेः पृथगित्यर्थः । अत्र प्रमाणं ब्रह्मसू-
त्राणि । द्वितीयं तदर्थानुरुद्धा युक्तयः साधकवाक्यानि । तत्र 'अथातो ब्रह्मजिज्ञासा'
इत्यादिषु जीवब्रह्माभेदः प्रतिपाद्यते । भक्तौ तु तवाहमिति स्वस्वामिसम्बन्धः प्रतिपाद्यते,
अतः स्फुटो भेदः । युक्तयस्तत्तर्कास्ते च शास्त्र(प्र)सिद्धा ज्ञेयाः । भक्तेरपि शाण्डिल्यसूत्रतो
वैलक्षण्यं श्रूयते । तथाहि । 'अथातो भक्तिजिज्ञासा' इत्युपक्रम्य 'सा परानुरक्तिरीश्वरे'
'द्वेषप्रतिपक्षाद्रसभावाच्च राग' इति द्वितीयतृतीयसूत्राभ्यां स्नेहरूपत्वमुक्तम् । तच्च कर्मज्ञान-
काण्डादिविरुद्धमेव । अतोपि मर्यादायाः पृथक्त्वम् । हिशब्द उभयत्रापि प्रसिद्ध्यर्थः ।
भेदकान्तरमप्याह जीवेति । आसुरजीवानां दैत्यदानवप्रभृतीनामपि वेदेधिकारप्रवृत्ती
दृश्येते । भक्तिमार्गे तेषां गन्धोपि न । प्रत्युत तद्भक्तसु द्वेष एव, अतो जीवभेदः स्फुटः ।
वेदे स्त्रीशूद्रादीनामनधिकारः श्रूयते । भक्तौ तु ब्राह्मणादिसाधारण्येन सै दैवजीवमा-
त्रस्य । 'देवोऽसुरो मनुष्यो वे'ति वचनात् । 'यो मद्भक्तः स मे प्रियः' 'मां हि पार्थ व्यपा-
श्रित्य' इत्यादौ तथैवाज्ञानात् । भक्तौ स्नेहनिबन्धनकृतेरियत्ताया अभावाद्देहवत् कृति-
भेदोपि स्फुटः । किञ्च । श्रुतेर्वेदस्य नित्यता । अकरणे प्रत्यवायजनकत्वात् । श्रुतिपदेन
तदुक्तधर्मा उच्यन्ते । उक्तप्रकारेण वेदे अन्यमार्गापेक्षया यथा भेदः, तद्वत् तथैव पुष्टिमार्गे
१. भक्त्या त्वनन्ययेति गीतायाम् । २. अधिकारवृत्ती अधिकारप्रवृत्तिरिति, पाठद्वयम् । ३. दैवेति
पाठः ।
२० श्रीरघुनाथकृतविवरणसमेता ।
भेद इति शेषः । कथमित्यपेक्षायां द्वयोरपीति । द्वयोर्मर्यादाप्रवाहयोर्निषेधतः तल्लक्षणो-
प्रवेशादित्यर्थः । प्रमाणभेदादिति । वस्तुसाधकं प्रमाणमित्युच्यते । वेदे तु स्वतःप्रामा-
ण्यम् । तद्विरोधिप्रत्यक्षादीनामप्यतथात्वम् । पुष्टौ तु धर्मितदनुग्रहभक्तानुभवातिरिक्तप्र-
माणाभावात् साधकभेदादपि पुष्टिमार्गो भिन्नो भवतीत्यर्थः । अत एवैतन्मार्गीयाणां वैल-
क्षणयं भगवतैवोक्तम् । तथाहि 'केवलेन हि भावेन' 'ते नाधीतश्रुतिगणा' इति । नहीदं
मर्यादयोपपद्यते, कुतस्तरां तुच्छः प्रवाहः ॥ ७ ॥
प्रवाहमार्गमाह सर्गभेदमिति ।
सर्गभेदं प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतम् ॥ ८ ॥
इच्छामात्रेण मनसा प्रवाहं सृष्टवान् हरिः ।
वचसा वेदमार्गं हि पुष्टिं कायेन निश्चयः ॥ ९ ॥
सर्गशब्देन लौकिकः प्रवाह उच्यते । अत्रापि स्वरूपाङ्गक्रियाशब्दैर्यथाक्रमं
जीवदेहकृतयो विवक्षिताः । स्वरूपं जीवः, अङ्गं देहः, क्रिया कृतिः, एतैर्युक्तं विशिष्ट-
मित्यर्थः । ननु प्रवाहः सर्ग उक्तः । स च पुष्टिमर्यादयोरप्यस्तीति कथं वैलक्षण्यमितिचेत्,
