सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

६ शिवदृष्टिः [ आ०-१

स तथा। अनेन निवृत्तचित्कथिता। इच्छाज्ञानक्रियास्तु भिन्नविषयाद्य-
पेक्षया¹ स्फुटीभवन्ति। परावस्थायां पुनः पूर्णोऽहमित्येव स्वस्वभावः
प्रकाशते, तावत्प्रकाशत्वात् तदेव ज्ञानं, संरम्भरूपत्वात्² सैव क्रिया, तत्स्व-
भावत्वेन तदभ्युपगमादिच्छापि स्थितैवेत्याह तदिच्छा तावतीति। तावच्च
स्वरूपं क्रियेति योज्यम्। अथवा तावज्ज्ञानमिति तावच्छब्दः³ क्रियायां
स्त्रीलिङ्गः परिणमनीयः। द्वितीयस्त्वन्ते तावच्छब्दः क्रमार्थः परापरा⁴-
द्यवस्थापेक्षः। अत एव भिन्नविषयाभावेऽपि अभ्युपगमप्रकाशसंरम्भाणां
सर्वदा प्रकाशमयत्वेनाविचलनादिच्छादिव्यवहारयोग्यतैवेत्युक्तं⁵
सुसूक्ष्मेति⁶। सुसूक्ष्मत्वमेषितव्याद्यभावेन विभागापरिकल्पनात्। अत एव
शक्तिसामरस्यं पूर्णचिन्मात्रप्रकाशनात्मकत्वात् चिद्रूपाह्लादपरत्वं चोक्तम्।
सैव च निर्विभागता परावस्था यदैवमास्ते परस्तदेत्युक्ता ॥ ३-४ ॥
अन्यदशायामपि⁷ सा तथाभूतज्ञेयादिशून्यशुद्धपरशिवावस्थास्ती-
त्याह—
न⁸ परं तदवस्थायां व्यवस्थैषा व्यवस्थिता।
यावत्समग्रज्ञानाग्रज्ञातृस्पर्शदशास्वपि । ५ ।।
स्थितैव लक्ष्यते सा च तद्विश्रान्त्या तथा फले।


१ तेन न भिन्नविषयाप्रविभागदशायां व्यभिचार इति भावः।
अनेन संविदानन्दात्मनः सर्वत्रैकरूपत्वेनानपायित्वेन धर्मिरूपेण शक्तिमदा-
त्मनावस्थितस्य भगवतः स्वातन्त्र्योद्रेकबलेनोन्मेष्यमाणानां चेच्छादीनां
शक्तित्वं द्योतितम्। २. स्वात्मोच्छलता।
३ तावती क्रियेत्यर्थः। ४ परावस्थायां क्रमाभावात्। अभ्युपगम
इच्छा। प्रकाशो ज्ञानम्। संरम्भः क्रिया। ५ अव्यभिचारात्। ६ सुसूक्ष्मेति
सूक्ष्मतयैवात्र स्थूलदर्शिनां विशुद्धबोधात्मवादिनां विकल्पपक्षीकृतविमर्शानां
भ्रान्तिरित्यर्थः। ७ घटपटादिरूपभेदप्रथारूपायाम्। ८ ननु पूर्वम् ‘आत्मैव
सर्वभावेषु’ इत्यनेन सर्वपदार्थानामात्माकार एव वेद्यतारख्योऽस्ति
शिव इति स्थापितं तदेव समर्थनीयं, कृतमनयोक्त्या ‘स यदास्ते’ इत्या-
दिकया' यतः प्रकृतमपहायान्यद् ब्रुवत उन्मत्तभाषणमिति प्रकृतविघाताख्यं
दोषमाशङ्क्याह न परमिति। तत्रादौ शक्तिमत्स्वरूपमेव व्यवस्थापितं,
तस्मिंश्च सिद्धे मूलकारणेऽन्यद्वर्ण्यमानं निर्भित्तिचित्रन्यायेनान्यथा घटमानं
सेत्स्यतीति भावः।

१. प्रथम-द्वितीय आह्निक: शिव-पारमार्थिक स्वरूप, स्वातन्त्र्य एवं सर्वमयता

आ०-१ ] उत्पलदेवकृतवृत्त्योपेता ७
न केवलं परापराद्यनाविर्भाव एवैवं नियमो¹, यावदपरावस्था-
यामपि । सर्वविकल्पादिज्ञानानामग्रत उत्पित्सावस्थायां² ज्ञानज्ञेयानाबिल-
ज्ञातृस्वरूपसंस्पर्शोऽवश्यंभावीति तदवस्थास्वपि परव्यवस्था । यद्यपि³ तदा
पुर्यष्टकलक्षणज्ञातृवस्थानात् सौषुप्तवत् न परावस्था, तथापि यदा ज्ञानाग्र-
भागेषु विश्राम्यति क्वचित्, तदा परता । न च प्रमाणभूमौ विश्रान्तिस्तत्रापि
प्राणस्पन्दनात्मकज्ञेयव्याकुलितत्वात् । ततः प्राणादिज्ञेयज्ञानस्यापि अग्रतो
विश्रान्तिः । वस्तुतः सौषुप्ताग्रभागिनी परता स्थितैव, लक्ष्यते च प्रकाश-
स्यालक्ष्यमाणत्वाभावात्, तथा फलेऽपि मयैतज्ज्ञातमिति प्रमाणफलभूत-
ज्ञानान्तरोदये तदा ज्ञानमात्रे निर्वृत्तिमति विश्रान्तया । अथवा यथा समग्र-
ज्ञानानामारम्भे, तथा फले परिसमाप्तौ तत्रैव विश्रान्तया । तद्विश्रान्तिं⁴
विना अर्थो ज्ञात एव न भवति । समग्रत्वमनेकप्रकारकत्वेन⁵ ज्ञानानां मध्य-
दशायामेव प्रत्यगात्मत्वेन । पूर्वापरकोट्योस्तु एकविशुद्धशिवतैव सर्वेषाम् ।
एतच्चेश्वरप्रत्यभिज्ञायां परीक्ष्यम् ॥ ५ ॥
सर्वत्र शक्तिपञ्चकस्वभावमुपसंहरन्नाह--
एवं⁶ न जातुचित्तस्य वियोगस्त्रितयात्मना ॥ ६ ॥
शक्त्या निर्वृत्तचित्तस्य तदभागविभागयोः ।
एवमुक्तप्रकारेण त्रितयात्मना इच्छाज्ञानक्रियारूपया शक्त्या न
वियोगः कदाचिदपि निर्वृत्तं चित्तं चिद्रूपत्वं निर्विवादं यस्य तथा चिदा-
नन्दशक्त्योः परापराद्यवस्थास्वपि समर्थनात्⁷ । केवलं परावस्थायामेषित-
व्याद्यभावादिच्छाद्यभावशङ्कायां तत्संभवो निगमितश्चिदानन्दानुवादेन⁸ ।
तासां शक्तीनामविभागविभागयोः परत्वापरत्वावस्थाभेदेषु ज्ञेयादिसद्भावे
शक्तीनां विभागव्यवहारात् तस्य प्रमातुरिच्छादिशक्तिभिर्न विरहः ॥ ६ ॥
१ सर्वशक्तिसामरस्यस्वरूपशक्तिमदवश्यंभावः । २ उत्पतितुमिच्छा
उत्पित्सा । ३ ननु चास्तु तत्र ज्ञानज्ञेयानाबिलज्ञातृरूपस्पर्शस्तथापि
कथं परव्यवस्था, नहि तेनैवं तद्भावः, अस्ति च तादृक्स्वरूपं सौषुप्तं,
यतो मलेन न्यक्कृतः कलया तु प्रबुद्ध इवात्र तन्न्यक्कारेण सुष्ठु सुप्त इति
तत्रापि ज्ञातृवस्थानेऽपि सुषुप्त इति कथ्यत इत्याशयेनाह यद्यपीति ।
४ यथोक्तं वृत्तिकृतैव । ५ का पुनरपरावस्था इत्याह ।
६ एवमिति अपूर्वप्रक्रियया सिद्धेऽर्थे सति । ७ तथाहीत्यादिना ।
८ निगमावयवेन निश्चायितः । ९ परावस्थायां पुनरित्यादिना ।

