सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 266, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 266

८ श्रीवल्लभकृतविवरणसमेता ।
जीवदेहकृतीनां भिन्नत्वं नित्यत्वं चाहुः तद्वत्पुष्टिमार्ग इति । यद्यपि पुष्टिमार्गे जीवा दैवा
एव, तथापि तेषां मर्यादामार्गीयदैवजीवेभ्यो वैलक्षण्यं दर्शयन्ति । यद्यपि मर्यादामार्गीय-
जीवा दैवाः, पुष्टिमार्गीया जीवाश्च दैवा एव, तथापि द्वयोरपि दैवजीवत्वेपि मर्यादामार्गी-
यजीवादीनां निषेधपूर्वकं पुष्टिमार्गीयजीवादीनां भिन्नत्वं चाहुः द्वयोरपि निषेधत इति ।
तत्र भेदप्रकारः । दैवत्वेपि पुष्टिमार्गे 'अनुग्रहः पुष्टिमार्गे नियामक' इति वचनात् पुष्टिमार्गी-
यजीवानामनुग्रहविशिष्टत्वम्, न तु मर्यादामार्गीयजीववद्विध्यधीनत्वमपि । किञ्च ।
पुष्टिमार्गीयजीवानां 'यमेवैष वृणुते तेन लभ्य' इति श्रुत्या साक्षात्पुरुषोत्तमवरणात् साक्षा-
त्पुरुषोत्तमप्राप्तिरेव । मर्यादामार्गीयाणां तदभावादक्षरप्राप्तिरेव । यथा मर्यादामार्गीयदे-
हस्याग्निहोत्राद्यनुकूलत्वम्, तथा पुष्टिमार्गीयदेहस्य शुद्धपुष्टिमार्गीयाचार्यप्रकटितभगव-
त्सेवापरत्वमेव, न त्वन्यपरत्वमिति देहभेदः । देहभेदनिरूपणेन कृतेरपि देहाधीनत्वात्
कृतीनां भेदः सिद्ध एवेति नानुपपन्नं किञ्चित् । अथवा । यद्यपि पुष्टिमार्गीयजीवदेहकृतीनां
पूर्वोक्तप्रावाहिकरीत्या नित्यत्वमस्त्येव, तथापि प्रकारान्तरेणापि नित्यत्वमुच्यते । साक्षा-
त्पुष्टिपुष्टिभक्तानां साक्षात्पुरुषोत्तमसंबन्धिफलानुभवयोग्यदेहानां नित्यत्वमेव । अन्यथा
श्रीगोकुलवासिनां 'ते तु ब्रह्महदं नीता' इति मुक्त्यनुभवकालेपि तेनैव देहेन मुक्त्यनुभवः ।
तदनन्तरं तेनैव देहेन सर्वेषां यथायोग्यं भक्तिमार्गीयफलानुभवः । यदि पुष्टिमार्गीयसाक्षा-
त्पुरुषोत्तमसम्बन्धिफलानुभवयोग्यदेहानां नित्यता न स्यात्, तदा मुक्त्यनुभवकाले स्थितिर्न
स्यात् । तस्मात् पुष्टिमार्गीयदेहानां नित्यत्वमेवेति नानुपपन्नं किञ्चित् । एवं फलोपयोगि-
देहनित्यत्वनिरूपणेनैव साक्षात्पुरुषोत्तमसम्बन्धिफलानुभवयोग्यकृतीनां नित्यत्वमुक्तसि-
द्धमितिदिक् । एवं पुष्टिमार्गीयजीवदेहकृतीनां स्वरूपं निरूप्योपसंहरन्ति प्रमाणभेदादिति ।
'अनुग्रहः पुष्टिमार्गे नियामक' इत्याद्युक्तप्रमाणैर्भेदनिरूपणात् प्रवाहमर्यादाभ्यां भिन्नः
सर्वोत्कृष्टः शुद्धपुष्टिमार्गो निरूपितः । हि युक्तश्चायमर्थः । न हि साक्षात्पुरुषोत्तमसम्बन्धो-
पयोगिनो धर्माः मार्गान्तरेपि सम्भवन्तीति पुष्टिमार्गस्यैव सर्वोत्कृष्टत्वं युक्तमेवेति ज्ञापनार्थ
हीत्युक्तम् ॥ ७ १/२ ॥
एवं प्रमाणभेदेन मार्गत्रयभेदं निरूप्य एतदग्रे मार्गत्रयस्य सर्गान्तरसादृश्यनिरा-
करणपूर्वकं सर्गमारभ्य फलपर्यवसानपर्यन्तं भेदं निरूपयन्ति सर्गभेदमित्यादि ।
सर्गभेदं प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतम् ॥ ८ ॥
इच्छामात्रेण मनसा प्रवाहं सृष्टवान् हरिः ।
वचसा वेदमार्गं हि पुष्टिं कायेन निश्चयः ॥ ९ ॥
तत्र प्रथमं प्रवाहमार्गसर्गभेदमाहुः इच्छामात्रेनेति । हरिः इच्छामात्रेण कांश्चिज्जी-
वानासुरान् करिष्यामीतीच्छया मनसा प्रवाहमार्गसृष्टिं कृतवान् । एवं प्रवाहमार्गसृष्टिमुक्त्वा
१. ऐक्यनिषेधपूर्वकमित्यर्थः । २. कृतिभेदः । ३. जीवदेहानाम् ।