तत्राह इच्छामात्रेणेति । 'सोऽकामयत, बहु स्यां प्रजायेयेति, स द्वितीयमैच्छत्,
स हैतावानास' इत्यादिभिर्भगवान् सङ्कल्पमात्रेण मनसैव बाह्योपादानकारणानपेक्षेण
प्रवाहाख्यं सृष्टवान् । मनसः सृष्टिकर्तृत्वं सर्वस्यापि मनोजन्यत्वं श्रुतिराह 'असतोऽधि
मनोऽसृजत, मनः प्रजापतिमसृजत, प्रजापतिः प्रजा असृजत, तद्वा इदं मनस्येव परमं
प्रतिष्ठित' मिति, 'मनसो ह्येव खल्विमानि भूतानि जायन्ते,' 'मनसो वशे सर्वमिदं बभूव'
'कामस्तदग्रे समवर्तताधी'त्यादि ज्ञेयम् । एवं कारणभेदान्न सर्गैक्यम् । मर्यादासर्गमाह
वचसेति । वाण्या मूलभूतवागिन्द्रियेण वेद एव मार्गस्तं सृष्टवान् । हिशब्दः पुराणा-
दिप्रसिद्ध्यर्थः । पुष्टिसर्गमाह पुष्टिमिति । साक्षाद्व्यवहितस्वरूपेणेत्यर्थः । इतिनिश्चयः ।
'फलमत उपपत्ते'रित्यादिनेश्वर एव शुभाशुभफलदातेति सिद्धम् ॥ ९ ॥
तत्र मार्गत्रये केन रूपेण कुत्र फलदानमिति संशये निश्चितमाह मूलेच्छात् इति ।
मूलेच्छातः फलं लोके वेदोक्तं वैदिकेऽपि च ।
कायेन तु फलं पुष्टौ भिन्नेच्छातोऽपि नैकता ॥ १० ॥
'तानहं द्विषतो' वाक्याद्भिन्ना जीवाः प्रवाहिणः ।
अत एवेतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११ ॥
तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः ।
भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ १२ ॥
लोके प्रवाहाख्ये मार्गे, मूलेच्छा पुष्टिमर्यादातिरिक्तसाधनसाध्यफलभावनेच्छा,
१. लक्षणप्रवेशादिति पाठः । २. पुष्टिमार्गीययोरिति पाठः ।
यथा ‘तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु’
इति । वैदिके मार्गे वेदोक्तं तत्तत्काण्डाभिनिविष्टस्य तत्तदनुरूपं स्वर्गादिकं फलं तत्त-
त्साधनसापेक्षेच्छात इत्यर्थः । कायेन साक्षात् स्वरूपेण सच्चिदानन्दविग्रहेण ।
स्वरूपमात्रनिष्ठलीलाभिनिविष्टभक्तभावसापेक्षेच्छातः फलं पुष्टावित्यर्थः । भिन्ना इति ।
दैवाद्विना आसुरा इत्यर्थः, ‘द्वौ भूतसर्गौ’ वित्युक्तत्वात् । उक्तरीत्या पुष्टेर्धर्ममात्रनिष्ठत्वेने-
तरापेक्षयाभ्यर्हितत्वं ज्ञेयम् । अत एवेति । यत उक्तरीत्यान्योन्यं लक्षणाप्रवेशाद्वैलक्षण्य-
मत एव इतरौ मर्यादाप्रवाहौ पुष्टेः परस्परं च भिन्नौ । अन्तपदेन पर्यवसानमुच्यते ।
तेन सान्तौ अन्तसहितौ । कस्य कुत्रेत्याकाङ्क्षायां मोक्षप्रवेशातः मोक्षात् प्रवेशाच्चेत्यर्थः ।
प्रवेशपदेन प्राकृतो लयो विवक्षितो, न मोक्षः । तत्र वैदिकस्य मोक्षे पर्यवसानम्, प्रवा-
हस्य (प्रकृतौ) लय इति विवेकः । यथा द्वयोः सान्तत्वम्, न तथा पुष्टेः, मोक्षोत्तरका-
लमपि विद्यमानत्वात् । अत एवोक्तं ‘आत्मारामारच मुनयः’ इत्यादौ । यतो मुक्तानामपि