८ शिवदृष्टिः [ आ०-१
विभागे यथा शक्तिपञ्चकस्थितिस्तथा वक्तव्यं, तत्क्रमेणाह--
यदा$^१$ तु तस्य चिद्धर्मविभवामोदजृम्भया ॥ ७ ॥
विचित्ररचनानानाकार्यसृष्टिप्रवर्तने$^२$ ।
भवत्युन्मुखिता चित्ता सेच्छायाः प्रथमा त्रुटिः ॥ ८ ॥
चिद्रूपस्य शिवभट्टारकस्य धर्मः स्वभावो यो विभवः पञ्चविधकृत्य-
निर्वृत्तियोग्यता, तस्यामोदश्चमत्कारस्तथास्वरूपपरामर्गरूपस्तस्य जृम्भा
विश्वात्मतया विकसनम् । यदुक्तं मया स्तोत्रे--
'स्फारयस्यखिलमात्मना स्फुरन्
विश्वमामृशसि रूपमामृशन् ।
यत्स्वयं निजरसेन घूर्णसे
तत्तमुल्लसति भावमण्डलम् ॥'
( उ० स्तो. १३ स्तो. १५ )
इति । घूर्णनं जृम्भोक्ता, तया जृम्भया हेतुभूतया स्थितस्वरूपस्यैव मायीया-
भेदाख्यातिवैचित्र्यरचनोपलक्षिता तत्स्वभावा या नानाकार्यसृष्टिः,
तत्प्रवर्तने यदोन्मुखिता उन्मुखवदाचरिता वस्तुतो द्वितीयाभावात् नैरपेक्ष्ये-
णान्तर्मुखित्वात् चित्ता चैतन्यमेव, तदा सा त्रुटिः सूक्ष्मकालपरिच्छिन्न
इच्छाप्रथमभागः । अत्र$^३$ चैतावच्छक्तिकलापो व्यवहर्तॄणां परमार्थपद्मारु-
१ इत्थं शुद्धबोधस्वरूपात्मनि शिवतत्त्वे शक्तिपञ्चकमैक्यापादनाय
समर्थितं, तत्प्रसङ्गेन चापरावस्थायामपि तस्य तादृग्रूपताप्रतिपत्तिदार्ढ्यार्थं
पुनरपि समर्थितमिति सिद्धं परशिवापरनरावस्थायां शक्तिपञ्चकसाम-
रस्यात्मकं पूर्णमेवानन्दमयं चित्स्वरूपमास्त इति । तत्र या पुनः परापरा
स्पन्दात्मिका शक्तिलक्षणावस्था, तत्रापीच्छादिपञ्चकसंभवं साधयति यदा
त्वित्यादिना ।
२ अयमेव ह्यस्यान्यवादिन्यो विशेषः--
'सर्गसंहृतिकर्त्तारं प्रलयस्थितिकारकम् ।
अनुग्रहकरं देवं वन्देऽहं भक्तवत्सलम् ॥'
इति ।
३ 'सक्रमत्वं हि लौकिक्याः क्रियायाः कालशक्तिः ।
घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव ॥' ( ई० प्र० २।१।२ )
इति नीत्या यथा प्रभोः सक्रमत्वमसंभाव्यं, तथा तच्छक्त्या अपि स्वातन्त्र्ये-

आ०-१ ] उत्पलदेवकृतवृत्त्योपेता ६
रुक्षतां संभाव्यत इत्येवं निर्दिश्यते, न तु मायातत्त्वादूर्ध्वं कालविभाग-
संस्पर्शः । अथवा मायोर्ध्वेऽपि परापररूपत्वादवस्थाविशेषस्य कालविभागो-
ऽपि¹ स्यादित्यत एव त्रुटिरित्युक्तम् । सर्वं चैतत्प्रत्यभिज्ञायामुक्तम् ॥७-८॥
सा च दृश्या² हृद्देशे कार्यस्मरणकालतः ।
प्रहर्षवेदसमये³ दरसंदर्शनक्षणे⁴ ॥ ९ ॥
अनालोचनतो⁵ दृष्टे विसर्गप्रसरास्पदे ।
विसर्गोक्तिप्रसङ्गे च वाचने धावने तथा ॥ १० ॥
एतेष्वेव प्रसङ्गेषु सर्वशक्तिविलोलता⁶ ।
सा च सूक्ष्मोन्मुख्यशक्तिरूपा लक्ष्या हृत्प्रदेशे पूर्वचिकीर्षितविस्मृत-
कार्यस्मरणे, तथा प्रहर्षहेतुपुत्रजन्माद्यावेदनकाले, दरस्य भयस्य संदर्शन-
प्रारम्भक्षणे, अनालोचनतः सहसैवेष्टे दृष्टे, चरमधातुविसर्गस्थाने, तथा
च्छारूपाया इत्याशङ्क्याह अत्र चेत्यादि । कालयोगाद्धि तस्या अनित्यतापि
भवेदित्यर्थः । अथवा पक्षान्तरेण तां युक्त्याङ्गीकरोति 'मायोर्ध्वं' इति, तेन
परापरतयेदन्तोन्मेषे तत्रावश्यं सूक्ष्मकालशक्तिरस्त्येवेति भावः ।
१ अपिशब्देन विद्युदाभासवदस्यावस्थानं द्योतयति । २ दृश्या
स्फुटं लक्षणीया । ३ प्रियतमपुत्रमृतोत्थितिवार्ताश्रवणकाले । ४ भयारम्भ-
प्रथमक्षणे । ५ अश्रुतपूर्वाश्चर्यवस्तुनोऽकस्माद्दर्शने । ६ एवं वा निर्मातृता-
मयी अभ्युपगमलक्षणा प्रमातृता सैवेच्छा । सा च सहृदयानां स्वसंवेदन-
सिद्धत्वादपह्नुतस्वभावैव स्थिता—यथा गच्छामीत्यादौ सामान्यरूपत्वेन
यद्गन्तव्यादिकं ग्राह्यं शरीरेन्द्रियप्राणबुद्ध्यादि, विशेषानुल्लेखेन च यत्
ग्राहकं, तदन्योन्याभासासामान्यलक्षणं पश्यन्तीशब्दवाच्यमिच्छालक्षणं
प्रसरं विविच्य, तत्प्रत्यभिज्ञोपायं प्रबुद्धान्प्रति विषयाभिव्यक्तिपूर्वमाह सा
चेत्यादि । एतच्च—
'अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् ।
धावन् वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः ॥' ( १।२२ )
इत्यादिना स्पन्दे संगृहीतम् । तथा—
'कामक्रोधैलोभमोहमदमात्सर्यगोचरे
बुद्धिं निस्तिमिरां कृत्वा तत्सत्त्वमवशिष्यते ॥ ( वि० भै० १०१ )

१० शिवदृष्टिः [ आ०-१
विसर्जनीयभाषणप्रसङ्गे, त्वरितग्रन्थवाचने, धावनविधौ चेति¹ । एतेष्वेवाव-
सरेषु सा पूर्वोक्तक्रमेण सर्वशक्तीनां विलोलता मिश्रीभावः ॥ ६-१० ॥
सुखदुःखात्मकत्वेनाशुद्धत्वाद्धेयेऽस्मिन्कार्ये कथमोन्मुख्यमित्याशङ्कां
निवारयन्नाह—
कुत्सितेऽकुत्सितस्य² स्यात्कथमुन्मुखतेति चेत् ॥ ११ ॥
रूपप्रसाररसतो³ गर्हितत्वमयुक्तिमत्⁴ ।
पञ्चप्रकारकृत्योक्तिशिवत्वान्निजकर्मणे ॥ १२ ॥
प्रवृत्तस्य निमित्तानामपरेषां क्व मार्गणम् ।
आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात् ।
आनन्दमुद्गतं ध्यात्वा तल्लयस्तन्मना भवेत् ॥ ( वि० भै० ७१ )
क्षुताद्यन्ते भये शोके वारे विद्रुते रणे ।
कुतूहले क्षुधाद्यन्ते ब्रह्मसत्ता समीपगा ॥' ( वि० भै० ११८ )
इति । अयमत्र भावः—सर्वशक्तिपरिपूर्णतात्मकं चितो यद्रूपं, तद्यदा
स्वातंत्र्यात् संवित्स्वभाव आमृशति, तत उन्मुखीभूतायां चिद्रूपतायां
तत्प्रसरप्रथमविकासलक्षणायामिच्छाकलिकायां स्थितः सर्वाविभागेन स्थितिं
भाविन उपयोगिरूपस्य प्रमातृप्रमाणप्रमातव्यवर्गस्य विमृशन् भाविभेदाः
शक्तीरभेदकल्पेनैव पिण्डीकृताः सतीर्गोलकशिम्बिकादिविकल्पेनोत्थापयति,
तत एव च भाविनियतक्रमककार्यं जायते—यथा श्लोकं स्मरेयममुमिति
सुस्मूर्षयैकयैव मध्यवर्तिषु वर्णपदादिषु प्रत्येकस्मृतिसन्ततिप्रबोधकारणमेषण-
मन्तरेणैव नियतक्रमकस्मरणपरम्परोदय इति ।
१ यदि हि धावनादौ अभिन्नस्य प्रमातृप्रमेयरूपस्यानिर्देशितविभाग-
स्यापि वस्तुतः प्रकाशो न स्यात्, तत्त्वरितं लिपिपाठे, वेगसरणे, त्वरिता-
भिधाने, रेखातो रेखान्तरं देशाद्देशान्तरं स्थानकरणादेः स्थानकरणान्तरं
च गच्छतस्तांस्तांस्त्यक्तव्यांस्त्यक्तवतोऽपरामर्शतस्तयोस्त्यागादानयोः कर्त्ता-
रमनभिमृशतस्तानि विचित्राणि त्यागोपादानानि कथं भवेयुः परामर्शपूर्व-
कतयैषां दृष्टत्वात् । तदिमानि भवन्ति स्वकारणमनुमापयन्ति, न चासौ
भेदेनैव परामर्श एषामिति । भेदेन हि परामर्शो वाचिकमानसपरिस्पन्दपर-
म्परातोऽभिलापसंकेतस्मरणप्रबन्धसद्भावे त्वरिततैव न निर्वहेत् ।
२ स्वस्वरूपानन्दविश्रान्तस्य । ३ स्वरूपप्रसरणमेवास्यानन्दास्वाद
इत्यतः । ४ अयुक्तिमदयोग्यमित्यर्थः ।

