षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 267, कुल 408 में से
संदर्भ में पढ़ेंमर्यादामागैसृष्टिप्रकारमाहुः वचसेति । वचसां वेदरूपवाण्या मर्यादामागं सृष्टवान् ।
मर्यादामागंस्य वेदमूलकत्वप्रसिद्धिद्योतनार्थं हिशब्दः । एवं शरीरैकदेशाभ्यां मार्गद्वयसर्ग-
मुक्त्वा पुष्टिमार्गसृष्टेः सर्वोत्कृष्टत्वज्ञापनाय पुष्टिमार्गसृष्टिमाहुः पुष्टिं कायेनेति । आनन्द-
मात्रकरपादमुखोदरादिरूपेण सम्पूर्णकायेन पुष्टिमार्गसृष्टिं कृतवान् । मार्गत्रयप्रयोजनमग्रे
वक्ष्यन्ति । सम्पूर्णदेहेन पुष्टिसर्गस्य कथनात् पुष्टिसर्गस्य सर्वोत्कृष्टत्वं निर्धारितमिति
ज्ञापनायोक्तं निश्चय इति ॥ ९ ॥
एवं मार्गत्रयसर्गस्वरूपं निरूप्य मार्गभेदेन मार्गत्रयफलस्वरूपमाहुः मूलेच्छात् इति ।
मूलेच्छातः फलं लोके वेदोक्तं वैदिकेपि च ।
कायेन तु फलं पुष्टौ भिन्नेच्छातोऽपि नैकता ॥ १० ॥
सृष्ट्यन्तर्गतानां केषाञ्चित् जीवानामासुरत्वसम्पादिका या भगवदिच्छा सा मूलेच्छा,
ततः तदिच्छया लोके प्रवाहमार्गे फलं अन्धंतमःप्रवेशरूपं भवतीत्यर्थः । एवं प्रावाहिकाणां
फलं निरूप्य मर्यादामार्गीयाणां फलं निरूपयन्ति वेदोक्तं वैदिकेऽपि चेति । वैदिके
मर्यादाज्ञानमार्गे 'तमेव विदित्वाति मृत्युमेति' इत्यादिश्रुतिप्रतिपाद्यमक्षरप्राप्तिरूपं फल-
मुक्तम् । एवं कर्ममार्गेपि 'अग्निष्टोमेन स्वर्गकामो यजेते'त्यादिश्रुत्या सकामस्य स्वर्गलोक-
प्राप्तिरूपं फलम्, निष्कामयागकर्तुरपि स्वर्गलोककामनाभावात् स्वर्गलोके च 'यन्न दुःखेन
संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं यत् तत्पदं स्वःपदास्पद'मिति स्वःपद-
लक्षणाभावात् आत्मसुखे च स्वःपदलक्षणयोगात् निष्कामयागकर्तुरात्मसुखरूपं फलं
भवति । चकारात्तादृशस्यापि भगवदनुग्रहेण भगवद्भक्तसङ्गेन भक्तिप्राप्तौ सत्यां मर्यादा-
मार्गीयभक्तस्यापि मुक्तिरूपा पुरुषोत्तमप्राप्तिर्भवतीति ज्ञापनाय चकारः। एवं द्विविधमर्यादा-
मार्गीयाणां द्विविधं वेदोक्तं फलं निरूप्य पुष्टेः फलं निरूपयन्ति कायेन तु फलं पुष्टा-
विति । कायेन आनन्दमात्रकरपादमुखोदरादिरूपेण, सर्वेन्द्रियास्वाद्यस्वरूपानन्ददानरूपं
फलम् । एतदतिरिक्तप्रकारस्य फलत्वाभावार्थे तुशब्दः । अत एव पुष्टिश्रुतिरूपाभिर्व्रजसी-
मन्तिनीभिः 'अक्षण्वता'मिति श्लोके सर्वश्रुतिविरोधपरिहारेण सर्वेन्द्रियास्वाद्यपुरुषोत्तम-
स्वरूपस्यैव फलत्वं निरूपितम् । ननु मर्यादामार्गीयभक्तेरपि पुरुषोत्तमप्रापकत्वात् पुष्टि-
मार्गीयभक्तेरपि पुरुषोत्तमप्राप्तिहेतुत्वात् उभयोरपि फलैक्यं भवत्वित्याशङ्कां परिहरन्ति
भिन्नेच्छातोपि नैकतेति । तस्यायमर्थः । यद्यपि मर्यादामार्गीयभक्तस्यापि अन्ते पुरुषो-
त्तमप्राप्तिरस्ति, तथापि तस्य मुक्तिरूपैव प्राप्तिः, न तु पुष्टिमार्गीयभक्तवत् साक्षात्सम्बन्ध-
रूपप्राप्तिः, यतो मर्यादामार्गीयभक्तस्यान्ते स्वप्राप्तौ तादृश्येव भगवदिच्छा । अत एव
श्रीभागवते 'अनिच्छतोपि गतिमण्वीं प्रयुङ्क्त' इति । पुष्टिमार्गीयस्य साक्षात् स्वरूपसम्बन्धानु-
भवरूपफलप्राप्तावेव भगवदिच्छा । यदि मार्गद्वयेपि एकमेवं फलं स्यात्, तदा मार्गभेदवै-
यर्थ्यमेव स्यादित्यत उक्तं 'भिन्नेच्छातोपि नैकते'ति ॥ १० ॥
१. गोपीभिरित्यधिकं क्वचित् ।
२ पु. प्र. म.