अधिकारो भक्तौ । अत एव तन्मार्गीया जीवाः भिन्नाः, ब्रह्माण्डादपि बहिर्भूताश्चेत्,
किं वाच्यं मर्यादाप्रवाहातिरिक्तत्वे । अत एव वाराहेप्युक्तम्, ‘भिन्नैव काचित् सा सृष्टि-
र्विधातुर्व्यतिरेकिणी’ति । एवंविधपुष्टिजीवानां सर्गो भगवता स्वात्मभजनार्थमेव कृत
इति सङ्गच्छते, नत्वन्यथापीत्यर्थः ॥ १२ ॥
एवंविधभक्तानां सर्वांशेन भगवत्साम्यमाह स्वरूपेणेति ।
स्वरूपेणावतारेण लिङ्गेन च गुणेन च ।
तारतम्यं न स्वरूपे देहे वा तत्क्रियासु वा ॥ १३ ॥
तथापि यावता कार्यं तावत्तस्य करोति हि ।
स्वरूपमन्तरात्मस्वरूपम् । यथा काष्ठं वह्निसाद्भवति, एवं भक्ता अपि स्वरूपै-
कनिष्ठास्सतस्तदभिनिविष्टास्तदात्मत्वमेवाभिपद्यन्ते । अत एवोक्तं ‘यो यच्छ्रद्धः स एव
स’ इति । यथा भगवदवतारो धर्मसंरक्षणार्थम्, तद्विरुद्धोत्सादनार्थं च, एवं भक्ताना-
मपि अवतारो जीवोद्धारार्थमेवेत्यवतारेणापि साम्यम् । लिङ्गं वेषस्तच्चिह्नानि सर्वा-
ण्यपि । तद्यथा । ‘तं वीक्ष्य कृष्णानुचरं व्रजस्त्रियः प्रलम्बबाहुं नवकञ्जलोचनम् । पीता-
म्बरं पुष्करमालिन’ मित्यादि । गुणाः पतितपावनत्वाद्वि, भगवच्चेष्टितान्यपि विज्ञेयानि ।
तथापीति । एवं सर्वांशेनान्यूनत्वेपि यावता न्यूनत्वादिना स्वरमणसिद्धिः, तावदेव तस्य
स्वापेक्षया सेवकत्वसिद्ध्यर्थमुभयरसार्थं च तारतम्यं करोति । अत एवैदमपि सङ्गच्छते,
‘नोद्धवोण्वपि मन्न्यूनः,’ ‘मद्भक्तपूजाभ्यधिके’ति, ‘न पारयेहं निरवद्यसंयुजा’ मित्यादि ।
‘ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यह’ मित्यादौ प्रसिद्धयर्थो हिशब्दः ॥ १३ ॥
ते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ १४ ॥
प्रवाहादिविभेदेन भगवत्कार्यसिद्धये ।
२२ श्रीरघुनाथकृतविवरणसमेता ।
ते हीति । ते पूर्वोक्तास्त्रयोपि मार्गा द्वेधा द्विप्रकारकाः, ये मार्गान्तरसंवलि-
तास्ते मिश्राः, ये पुनस्तन्मात्रास्ते शुद्धाः । मिश्रणमपि प्रत्येकं त्रिभिश्चयाणामपीत्येकै-
कशस्त्रिप्रकाराः । एवं भेदानां प्रयोजनं किमित्याकाङ्क्षायां भगवत्कार्यसिद्धिखेवेति
मतम् । तच्च कार्यं रमणरूपमेव । 'क्रीडाभाण्डमिदं विश्वम्,' 'एकाकी स न रमत'
इत्यादौ प्रसिद्धम् ॥ १४ १/२ ॥
पुष्टेर्भेदानाह पुष्ट्येति ।
पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ॥ १५ ॥
मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः ।
पुष्टिस्थास्तु पूर्वमनुगृहीता एव भवन्ति । पुनरनुग्रहान्तरं यदा तेषु प्रविशति, तदा
ते पूर्वपुष्ट्यतिरिक्तपुष्टिसद्भावात् पुष्ट्या विमिश्रा भवन्ति । तल्लक्षणं सर्वज्ञा इति । एवं-
विधत्वं प्रह्लादादौ प्रसिद्धम् । प्रवाहेण मिश्रिताः लोकवेदक्रियारता भवन्तीति तेषामेत-