आ०-१ ] उत्पलदेवकृतवृत्त्योपेता ११
'मायाशक्तिकृतपूर्णस्वरूपाख्यातिमयचित्रकार्यतापन्नस्वरूपप्रसरण-
रसात्२ प्रभोरस्य तद्रूपस्य३ कार्यभेदस्य कुत्सितत्वमयुक्तम् । तथाहि परा-
परावस्थायां४ सदाशिवेश्वररूपत्वे विश्वमहमिति विश्वरूपत्वमेव संविदि
स्फुरति५ । अपरावस्थायामपि६ अहं घटमिमं वेद्मि घटोऽयमिति वा
द्वैतदृष्टौ चिदात्मकतां७ विना प्रकाशमानतैव नोपपद्यते इति तद्रूपतैव८,
किंतु९ मायाशक्तिवशादभेदापरामर्श१० इति सर्वदा११ स्वरूपप्रसरणमेवेति
कथं गर्हितत्वम् । अभेदापरामर्शनमेव भ्रान्तिरूपं कुत्सितं, तच्च१२ न
१ मीनाति पशुप्रमातॄनिति माया, सा चासौ शक्तिः । तेन
परमेश्वरस्य स्वातंत्र्यमेव यच्चिकीर्षालक्षणं, तेनाहमित्यखण्डितेऽपि स्वरूपे
भासमाने या तत्रैवेदमिति प्रतीतिः स्वरूपप्रसरणरूपा, सैव मायाप्रमातॄन्प्रति
मायाशक्तिः ।
२ तेन शक्तिमता स्वस्वातन्र्यरूपया मायाशक्त्या कृता या पूर्णस्या-
ख्यातिरिदमहमिति । ३ स्वरूपप्रसरणरूपस्य ।
४ परापरावस्थायां सदाशिवेश्वररूपत्वे । यद्यत्र शुद्धविद्यास्वरूपो-
न्मीलनं न कृतं, तथापि तदभावोऽपरावस्थात्वं तस्या न मन्तव्यं, यतो यथा
शिवतत्त्वस्य यदौन्मुख्यं सा शक्तिरिति भण्यते न परावस्थायां शिवतत्त्वात्
पृथग्गणनीयतां गता, तथा सदाशिवेश्वरयोरपि बहिरौन्मुख्यं विद्येति
भण्यत इति न तस्याः पृथगिह निर्देशः ।
५ तेन नात्र कापि कुत्सितत्वशङ्केत्यर्थः । ६ अत्रेमं घटमिति यदि
प्रमातृविश्रान्तः प्रकाशस्वरूपो न स्यात्, तर्हि अहमित्यत्राहन्ताश्लिष्टः कथं
भासेत । ७ नन्वस्तु सूक्ष्मो विमर्शोऽहन्ताविश्रान्तत्वादहं घटमिमं वेद्मी-
त्यत्र प्रकाशस्वरूपावेश्येव, यत्राहन्ताविश्रान्त्यभावात् स्थूलत्वेन घट
इति अयमिति च विकल्परूपता; तत्र शब्दोऽपि नीलवत्पृथगेव प्रतिभासते,
तत्र कथं प्रकाशात्मतेत्याशयगर्भीकारेणाह चिदात्मकतां विनेत्यादि । उक्तं
च प्रत्यभिज्ञायां--
'घटोऽयमित्यध्यवसा नामरूपातिरेकिणी-
परेशाशक्तिरात्मेव भासते न त्विदन्तया ।।' ( १।५।२० )
इति । ८ तद्रूपता चिद्रूपता । ९ यद्येवं, तर्हि केयमपरा नाम वराकीत्याशये-
नाह किंत्विति । १० इदन्तया भेदेनैव परामर्शः । ११ सर्वदेति परापरादौ ।
१२ तत् कुत्सितत्वम् । तथा च कुत्सितं स्वरूपव्यतिरिक्तत्वात्स्यादिति ।

१२ शिवदृष्टिः [ आ०-१
किञ्चित् अख्यातिरूपमात्रत्वात् । न तत्पूर्वस्य कस्यचित्प्रथा१ । विश्वा-
त्मत्वं च चिन्मयस्य प्रतिबिम्बानामिव२ दर्पणपरमार्थत्वेन भावानां
स्वच्छचिन्मात्रसतत्त्वतयावस्थानात् । एतच्च सर्वमीश्वरप्रत्यभिज्ञाटीकायां
निपुणमालोचितम् । सर्गस्थितिप्रलयानु३ग्रहतिरोधानलक्षणपञ्चप्रकारं
कृत्यं यस्य तस्योक्तिः पञ्चविधकृत्यो यदुच्यते तच्छेवत्वं ततः निज-
कर्मणे तत्त्वादिरूपप्रसरणरूपाय४ प्रवृत्तस्य निमित्तानां५ दयादीनां क्व
मार्गणं निमित्तान्वेषणप्रसङ्गस्यैवाभावात् कथमेवं प्रसरतीति न चोद्यमिति
तावदकुत्सितविषयमेवौन्मुख्यमिति समर्थितम्६ ॥ ११-१२ ॥
तदिदानीं निदर्शनेन स्फुटीकर्तुमाह—
गच्छतो निस्तरङ्गस्य जलस्यातितरङ्गिताम् ॥ १३ ॥
आरम्भे दृष्टिमापात्य तदौन्मुख्यं हि गम्यते ।
व्रजतो मुष्टितां पाणेः पूर्वं कम्पस्तदेक्ष्यते ॥ १४ ॥
१ प्रथा–प्रसरणम् । २ प्रतिबिम्बेति, यथोक्तमीश्वरप्रत्यभिज्ञायां—
‘स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् ।
अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते ॥’ ( १।५।१० )
इति ।
३ बीजाङ्कुरादौ यो मायीयो व्यवहारो लौकिकदृशा भासते, स
तिरोधित्कृतः । यस्तु तत्रापि पारमार्थिकतयैव स्थितः, सोऽनुग्रहशक्ति-
कृतः । एतदेव हि अस्यान्यवादिभ्यो विशेषः, यत्सततमेव पञ्चकृत्यविधान-
मिति यदुक्तं—
‘मुहुर्मुहुरविश्वान्तस्त्रैलोक्यं कल्पनाशतैः ।
कल्पयन्नपि कोऽप्येको निर्विकल्पो जयत्यजः ॥’ (स्त० चि० ११२ )
इति । ४ सृष्ट्यादिरूपेण तत्त्वादिप्रसरणं, तत्र पारमार्थिककाल्पनिककार्य-
कारणभावादौ तिरोध्यनुग्रहशक्ती । ५ निमित्तानामिति । यदाहुरेके
‘ईश्वरः स्वात्मन्यवाप्तसर्वकामः, किमस्य सृष्ट्यादिना फलमिति । सर्वो
हि यः कश्चित्प्रवृत्तिकारी प्रयोजनमुद्दिश्यैवाभिमुखीभवति, तच्चास्या-
वाप्तकात्वान्न संभाव्यम्’ इति भगवांल्लोकानुग्रहार्थमेव प्रवर्तते इति
कथने दुःखमयीं कस्मात् सृष्टिं कुरुते दयालुत्वात्तस्येति दयादीनां निमित्तानां
क्वास्मिन्नये पर्येषणा ।
६ समर्थितमिति—अशक्यसाधनमपि साधितम् ।

