सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 269, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 269

पुष्टिप्रवाहमर्यादा । ११
सेवाकरणप्रकारमाहुः स्वरूपेणेति ।
स्वरूपेणावतारेण लिङ्गेन च गुणेन च ।
तारतम्यं न स्वरूपे देहे वा तत्क्रियासु वा ॥ १३ ॥
तथापि यावता कार्यं तावत्तस्य करोति हि ॥ १३½ ॥
यद्यपि केवलस्वरूपपदं केवलजीवपरमपि भवति, तथाप्यत्र फलरूपसेवाकरण-
प्रकारनिरूपणे देहरहितकेवलजीवस्वरूपेण सेवाकरणासम्भवात् स्वरूपपदं लीलोपयोगि-
देहपरमेव । देहस्य फलरूपसेवोपयोगिफलोपयोगिफलरूपभजनोपयोगित्वकथनेन अविकृत-
त्वमानन्दमयत्वं नित्यत्वं च ज्ञापितम् । एवं साक्षाद्भजनोपयोगिदेहस्वरूपं निरूप्या-
विर्भावप्रकारमाहुः अवतारेणेति । अवतारेण साक्षात् फलरूपभजनोपयोगिसमाजमध्ये
प्राकट्येन । भजनोपयोगिप्रकारान्तरमाहुः लिङ्गेनेति । भजनोपयोगिदेहचिह्नैस्तैरित्यर्थः ।
चकारस्तदुपयोगिवयःसमुच्चयार्थः । पुनः प्रकारान्तरमाहुः गुणेनेति । गुणाः सौन्दर्य-
रसोद्बोधकचातुर्यभावादयः । फलभोगस्य सर्वाज्ञातत्वप्रकारज्ञापनाय चकारः । (यतोऽयं
रसः सर्वात्मना गोपनीय एव, भगवतो रसपोषाय । अत एव फलप्रकरणीयलीलारम्भे
मुख्यभक्तानां भगवन्निकटागमनसमये 'ता वार्यमाणा' इति भर्त्रादीनां तदागमनज्ञाना-
नन्तरमपि रसपोषाय योगमायाद्वारा तथा प्रभुः सम्पादितवान्, यथा तेषां 'मन्यमानाः
स्वपार्श्वस्था'निति वचनात् तदागमनज्ञानसम्भावनापि नाभूत् । यदि तेषां तदागमनज्ञान-
सम्भावनापि स्यात्, तदा रसाभासः स्यात् । अतः सर्वाज्ञानमावश्यकम् ।) ननु पुष्टिमार्गीय-
फलानुभवः भोक्तृभोग्यसाम्ये सति सम्पूर्णो भवति, न तु यत्किञ्चित्तारतम्येन । प्रभो-
रगणितानन्दस्वरूपत्वेन भजनरसानुभवकर्तॄणां तत्समत्वाभावात् पूर्णरसानुभवो न भविष्य-
तीत्याशङ्कापरिहाराय स्वरूपेणेत्यादिना भजनरसानुभवकर्तृयोग्यताप्रकारं निरूप्य पूर्ण-
रसानुभवसिद्धिहेतुमाहुः तारतम्यं न स्वरूप इति । पूर्वोक्तरसानुभवकर्तृयोग्यताप्रकारैः
पूर्णस्वरूपरसानुभवसिद्धिप्रतिबन्धेहेतुतारतम्याभाव उक्तः । तारतम्यं न स्वरूप इति ।
स्वरूपे । यथा आनन्दमात्रकरपादमुखोदरादेर्भगवतः आत्मनि देहे वा आनन्दमयत्वेन
तारतम्याभावः, तथा साक्षात्फलानुभवकर्तृभक्तेष्वपि आत्मनि आत्मस्वरूपे देहे वा आनन्द-
मयत्वादिना तारतम्याभावः । नतु प्राकृतदेहवत् देहात्मनोस्तारतम्यमपि । अत एव जन्मो-
त्सवाध्याये शुकदेवैरपि 'गोप्यश्चाकर्ण्य मुदिता' इतिश्लोके एतासां देहस्यालौकिकानन्दम-
यत्वज्ञापनाय 'आत्मानं भूषयाञ्चक्रु'रित्युक्तम्, न तु देहं भूषयाञ्चकुरिति । तेनात्मपदोपादा-
नात् यथा आत्मा नित्य आनन्दमयः अविकृतः, तादृश एवैतासां देह इति ज्ञापितम् । यद्येवं
न स्यात्, तदा 'ते तु ब्रह्महदं नीता' इत्यत्र मुक्तिसुखानुभवसमये तद्देहस्थितिर्न स्यात् ।
मुक्त्यनुभवानन्तरमपि तेनैव देहेन मुक्त्यधिकपूर्णभजनानन्दानुभवो न स्यात् । एतदेवा-
भिप्रेत्याचार्यैरुक्तं तारतम्यं न स्वरूपे देहे वा तत्क्रियासु चेति । अन्यथा उभयत्र पूर्ण-
१. चिह्नान्तर्गतं नास्ति क्वचित् । २. पूर्णरसः ।