ल्लक्षणम् । मर्यादया मिश्रा गुणज्ञाः भगवन्माहात्म्ययाथातथ्यज्ञा इति लक्षणम् । प्रेम्णा
स्वरूपैकनिष्ठा इति लक्षणम् । ते शुद्धपुष्टिमार्गीयास्तेयत्यन्तदुर्लभा एवेत्यर्थः ॥ १५ १/२ ॥
एवं सर्गस्तु तेषां हि फलं त्वत्र निरूप्यते ॥ १६ ॥
भगवानैव हि फलं स यथाविर्भवेद्भुवि ।
गुणस्वरूपभेदेन तथा तेषां फलं भवेत् ॥ १७ ॥
एवमिति । उक्तप्रकारेण तेषां त्रयाणां सर्गः सहेतुकः निरूपित इति शेषः । अत्र
शुद्धमिश्रपुष्टौ फलं निरूप्यते भगवानिति । गुणाः ऐश्वर्यादयो धर्माः, स्वरूपं धर्मी ।
भवन्ति भावा अस्मिन्निति भूरन्तःकरणं विवक्षितम्, तदुपलक्षितहृदयदेशो वा । तेना-
यमर्थः । भगवानैश्वर्यादिषड्गुणोपेतो यस्य भक्तस्यान्तःकरणे यथा येन भावेन प्रकटो
भवति, तत्प्रियं कर्तुं तत्स्वरूपमेव फलमित्यर्थः । 'ये यथा मां प्रपद्यन्ते तांस्तथैव'ति प्रति-
ज्ञानात् ॥ १७ ॥
आसक्तौ भगवानैव शापं दापयति क्वचित् ।
अहङ्कारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ १८ ॥
न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवः ।
महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ १९ ॥
भगवत्तारतम्येन तारतम्यं भजन्ति हि ।
लौकिकत्वं वैदिकत्वं कापट्यात्तेषु नान्यथा ॥ २० ॥
वैष्णवत्वं हि सहजं ततोऽन्यत्र विपर्ययः ।
सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ २१ ॥
पुष्टिप्रवाहमर्यादा । २३
चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु ।
क्षणात् सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ २२ ॥
तेषां क्रियानुसारेण सर्वत्र सकलं फलम् ।
आसक्ताविति । पुष्टिस्थस्य अहङ्कारे तत्पूर्वककार्ये, अथवा लोके भजनविरुद्धे
आसक्तौ सत्यां तद्दोषपरिहाराय, अत एव तन्मार्गस्थापनाय तत्र स्थिरीकरणाय ब्राह्मणा-
दिद्वारा भगवान्नेव क्वचित्, न सर्वत्र, शापमन्तरायापादकं दापयति । पुनरेवं कदापि
न कुर्यामिति यथा तस्य मनसि सततमनुवर्तेत । यथेन्द्रद्युम्नास्यागस्त्यमुखाद्गजेन्द्रत्वम् । एवं
शिक्षाकरणे भक्ताः पाषण्डतां न यान्ति । नापि तज्जनितापराधैर्भोगाय रोगाद्युपद्रवस्तत्पी-
डानुभवः । एवंविधाः शास्त्रोल्लङ्घनाद्भवन्ति । ये पुनर्महानुभावाः नारदादयस्ते प्रायेण
बाहुल्येन, भगवदधीनत्वात् प्रायिकत्वोक्तिः, शुद्धत्वहेतवे देहान्तःकरणादिशुद्धयर्थं शास्त्रं
भगवदीयं गीताभागवतादिकं भजन्ति सेवन्ते सततमवगाहन्त इत्यर्थः । किञ्च । येषु येषु
भक्तेषु यथा यथा भगवदाविर्भावः, तेन तारतम्येन स्वस्मिन् तरतमभावमपि भजन्ते स्वीकु-
र्वन्ति, न तु स्वस्मिन्नाधिक्यं सदप्युद्भावयन्ति । सर्वदा भगवत्सम्बन्धिषु नम्रा एव
भवन्तीत्यर्थः । तेषु महानुभावेषु यल्लोकवेदकुलप्राप्ताचारदर्शनमात्रेण लौकिकत्वं वैदि-