आ०-१ ] उत्पलदेवकृतवृत्त्योपेता १३
बोधस्य स्वात्मनिष्ठस्य रचनां प्रति निर्वृतिः ।
तदास्थाप्रविकासो यस्तदौन्मुख्यं प्रचक्षते ॥ १५ ॥
किंचिदुच्छूनता सैव महद्भिः कैश्चिदुच्यते ।
तस्येच्छा कार्यतां यातः यया सेच्छः स जायते ॥ १६ ॥
औन्मुख्यस्य य आभोगः स्थूलः सेच्छा व्यवस्थिता ।
न चौन्मुख्यप्रसङ्गेन शिवः स्थूलत्वभाक् क्वचित् ॥ १७ ॥
यथा जलस्य पूर्वं निस्तरङ्गस्यातितरङ्गितां गच्छतः सूक्ष्मः पूर्वः
कम्प औन्मुख्यरूपः, पाणेश्च मुष्टितां गच्छतः पूर्वः सुसूक्ष्मः कम्प्रो दृश्यते,
तथा बोधस्य स्वरूपस्थस्य पूर्णस्य विश्वरचनां प्रति अभिलाषमात्ररचना-
योग्यताया यः प्रथमो विकासः प्रवृत्त्यारम्भस्तदौन्मुख्यं प्रचक्षते । प्रवृत्त्या-
रम्भश्च निर्वृतावप्यभेदाख्यातिधर्मत्वेन तस्याः १ प्रथनात् । यदेतदौन्मुख्यं,
सैव किंचिदुच्छूनता कथ्यते भट्टप्रद्युम्नेन तत्त्वगर्भे । अन्यैरपि तरङ्गो-
र्म्यादिशब्दैरपि । तस्यौन्मुख्यस्येच्छा कार्या । तस्य हि योऽसावाभोगो
ज्ञानादिकार्योत्पादनसमर्थो विस्तृतो दाढर्यमय उत्तरो भागोऽत एव
रचनास्थाविकासदाढर्यात् स्थूलः, सेच्छा व्यवस्थिता । न चोच्छूनतादि-
व्यपदेश्यौन्मुख्यप्रसङ्गेन शिवो बीजमिव स्थौल्यभाक् । इच्छाद्य२-
सद्भावे वा अन्यत्र क्वचित् वस्तुतो न स्थौल्यं चिदात्मनः प्रतिबिम्ब-
कल्पैर्भावैरनाधिक्यात् । नापि तदात्मताप्रथा भ्रान्तिरिति३ सर्वमुक्तं
टीकायाम् ॥ १३-१७ ॥
व्यावहारिकोऽपि नास्त्येवमादौ भेदस्तथापरामर्शानिवृत्तेरित्याह—
गोः स्तनात्पाततः क्षीरे विकारस्तत एव हि ।
न च न क्षीरमित्येष व्यपदेशोऽस्ति तत्क्षणम् ॥ १८ ॥
गोः स्तनात् पातात् क्षीरे विकारस्तत एव तदनन्तरमेव । न च
तत्क्षणं तत्र न क्षीरपरामर्शो, यावत्परामर्शैक्यं तावत्सर्वदैक्यमेव ॥ १८ ॥
१ तस्या निर्वृतेः ।
२ निराकाङ्क्षतादशायाम् ।
३ आभासमानत्वात् ।

१४ शिवदृष्टिः [ आ०-१
एवमौन्मुख्यमिच्छायां उक्तमिदानीमुपपादयन्नाह--
यत इच्छति तज्ज्ञातुं कर्तुं वाहेच्छया क्रियाम् ।
तस्याः पूर्वापरौ भागौ कल्पनीयौ पुरा हि या ॥ १९ ॥
तत्कर्मनिवृत्तिप्राप्तिरौन्मुख्यं तद्विकासिता ।
यस्मादिच्छति ईश्वरो ज्ञातुं वा कर्तुं वा इति यदुच्यते, तदाख्यात-
पदमिच्छया इच्छालक्षणां क्रियामाह । तस्या इच्छायाः पूर्वापरौ भागौ
कल्पनीयौ पूर्वापरीभूतावयवत्वात् क्रियायाः१ इच्छायाः क्रियात्वाभिधानेन ।
इच्छादीनामन्योन्यात्मता शक्त्यवस्थायां सुतरां स्यात् । ततश्च परमार्थत
एकैव शक्तिः शक्त एवास्तीति प्रतिपादितम् । उत्पत्तिकथायां तु इच्छायाः
पुरोभागे या तस्मिन् कर्मणि तत्कर्मनिष्ठा निर्वृत्तिप्राप्तिः, तदौ-
न्मुख्यं२, कर्मावच्छिन्ना निर्वृत्तिरौन्मुख्यम्, अनवच्छिन्ना निर्वृत्तिमात्र-
मानन्दशक्तिरिति यावत् । तदौन्मुख्यं विकासिता चिदास्थाप्रविकास
इत्युक्तम् ॥ १६ ॥
अनन्तरं हि तत्कार्यज्ञानदर्शनशक्तिता ॥ २० ॥
ज्ञानशक्तिस्तदर्थं हि योऽसौ स्थूलः समुद्यमः ।
सा क्रियाशक्तिरुदिता ततः सर्वं जगत्स्थितम् ॥ २१ ॥
परतस्तस्मिन् विश्वलक्षणे कार्ये यज्ज्ञानं, तत्प्रकाशनशक्तिरूपता
चिदात्मनः सर्वप्रतिपत्तॄणामवेद्यमन्तःकरण इव प्रकाशमानं तत् कार्यं यतः-
सा ज्ञानशक्तिः । अनन्तरं सर्वप्रमातृवेद्यस्थूलकार्यकारसंपत्तिफलः समुद्यम
इच्छाविषय एव क्रियाशक्तिः । तत एव परिसमाप्तिः व्यवहार्यकार्यलाभा-
दित्युक्तं ततः सर्वं जगत्स्थितमिति ॥ २०-२१ ॥
न केवलं जगन्निर्माण एवैवं, यावदेकैकघटकरणकालेऽपि एवं शक्ति-
रूपतेत्याह--
एवं सर्वसमुत्पत्तिकाले शक्तित्रयात्मता ।
न निवृत्ता, न चौन्मुख्यं निवृत्तं, नापि निर्वृत्ति ॥ २२ ॥
१ तदुक्तं--
'गुणभूतेरवयवैः समूहः क्रमजन्मनाम् ।
बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥'
इति । २ पूर्णानन्दस्वरूपभेदाख्यातिरित्यर्थः ।

आ०-१ ] उत्पलदेवकृतवृत्त्योपेता १५
इच्छाज्ञानक्रियात्मता तावत्सिद्धा१ घटादिकरणकाले । औन्मुख्य-
मपि इच्छापूर्वभागोऽस्ति कर्मावच्छिन्नविशिष्टनिर्वृत्तिरूपः । अन्याप्य-
नवच्छिन्नानन्दरूपा निर्वृत्तिरनिवृत्ता, तदभावे विशेषनिर्वृत्तेरभावात्२
तथा बोधाभावे विशिष्टघटादिबोधस्य३ । अत एव निर्वृत्तिविशिष्टरूपता-
प्राप्तिरिति प्राप्तिग्रहणं पूर्वं४ कृतम् । यदि वा निर्वृत्तिशब्देन पूर्णचिच्छक्ति-
रुपात्ता शक्तिपञ्चकाय ॥ २२ ॥
एकशक्त्यभावेऽपि कार्योत्पत्तिर्न स्यादित्याह--
यदेकतरनिर्याणे५ कार्यं जातु न जायते ।
तस्मात्सर्वपदार्थानां सामरस्यमवस्थितम्६ ॥ २३ ॥
यस्मादेकतरस्य शक्तिभेदस्य निर्याणे अपाये कार्यं न कदाचित्
स्यादित्युकतं, तस्मात् सर्वपदार्थानामुत्पत्तिक्राले सर्वतत्त्वमयशिवतत्त्वो-
पयोग इति न कदाचनापि शिवरूपसंस्पर्शविरहिता, महासर्गप्रारम्भ
इव भावानामेकैकस्य निर्याणेऽपि परमेश्वरस्पर्शोऽखण्डित एवेति
सामरस्यम् । कुम्भकारस्यापि घटकरणे सर्वशक्तिशिवात्मता, तद-
परिज्ञानात्तु कुम्भकारतेत्यर्थः । एकतरेति तरप्पाठः औन्मुख्यनिर्वृत्ति-
द्वित्वापेक्षया ॥ २३ ॥
न केवलं घटादिकरणकाले सर्वशक्तिसंभवः, यावत् ग्रहण-
कालेऽपीत्याह--
घटादिग्रहकालेऽपि घटं जानाति सा क्रिया ।
जानाति ज्ञानमत्रैव निरिच्छोर्वेदनक्षतिः ॥ २४ ॥
औन्मुख्याभावतस्तस्य निवृत्तिर्निर्वृतिं विना ।
द्वेष्ये प्रवर्तते नैव न च वेत्ति विना चितम् ॥ २५ ॥
घटादिज्ञानकाले यत् घटं जानाति--चिदभेदाख्यातिवैचित्र्य-
भिन्नघटदेवदत्तात्मकवेद्यवेदकाभासनं नाम यत् क्रमिकपूर्वं रूपं सा ज्ञान-
१ नात्र व्यभिचारः । २ औन्मुख्यरूपायाः । ३ अभावः । ४ तत्कर्म-
निर्वृत्तिप्राप्तिरित्यत्र । ५ निर्याणेऽपगतौ । ६ सर्वपदार्थानामुत्पत्तौ शक्ति-
मदात्मकं स्थितमेव ।

१६ शिवदृष्टिः [ आ०-१
लक्षणा क्रिया पूर्वापरीभूतावयवा, न तु जानामीति¹ वचनप्रवृत्तिकाल
एव । जानातिरूपत्वाज्ज्ञानमत्रैव क्रियात्मनि स्थितम् । निरिच्छोर-
वधानरहितस्य वेदनं न भवेत् मनसानधिष्ठानात् । अवधानवद्दर्शनमेव
इच्छा । तत्र च इच्छाक्रियापूर्वभाग औन्मुख्यं तत्कर्मनिवृत्तिः । तदौ-
न्मुख्याभावतस्तस्य प्रमातुर्वेदनस्य वा निवृत्तिः नहि औन्मुख्यरूपां
तत्कर्मनिवृत्तिं विना द्वेष्ये प्रवर्तते । न च चित्तमभेदप्रत्यवमर्शशक्तिरूपां
विना पूर्णशुद्धबोधात्मा कर्ता वेत्ति घटादीन् संविन्निष्ठत्वा-
द्विषयव्यवस्थितीनाम् । सैव चिच्छक्तिः सामान्या निवृत्तिशक्त्यरा-
नन्दरूपा ॥ २४-२५ ॥
ज्ञानकाले शिवत्वाभावमाशङ्कमान आह—
बुद्धिं² विना कथं बोधः सा³ बुद्धिः प्रकृतेः प्रजा ।
न च⁴ तस्य तया योग इति चेदपरस्थितौ⁵ ॥ २६ ॥
सा बुद्धियंतं पुनः सूक्ष्मं⁶ सर्वदिक्कं व्यवस्थितम्⁷ ।
ज्ञानं बोधमयं तस्य शिवस्य सहजं सदा⁸ ॥ २७ ॥
१ जानामीत्यविच्छिन्नाभासः, जानातीति तु विच्छिन्नाभासः ।
२ नन्वत्यल्पमिदमुच्यते यज्जानातीत्यपरज्ञानकालेऽभेदाख्यातावपि
वेद्यवेदकक्षोभे सर्वशक्तिसंपूर्णपूर्णानन्दविश्रान्तशिवतत्त्वोपयोग इति यावता
घटादिग्रहकाल इति ज्ञानमत्रैवेत्युक्तं, तथा च सति कोऽयं घटादिग्रहकालो
नामेति । तथा यदि तत्रापि शुद्धमेव ज्ञानं, तर्हि कृतं विषयव्यवस्थाकल्पितेन
बुद्ध्यादिना । यदि च तत्राप्यस्त्येव तत्तत्त्वोपयोगः, तर्हि कथं तस्य नैर्मल्येन
संभव इति परव्यामोहदलनायाह बुद्धिमित्यादि । यदत्र केचनात्यल्पदृशो
विप्रतिपन्नाः—तस्मिन्नपि शुद्धबोधे स्वप्रकाशे यदि स्वात्मोच्छलत्तात्मकं
ज्ञानमङ्गीकृतमनुभूयते, तत्बुद्धिव्यापारात्मकत्वात् सर्वथा बुद्धिविलासास्त-
मयस्यैव स्वरूपप्राप्तिलक्षणत्वाद्विकल्पनमेव । यत्तु सर्वथा तदभाव एव, स
एव सत्यस्वरूपप्राप्त्या परमार्थमोक्ष इति तद्व्यामोहेन मा व्यामुह्येयुरित्या-
पूर्वमहानुग्रहपरः श्रीमानाचार्यो बुद्धिं विनेत्यादि । ३ कुत इत्यत्र हेतुमाह
सेति । ४ तथापि किमित्यतो न चेति । ५ भेदग्रह एव । ६ सूक्ष्मं बुद्धि-
ज्ञानाद्यविषयं तत्र बुद्धिज्ञानात्मनो भेदस्य विगलनात् । ७ व्यवस्थितमित्यनेन
विशिष्टस्य प्रमातुः कादाचित्कत्वं ध्वनितम् । ८ अपरपरापरंपरासु ।

आ०-१ ] शिवदृष्टिः १७
न्यायादिभिर्न १ तुल्यत्वं तैर्हि या प्राकृती मतिः ।
तस्या एवात्मधर्मत्वमिष्टं न परबोधके ॥ २८ ॥
एष २ एव हि विज्ञेयो न्याय इच्छां प्रति स्फुटम् ।
ननु जानातीति ज्ञानं बोधो बुद्धिवृत्तिः ३ कथं वृत्तिमर्तो ४ बुद्धिं
विना स्यात् । बुद्धिश्च प्रकृतेः प्रजाता जडा । न च ५ तया तस्य सर्वशक्तेः
शिवतत्त्वस्य निर्मलस्य संबन्ध इत्येवं चेत्, तन्न । अपरावस्थायामभेदा-
ख्यातावेकरसायां पुर्यष्टकप्रमातृणां सा बुद्धिः । यत्पुनः पूर्णतायां परा-
वस्थस्य अत एव सूक्ष्ममभिन्नं वेद्यतामनुपयानमत एव सर्वदिक्कं ६ दिक्का-
लाखण्डितं ज्ञानं बोधमात्रमबोध्यरूपं ७, तत्तस्य शिवस्य सहजं ८
सदा ९ प्राकृतबुद्ध्युल्लासेऽपि तत्सद्भावात् तद्विना १० तदभावात् ।
ननु एवमपि न्यायवैशेषिकादिसाम्यमायाति ज्ञानस्य शिवाश्रितत्वोप-
गमे, ज्ञानं हि तेषामात्मसमवेतमिष्टं ११ शिवश्चात्मरूप इत्युक्तं
१ लब्धावकाशं वितण्डावादिनं प्रतिवादिनं प्रत्याह न्यायादि-
भिरिति । २ इच्छां मनोधर्म इति वैशेषिकमतमाशङ्क्याह एष इति ।
३ अविगलितस्वरूपसतत्त्वस्यैव भावस्य धर्मकल्परूपान्तरच्छायाधारणं
घटस्येवोदकाहरणं चैत्रस्येव गमनं वृत्तिरुच्यते । तथा तद्वृत्तिभेदान्न वृत्तिभेदो
भवति तेनैव रूपेणाबाधितप्रत्यभिज्ञाविषयत्वात् । ४ तत्त्वभेदाभावात् ।
५ नन्वस्तु तस्या जाड्यं, यथा तत्र विषयः प्रतिबिम्बमर्पयति, तथा
पुंस्प्रकाशोऽपि समर्पयति अन्यथा विषयव्यवस्थापि तथा न सिद्धयेत् तथा च
चैतन्यं, न चेति चकारेणैतत्परिहरति । ६ सर्वासु दिक्षु वर्तमानं न तु
तेनावच्छिन्नं, तथा च व्यापकत्वं विघटेत, उपलक्षणमेतत् तेन सार्वकालिक-
मित्यपि बोध्यं, तदाह दिक्कालेति । ७ बोधमयमत्र प्रकृत्यर्थे मयट्
बोधस्वभावमित्यर्थः, तदाह बोधमात्रमिति । तदेव बोधमात्रत्वं यदन्या-
विषयत्वं, तदाहाबोध्यरूपमिति । ८ सहजं स्वरूपप्रत्यवमर्शस्वभावं
नान्यत् । ९ तदेव स्वाभाविकत्वं यत् तत्प्रच्युतावपि भेदावभासे न
तद्धानिरित्याह सदेति । १० विशेषस्य क्षोभाकारस्य सामान्यं विनास्थितेः ।
११ तेषां न्यायवादिनाम् ।
२