कत्वं च व्यवह्रियते, तत्कापट्यात् अज्ञानादेव । नान्यथा अन्यप्रकारेण नेत्यर्थः । वैष्ण-
वत्वं तेषु सहजं नैसर्गिकम्, तल्लक्षणसद्भावात् । वैष्णवलक्षणं श्रीभागवतविष्णुपुराणादि-
तोवगन्तव्यम् । ततः महानुभावेभ्यः अन्यत्र अन्येषु विपर्ययः कापट्याद्वैष्णवत्वम् ।
लौकिकत्वं वैदिकत्वं सहजमित्यर्थः । सम्बन्धिनस्त्विति । ये जीवाः सम्बन्धिनो
भगवद्विभूत्यंशलेशसम्बन्धवन्तस्तथापरे अन्ये केवलप्रवाहस्थाश्च ये ते सर्वे चर्षणी-
शब्देनोच्यन्ते, परिभ्रमणस्वभावात् । अत एव ते सर्वेपि क्षणादेव यादृशः सङ्गः, तादृशा
एव सर्ववर्त्मसु प्रविष्टाः सन्तः सर्वत्वं तत्तन्मार्गानुसारित्वं यान्ति । तेषां रुचिरत्याग्रहः
कुत्रापि नास्ति । अत एव तेषां क्रियानुसारेणैव सर्वत्र यत्र यदा रुचिस्तत्र वर्तमानानां
फलं सकलं, कलया सह, लेशमात्रं, न पूर्णमित्यर्थः ॥ २२ १/२ ॥
प्रवाहस्थान्निरूपयन्ति प्रवाहस्थानिति ।
प्रवाहस्थान् प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥ २३ ॥
जीवास्ते चासुराः सर्वे 'प्रवृत्तिं चे'ति वर्णिताः ।
ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४ ॥
दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञास्ताननु ये पुनः ।
पूर्ववदेव स्वरूपं जीवात्मा, अङ्गं देहः, क्रिया कृतिः, एतैः युतान् विशिष्टा-
नित्यर्थः । ते प्रवाहमात्रानुसारिणो ये जीवास्ते आसुरा ज्ञेयाः, 'प्रवृत्तिं च निवृत्तिं च जना
१. भोगरोगेति पाठः ।
२४ श्रीरघुनाथकृतविवरणसमेता ।
न विदुरासुरा' इति वचनात् । ते च द्विप्रकाराः । एके अज्ञाः, स्वतः किमपि न
जानन्ति, आसुराणां दुष्टाचारं दृष्ट्वा स्वयमाचरन्ति । एके पुनर्दुर्ज्ञाः, दुष्टमात्मपातकारणमेव
कर्तुं जानन्ति, नतु भगवत्प्राप्तिसाधनमपि । ते च भगवता प्रोक्ताः 'प्रवृत्तिं च निवृत्तिं
चे'त्यादिना ॥ २४½ ॥
प्रासङ्गिकमाह प्रवाहेऽपीति ।
प्रवाहेऽपि समागत्य पुष्टिस्थस्तेन युज्यते ॥ २५ ॥
सोपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २५½ ॥
पुष्टिस्थो यदा दैवयोगादासुरसङ्गात्तन्मार्गे प्रविशति, तदा तेन भावेन युज्यते
लिप्तो भवति । तद्वस्त्रमालिन्यवत् प्रक्षालनस्थानीयभगवद्भक्तभाविसंसर्गाच्छुद्ध्येवेति मन्त-
व्यम् । अन्यथा विरोधः स्यात् । सोपि तद्धर्मैस्तेषां कुले जात उत्पन्नो भूत्वा पश्चात्
स्वीयपुष्टिसंस्कारोद्बोधे सति तदर्थमेव यतिष्यत इति शेषः । जन्ममात्रं तु प्रारब्धकर्माधीन-
त्वादनिवार्यम् । अत एव भगवताप्युक्तं 'पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यत' इत्या-
दिना । इत ऊर्ध्वं ग्रन्थत्रुटिः ॥ २५½ ॥
पुष्टिप्रवाहमर्यादाः पृथक् पृथगुदीरिताः ।
कृतिना रघुनाथेन श्रीवल्लभपदेप्सुना ॥ १ ॥