१८ उत्पलदेवकृतवृत्त्योपेता [ आ०-१ः
न्यायादिभिरिति१, तैर्न तुल्यत्वं प्राकृत्यां भेददशायां बुद्धियोगात्मनो
ज्ञानस्य तथाभिधानात्, न त्वीश्वरे पररूपे ज्ञातरि, तदुक्तम् एष एव
न्याय इच्छां प्रति स्फुटं ज्ञेयः । इच्छा चितेः प्रत्यगात्माश्रिता भेदमय्येव
उक्ता यान्यैर्मनःसंकल्परूपा२, न तु परमेश्वरस्वभावभूता परापरा-
वस्थास्थिता वा ॥ २६-२८ ॥
सर्वतत्त्वमयतया३ शिवतत्त्वावस्थानमाह--
तदेवं प्रसृतो देवः कदाचिच्छक्तिमात्रके ॥ २९ ॥
बिभर्ति रूपमिच्छात्तः कदाचिज्ज्ञानशक्तितः ।
सदाशिवत्वमुद्रेकात्कदाचिदैश्वरीं४ स्थितिम् ॥ ३० ॥
क्रियाशक्तिसमाभोगात्कदाचित्स्थूलवेदनात् ।
विद्यात्वविद्येशानत्वमन्त्रमन्त्रेश्वरात्मताम् ॥ ३१ ॥
१ 'न चास्य बाह्यकरणैः सिद्ध्यन्ति सकलाः क्रियाः ।
नहि स्मृतिसुखेच्छादौ चक्षुरादीनि साधनम् ॥'
'तेनेच्छास्मृतिसुखदुःखवेदनाना-
माधारो न खलु मनो नचैन्द्रियाणि ।
देहोऽपि व्रजति न तत्समाश्रयत्वं
तेभ्योऽन्यं पुरुषमतः प्रकल्पयामः ॥'
सूत्रकारश्च--'इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्' इति ।
२ न्यायवादिभिः । ३ सर्वतत्त्वमयतयेति, यथोक्तं 'यदिदं
किञ्चिद्गर्भीकृतानन्तविचित्रभोक्तृभोग्यं विभवात्मकं भुवनजातमुक्तं तत्र
यदनुगतं महाप्रकाशरूपं, तन्महासामान्यकल्पं शिवतत्त्वमिति ।' उक्तं च
तन्त्रालोके-
'यान्युक्तानि पुराण्यमूनि विविधैर्भेदैर्यदेष्वन्वितं
रूपं भाति परप्रकाशनिबिडं देवः स एकः शिवः ।
तत्स्वातन्त्र्यरसान्पुनः शिवपदादूर्ध्वे विभाते परं
यद्रूपं बहुधानुगामि तदिदं तत्त्वं विभोः शासने ॥' ( ९।२ )
इति ।
४ ज्ञानशक्तेरुद्रेकात् ।

आ०-१ ] शिवदृष्टिः १६
आत्मप्रच्छादनक्रीडां१ कुर्वतो वा कथंचन२ ।
मायारूपमितीत्यादि षट्त्रिंशत्तत्त्वरूपताम् ॥ ३२ ॥
बिभ्रद्विभर्ति३ रूपाणि तावता व्यवहारतः ।
यावत्स्थूलं जडाभासं संहृतं पार्थिवं घनम् ॥ ३३ ॥
तस्मादेवमुक्तेन क्रमेण स्वरूपानुप्रविष्टचिन्निर्वृतिरूपशक्तिद्वयः
प्रकाशानन्दमयः पूर्णः परमेश्वरः शिवः प्रसृतः कदाचित् प्रथमतः४ ।
शक्तिमात्रक औन्मुख्ये विषयाननुष्वक्ते निर्वृतिमये इच्छापूर्वभागे परापरा-
वस्थारम्भदशायां तदनुरूपं रूपं५ बिभर्ति ध्यायिनां ध्येयम् । कदाचिदि-
च्छात्ः६ इच्छाशक्तिरूपत्वात् निमित्तात् । अथवा इच्छारूपमासाद्य७
तदनुरूपं पूर्ववद्रूपं८ बिभर्ति । कदाचित्पुनः ज्ञानशक्तिरूपत्वात् सदाशिव-
रूपं बिभर्ति । क्रियातो ज्ञाने तु प्रागुक्तनयेनाधिक्यात्९ । ऐश्वरीं तु स्थितिं
कदाचित्क्रियाशक्तेः समाभोगात् पर्यन्तप्राप्तविस्तारात् बिभर्ति । कदा-
चित् परापरावस्थान्तरभिन्नशेषवेद्यवेदकरूपबोधात्मप्रमात्रवस्थया१०
मन्त्रादिरूपतां बिभर्ति । एकान्तभिन्नतैव वेद्यस्य विश्वस्य स्थूलत्वम् ।
१ शिवादिमन्त्रमहेशान्तात्मत्वेनेदन्ताभासस्याहमात्मन्येव विश्रान्तेर्न
किञ्चन स्वरूपान्यथाभाव इति द्योतयितुमात्मप्रच्छादनेत्यादि माया-
रूपमित्युक्तम् । २ केनापि गणनानईेण रूपेणेत्यर्थः । ३ बिभ्रद्विभर्तीत्यनेन
एतादृक्स्वरूपाभासनायामपि न तेषां स्वात्मनि किञ्चन् स्वातन्त्र्यमिति
द्योतनार्थम्, अथवा शक्तिमच्छक्तिरूपतोभयविधत्वमागमेष्वेषां सूचितमेव ।
४ उत्तरतत्त्वापेक्षयात्रापि क्रमः । ५ रूपमधिष्ठातृस्वरूपम् । ६ इच्छात्
इति निमित्तपञ्चमी । ७ इच्छारूपमित्यर्थे ल्यब्लोपे पञ्चमी ।
८ ध्यायिनां ध्येयमित्यर्थः । ९ अन्तःकरण इव वेद्यमिति नयेन ।
१० परापरावस्थायां सदाशिवेश्वररूपत्वेऽन्तरभेदेनैव केवलमिच्छाद्य-
नुगुणविशेषविशिष्टं वेद्यवेदकरूपं बोधात्मैव भासते, तत्रैव सर्वस्मिन्प्रमात्रु-
न्मीलनेन मन्त्रादिरूपता, तत्रापि चानुन्मीलितोन्मीलितन्यायेन विशेषः ।
ननु च किमिदमत्र स्थूलवेदनं नाम, तत्राह एकान्तभिन्नतेति । सा च प्रमात्र-
भिनिवेशेनेति बोध्यम् ।

२० उत्पलदेवकृतवृत्त्योपेता [ आ०-१
प्रमातृणां च बोधात्मत्वेऽपि शिवेच्छातो१ भेदापत्तेः स्थूलत्वम्। अतो२
वेदनस्यापि स्थूलत्वम्३, इदं तु विद्यात्वम्। अन्ये चैनां विद्यां भेदो-
ल्लासात् महामायामिच्छन्ति४ । कदाचिदात्म५प्रच्छादनात्मकाभेदा६-
ख्यातिमयीं संसाररूपां भ्रान्तिं७ क्रीडामेव कथंचन तथास्वभावत्वात्
कुर्वतो मायाशक्तिपरावस्था बीजभूता रूपमिति८ चोक्तानि तत्त्वानि
आदिभूतानि येषां षट्त्रिंशत्तस्तत्त्वानां, तद्रूपतां९ सामान्येन बिभ्रत् तद्विशेष-
रूपाण्यपि बिभर्ति तावता प्रसिद्धव्यवहारनिष्पत्तेः। अप्रसिद्ध१०व्यवहारा-
न्तरमस्तु ईश्वरस्य कार्याणामनियमात्११, तदात्मता तु तेषामपि१२ युक्ति-
युक्ता न बाधितुं शक्या। इत्येतावत् प्रतिजानीमहे१३ षट्त्रिंशत्संख्या
पूर्यते यावत्१४ पार्थिवं तत्त्वम्, तदनन्तरं नोपलभ्यतेऽत्र तथा। पार्थिवं तत्त्वं
स्थूलत्वात् पर्यन्तवर्ति। अनेकसहकारिसंपाद्यविशेषं कारणात्कार्यं स्थूलं

१ ननु चास्या वेद्यवेदकबोधात्मकप्रमात्रवस्थाया अविशेषात् कथं
तत्रानेकप्रमातृतैतत्याह शिवेच्छात इति। २ अतः-—प्रमाणप्रमेययोरधीन-
त्वात्। ३ विद्यात्वविद्येशानत्वमन्त्रमन्त्रेश्वरेश्वरत्मकम्। ४ मायायां हि भेद
उल्लसितोऽत्र तु तदुल्लास एवेति। यदुक्तमागमे--
‘मायोपरि महामाया।’
इति। तेनात्र पर्यायभेद एव न परमार्थभेद इति। ५ स्वातन्त्र्यघनस्यात्मनः
प्रकर्षेणाच्छादनं तद्धानिरूपणम्। ६ अभेदस्याप्यख्यातिरात्मनोऽप्याच्छादम्।
७ भ्रान्तिम्, पुनःपुनर्लौकिकया जननमरणस्वरूपां न तु व्यतिरेकेणाभासनात्
व्यतिरिक्ताम्। ८ अपरैव रूपं रूपप्रसारः। ९ कतिपयकतिपयभेदानुगतं रूपं
तत्त्वम्। ननु किमेतान्येव तत्त्वानि उतापराण्यपि सन्तीत्याह तद्विशेषरूपा-
णीति। १० ननु यदि अन्यान्यपि सन्ति तत्किमिति नोपदिष्टानि इत्याह
तावतेति। अप्रसिद्धेति, सामान्यलोकाविषयम्।
'परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम्।
जडाद्विलक्षणो बोधो यतो न परिमीयते॥’
इति नीत्यापरिच्छिन्नत्वमेव, यत्पुनः षट्त्रिंशत्तत्त्वरूपतां बिभ्रदित्युक्तं
तन्नियमनमव्यवस्था मा भूदिति। ११ 'अपरिच्छिन्नशक्तेः कः कुर्याच्छक्ति-
परिच्छेदम्।' इति नीत्या। १२ कार्याणाम्। १३ प्रतिज्ञां कुर्महे।
१४ यावच्छब्दस्यावाधारणावधिवाचकत्वादिति भावः।

आ०-१ ] शिवदृष्टिः २१
भवति व्यक्ततरत्वात् १ न तु सूक्ष्मम् । महत्तत्त्वेऽपि २ प्रधानादेः कारणस्य
सौक्ष्म्यमेव ३ । तथा चिन्मयत्वात् सर्वस्य यावत्प्रकाशान्वयः । सत्त्वा-
त्प्रभृति जलतत्त्वेऽपि शुक्लप्रकाशवर्णं तावत्कारणता संभाव्या । पार्थि-
वेऽपि तु यावत् तदस्ति चित्रप्रकाशैक्याख्यातिमात्रात् पृथक् ४ प्रकाशा-
त्मत्वेऽपि । तदुक्तम् जडाभासं ५ कार्ष्ण्यात् जडोऽप्रकाश आभासो ६
रूपमस्येति तत् । आकाशादिमहाभूतमयन्तन्मात्र ७ पञ्चक ८ व्यूहनात्मतया
संहतम् ९, अनन्तरं संपर्कान्तरासंभवादन्त्यकार्यम्, अत एव बहूनां संघा-
ताद्घनं स्वदेशान्तरप्रतिबन्धकम् अत्यन्तपरसंमिश्रणासहं १० परिपुष्टद्वैत-
दृष्टिपर्यन्तनिविष्टम् ॥ २६-३३ ॥
अत ११ ऊर्ध्वं यानि भुवनादीनि कार्याणि, तान्येवामेव भूतानां
विभवभूतानि अपरिसंख्येयानि स एव निर्मिमीत इत्याह--
तथा नानाशरीराणि १२ भुवनानि तथा तथा ।
विसृज्य रूपं १३ गृह्णाति प्रोत्कृष्टाधममध्यमम् १४ ॥ ३४ ॥
१ पञ्चत्रिंशत्तत्त्वकारणं हि पार्थिवं तत्त्वं, तथा च तत्तत्सहकारि-
कारणोपस्कृतत्वात्कारणादपि कार्यस्य व्यक्ततरत्वात्स्थूलत्वं कार्यस्य
कारणेऽन्तर्भावात् । २ सर्वानुस्यूतत्वात् । ३ अव्यक्ततरत्वात् । ४ तत्
पार्थिवं तत्त्वं 'नाप्रकाशः प्रकाशते' इति न्यायेन प्रकाशात्मत्वेऽपि चित्रप्र-
काशैक्याख्यातिमात्रात्पृथगेवास्ति । ५ पार्थिवं तत्त्वम् । ६ जलेऽपि शुक्ल-
वर्णाभासादस्त्येव प्रकाशान्वयः, पार्थिवे कार्ष्ण्याभासान्नास्तीत्यर्थः । ७
विशेषाणां सामान्यमूलत्वात्सामान्यकारं तन्मात्रपञ्चकम् । ८ व्यूहनं विशेष-
रचना । ९ संहतं निविडं मिलितम् । शब्दस्पर्शरूपरसगन्धतन्मात्रेभ्यो
व्यूढेभ्यः पार्थिवं तत्त्वमिति । १० जलादिषु ह्येतानि सर्वाण्यसंभाव्यानि ।
तानि ह्यन्यसंपर्कसहनशक्तानि, अघनानि, स्वदेशान्तराप्रतिबन्धकानि
अत्यन्तपरसंमिश्रणासहानि, अत एव न द्वैतदृष्टिपरिपोषकाणि ।
११ ननु किमिदं षट्त्रिंशत्तत्त्वरूपतां बिभ्रदित्युच्यते यावदन्यदपि
विभवात्मकं भुवनजातमस्त्येवेत्याशङ्कयाह अत इत्यादि । १२ भोगसाधनानि
शरीराणि । भुवनानि भोग्यानि । १३ भोक्तारं देवतिर्यङ्मनुष्यरूपम् ।
१४ अयमत्र तात्पर्यार्थः-आदौ ह्यपूर्णम्मन्यतारूपः परिस्पन्दोऽकर्मकमभिलाष-
मात्रं भविष्यदवच्छेदयोग्यतेति । ततोऽपि रागः कर्माविच्छिन्नोऽभिलाषः ।
कर्म तु तत्र कर्ममात्रं, ततोऽपि कर्मभेदविचित्रो बुद्धिधर्मो राग इति । तदिदं

२२ उत्पलदेवकृतवृत्त्योपेता [ आ०-१
एवं यथा विश्वप्रपञ्चतननक्षमं तत्त्वरूपं षट्त्रिंशत्संख्यं कार्यं रूपेण
बिभर्ति, तथा तैरेव तत्त्वैर्जनकसंसारिपुरुषरूपेण निर्वर्तनीयानि न तु साक्षात्
विधातुर्देवादिशरीराणि¹ कार्याणि, केवलं प्रत्यभिज्ञोक्तनीत्या² परस्या-
किंचित्करत्वात्³ स एव स्वकमातापितृभूतादिरूपेण देवादीन् भुवनानि
च तन्निवासरूपाणि विसृज्य, प्रोत्कृष्टादिदेवमनुष्यतिर्यग्योनिरूपं⁴
गृह्णाति ॥ ३४ ॥
शरीरभुवनवासना अन्योन्यानुरूपा गृह्णाति--इत्याह--
स्थानानुरूपतो देहान्देहाकारेण भावनाः ।
आददत्तेन तेनैव रूपेण प्रविभाव्यते ॥ ३५ ॥
अन्योन्यानुरूप्येणैवेषां देवादीनां विलक्षणव्यवहारनिर्वृत्तिः । स च
शरीरादि आददत् तेनैव मायीयेनैव रूपेण उपलक्ष्यते प्रसिद्धः ॥ ३५ ॥
स्वस्वरूपाख्यातेर्नरकादावपि स एवास्तीत्याह--
क्रीडया⁵ दुःखवेद्यानि कर्मकारीणि तत्फलैः ।
संभत्स्यमानानि तथा नरकार्णवगह्वरे ॥ ३६ ॥
मलोपोद्वलितं कर्म संसारवैचित्र्यभोगे निमित्तमिति तद्भोगवास नानु-
विद्धानामणूनां भोगसाधनार्थं शरीराणि स एव सूयत इत्युक्तं तथा
नानेत्यादि । शरीरस्य भोगसाधनार्थं तानि तान्यनेकविधानि वासनानुसारेण
भुवनानि, तदनुसारेण च भोगभुक्त्यन्तं तद्रूपतापरिग्रह इत्युक्तं प्रोत्कृष्टेति ।
१ परमेश्वरस्य सर्वकर्तुः । २ संवेदनस्वातन्त्र्यस्वभावः परमेश्वर एव
विश्वभावशरीरः परमार्थतः सर्वजनकः । कथं तर्हि मातापित्रादेस्तदभिमान
इति चेत्, इदं वक्तव्यं किं शरीरेन्द्रियाणां तत्सामर्थ्यमुत तद्व्यतिरिक्त-
स्यान्यस्य कस्यचित् । शरीरेन्द्रियाणि हि जडस्वरूपत्वाद्ग्रावराशिमध्य एव
निक्षिप्तानि कथं तेषामुत्पत्त्यभिमानः । या पुनस्तद्व्यतिरिक्ता संविन्नाम,
तस्याश्च परमेश्वरसंविदोऽनधिकत्वमिति निर्णेष्यामः । तस्माद्यदत्र केचन
शरणं सामग्रीवादमभ्युपागमन्सोऽपि परमेश्वरस्यैव कर्तृतोपोद्वलक इति ।
३ तत्तत्प्रमातुः कर्तुश्च ।
४ 'अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुष्यश्चैकविधः समासतो भौतिकः सर्ग ॥'
इति तत्तदवान्तरभेदेऽपि त्रिविधत्वमेवेति बोधयन् । ५ उक्तमिदं यत्किंचि-
देतद्भासते, तत्सर्वं परमाद्वयनयोपदेशेन परस्वभावमयमेवेति । तत्र मा