इति श्रीवल्लभनन्दनचरणैकशरणश्रीरघुनाथानां कृतौ पुष्टिप्रवाह-
मर्यादाविवरणं सम्पूर्णम् ।
१. संसर्गात् । २. उक्तं च, 'प्रवाहो लौकिको धर्मो मर्यादा वेद उच्यते । कृष्णे प्रेम च वै पुष्टिर्मार्-
गभेदास्त्रयोऽत्र हि ॥ इत्यधिकम् ।
श्रीकृष्णाय नमः ।
पुष्टिप्रवाहमर्यादा ।
श्रीकल्याणरायकृतटीकासमेता ।
श्रीविठ्ठलेश्वरं नत्वा स्वेषां संफलसिद्धये ।
पुष्टिप्रवाहमर्यादाविवृतिः क्रियते मया ॥ १ ॥
लोके कति मार्गाः कीदृशाः किं च तेषां फलमिति जिज्ञासूनां स्वकीयानां ज्ञानार्थं
श्रीवल्लभाचार्याः पुष्टिप्रवाहमर्यादा विशेषेण वक्तुं प्रतिजानते ।
पुष्टिप्रवाहमर्यादा विशेषेण पृथक् पृथक् ।
जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ १ ॥
पुष्टिर्नाम भगवदनुग्रहः फलप्रापकत्वात् फलार्थं सृज्यत इति स एको मार्गः । प्रवाहो
नाम जन्मादिप्रवाहस्वरूपः लौकिकफलप्रापकत्वात् सोपि मार्गः । मर्यादा वेदोक्तः कर्ममार्गः ।
एता विशेषेण व्यावर्तकधर्मेण पृथक् पृथक् वक्ष्यामि । अत्र के व्यावर्तका धर्मा इत्याका-
ङ्क्षायामाहुः । भक्तिमार्गे जीवा भगवदनुगृहीता भिन्नाः । तेषां देहाः भगवच्चरणरेण्वादि-
निष्पादिता भिन्नाः । तेषां क्रिया भगवत्परा भिन्नाः । एवं प्रवाहासक्ताः संसारिणो जीवा
भिन्नाः, तेषां देहा अपि संस्कारादिरहिता भिन्नाः, तेषां क्रिया लौकिक्यो भिन्नाः । मर्या-
दामार्गे दैवा जीवा भिन्नाः, तेषां देहाः संस्कृता भिन्नाः, तेषां वेदोक्ताः क्रिया भिन्नाः ।
प्रवाहासक्तत्वेन प्रवाह एव प्रावाहिकाणां भेदकः । 'मद्भक्ता यान्ति मामपी'त्यादिवाक्याद्भ-
क्तिमार्गे पुरुषोत्तमप्राप्तिः फलम् । मर्यादामार्गे वेदोक्तकर्मभिर्निःकामानां तत्त्वज्ञानद्वारा
अक्षरप्राप्तिः फलम् । सकामानां क्षयिष्णु स्वर्गादिः फलम् । प्रवाहस्थानां स्वकर्मानुसारि
जन्मादिः फलम् । भिन्नैरेतैर्मार्गा अपि भिन्ना भवन्तीत्यर्थः ॥ १ ॥
वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुतेः ।
भक्तिमार्गस्य कथनात् पुष्टिरस्तीति निश्चयः ॥ २ ॥
कथनस्य प्रयोजनमाहुः । यस्योक्तस्य श्रवणात् मार्गतत्साधनफलेषु सन्देहा
न भविष्यन्तीत्यर्थः । मार्गसत्त्वे प्रमाणानि वक्तुं प्रथमं पुष्टिसत्त्वे प्रमाणमाहुः । 'ते
नाधीतश्रुतिगणा' इत्यादिना निःसाधनत्वेन निरूपितानां व्रजस्थितानां 'केवलेन हि
भावेने'त्यादिवाक्यैः स्नेहनिरूपणात् भक्तिरूपस्य मार्गस्य कथनात् भक्तिका-
रणत्वेन पुष्टिर्निश्चीयत इत्यर्थः । ननु दानव्रतादिभिः भक्तेः श्रूयमाणत्वात् कथं
भक्तिकारणत्वेन पुष्टिर्निश्चीयत इति चेत्, न, अनुग्रहव्यापारत्वेनैव दानादीनां भक्तिसाध-
१. स्वफलेति पाठः । सकलसिद्धय इति पाठः स्यात् ।
४ पु. प्र. म.