आ०-१ ] शिवदृष्टिः २३
निवासीनि शरीराणि गृह्णाति परमेश्वरः ।
विश्वरचनामयक्रीडास्वभावेन, दुःखरूपतया वेदयिष्यमाणानि नरके,
अथवा दुःखं वेदयिष्यमाणं नरके येषु तानि मायात्मकनियतिशक्तिवशात्
पापकर्मकारीणि इह शरीराणि गृह्णाति, तथा नरक एवार्णवः तत्कुक्षा-
वगाधभीषणे निवासीनि सन्ति तत्कर्मफलैः संबन्धमागमिष्यन्ति ।
परमेश्वरो नरकेऽपि स एवास्ते, न तु तदतिरिक्तः कश्चिदस्तीत्यैक्यमेव
स्थिरीकृतम् ॥ ३६ ॥
एतदेव लौकिकदृष्टान्तेनाह--
यथा नृपः सार्वभौमः प्रभावामोदभावितः ॥ ३७ ॥
क्रीडन्करोति पादातधर्मांस्तद्धर्मधर्मतः ।
तथा प्रभुः प्रमोदात्मा क्रीडत्येवं तथा तथा ॥ ३८ ॥
यथैश्वर्यचमत्कारवासितः सार्वभौमो राजा निरर्गलतया क्रीडया
तल्लक्षणस्वभावापत्तेः पदातिसम्बन्धिचेष्टितानि आचरति, तथा परमेश्वरः
पूर्णत्वात् स्वत आनन्दघूर्णितैस्तैर्भूतभेदात्मभिः प्रकारैरेवमेतत्सदृशं क्रीडति ।
हर्षानुसारी स्पन्दः क्रीडा ॥ ३७-३८ ॥
पूर्वोक्तशक्त्यादितत्त्वमुपसंहर्तुमाह--
इत्थं १ शिवो बोधमयः स एव परानिवृतिः २ ।
सैव ३ चोन्मुखतां याति सेच्छाज्ञानक्रियात्मताम् ४ ॥ ३९ ॥
सैव ५ शाक्तशरीरादिनारकान्तं ६ हि भूतता ।
प्रसूयते स्वचिद्रूपप्रमुखं पार्थिवान्तकम् ॥ ४० ॥
पदार्थत्वेन भगवान्सर्वत्रैव तदात्मता ।
कश्चिद्देवं निषिद्धाचरणेन स्वात्मानमज्ञानी नरके निमज्जयेदित्यतः क्रीड-
येति । अज्ञानी हि चर्यैकायत्तभोगमोक्षोऽतस्तदुल्लङ्घनेनावश्यं नरकपात-
मर्हतीति, तथा परमानन्दघनोऽपि कथं नरकादावास्त इति यत्केचन
भ्रान्तास्तान्प्रत्यद्वयप्रतिपत्तिदार्थ्यार्थमाह क्रीडयेति ।
१ 'आत्मैव सर्वभावेषु' इति नयेन । २ निर्वृतचिदित्यादिना । ३ यदा
तु तस्येत्यादिना । ४ तस्येच्छेत्यादिना । ५ कदाचित्स्थूलवेदनात् विद्यात्वे-
त्यादिना । ६ क्रीडयेत्यादिना ।

२४ उत्पलदेवकृतवृत्त्योपेता [ आ०-१
अनेनोक्तप्रकारेण शिवो भगवान् बोधमात्ररूपः पूर्णो निरपेक्षः
आनन्दात्मा सदैव । तथा मायाशक्तिवशादात्माख्यातिः आनन्दातिरिक्त
इव तत्त्वतामेति जगन्निर्माणेच्छाशिरूपेण स्थातुम् । तस्याः१ क्रियात्वात्
तत्पूर्वभागात्मकोन्मुखतां याति । सा च क्रमेण इच्छाज्ञानक्रियात्मतां याति ।
एतावता निर्मातृत्वेन शाक्तशरीरप्रभृतिनारकशरीरान्तरूपं प्रसूयते२ स एव
जायते । सा च भूतता भूतसर्गः । निजचिन्मात्ररूपशिवतत्त्वादिपार्थिव-
तत्त्वान्तं रूपं पदार्थत्वेन तैस्तैरुच्यमानं भगवान् प्रसूयते । अतः सर्वत्रैव
तदात्मता । युक्तिश्च वक्ष्यते ॥ ४० ॥
भूतसर्गे प्रमातृपञ्चकं निदर्शयन्नाह--
स्वशिवत्वमिवाजानन्पश्चात्मव्यपदेशतः ॥ ४१ ॥
तद्रूपत्वेन३ वा पश्यन्स्थितः शान्त४ इव क्वचित् ।
केवलेशदृढत्वेन५ क्वचित्केवलशंभुता ॥ ४२ ॥
अप्रबुद्धो६ निष्कलश्च क्वचित्प्रलयकेवली७ ।
आत्मबोधो विकलवत्क्वचिद्विज्ञानकेवली८ ॥ ४३ ॥
स्वशिवत्वमजानन्निव पश्चात्मव्यपदेशमासाद्य स्थितः । स्वरूपभेदा
ख्यातिरेव हि मायाशक्तिकृता ग्राह्यग्राहकरूपसंसारात्मतया अवतिष्ठते ।
तत्र ग्राहकः पशुः पुर्यष्टकावच्छिन्नं चैतन्यम् । स एव परिमितत्वादणुः
चैतन्यात्मतया नित्योऽमूर्तश्च९, विश्वात्मतात्यागेनाज्ञः, अस्वातन्त्र्यात्
क्रियागुणरहितोऽनीश्वरश्च वेद्यपुर्यष्टकात्मनि भिन्न इव रागितया
भोगोपायविचिन्तको, मायाकृतत्वात्१० मायोदरान्तःस्थः । स्वशिवत्वाज्ञानं
१ तस्या इच्छायाः । २ स एव तादृशो जायते । ३ शुद्धशिवत्वेन ।
४ ग्राह्यग्राहकक्षोभरहितः । ५ तत्तन्निर्माणचतुरस्तत्तदुपादाननिमित्तकारणा-
न्युपादाय स्वतन्त्रं चतुर्दशविधभूतसृष्टिकारी क्लेशकर्मविपाकाशयैः स्वयम-
परामृष्टोऽन्यांश्च तत्र योजयन् स्वकर्मानुसारेण फलदाता पुरुषविशेष ईश्वर
इति । ६ स्वरूपबोधेन हि पशुत्वम्लानिः, तदभावे भिन्नग्राह्यशून्यतायामपि
न पाशच्छेदः । ७ प्रलयाकलः कार्मणमलद्वयभाजनं, विज्ञानकलः
स्वातन्त्र्यहानिरूपाणवमलभाजनम् । ८ स्वातन्त्र्यहान्या ।
९ पशुर्नाम किल चिदचिद्रूपावभास एव। अचिद्रूपत्वं पुनर्मल-
लक्षणम्, तद्रूपमप्याह अज्ञ इत्यादि । १० • अनेनास्या द्विरूपता साधिता ।
तथाहि तस्य च सृजतः परमेश्वरेच्छामयं, तत एव च नित्यं स्रक्ष्यमाणवस्तु-

आ०-१ ] शिवदृष्टिः २५
शिवभट्टारकस्यायुक्तं नित्यनिर्मलस्वभावत्वात् तद्विना १ मलानामेवा-
नुतपत्तेस्तदधिष्ठानात्तेषाम् २ । ततस्तदज्ञानभागणुः तदैव मायाशक्तिवशात्
उत्तिष्ठतीत्याणवमायामलद्वयोद्भवः ३ । कार्ममलश्च तत्प्रभवः ४ । स्वशिव-
त्वमिवेति इवग्रहणं व्यपदेशग्रहणं च अज्ञानात्मकमेतत् न वस्तुतः कश्चित्
ग्राह्यग्राहकभेद इति वक्तुम् । एतच्च ईश्वरप्रत्यभिज्ञायां निपुणं विवेचितम् ।
क्वचिन्महामायापर्यायविद्याशक्तिवशात्तद्रूपत्वेन ५ आत्मानं पश्यन् सर्वथा
विश्वात्मतामनुगतः शान्त इव । अत्रापि इवशब्दो ज्ञानविशेषेण शान्तता,
न तु वस्तुतः सार्वात्म्यविरह इति वक्तुम् । उत्तरत्रापीवशब्दस्तदर्थं
योजनीयः । विद्याशक्तितारतम्यतश्च भेदात् क्वचिद्वैशेषिकादिमत-
केवलेश्वरमात्रदृढाभिमानेन स्थितः, क्वचित् केवलशंभुसंज्ञा शिवभेदेन,
क्वाप्यवस्थाभेदावस्थितविज्ञानमय एवाम्लानपशुभावः मायाख्यमलोप-
स्थापितभिन्नग्राह्यशून्यः प्रलयकेवली भवति । अन्यत्र आत्मबोधी न तु
पुर्यष्टकस्थः, प्रलयाकवलच्च ग्राह्यरहितः, कार्ममलास्पर्शी विज्ञान-
केवलिरूपः ॥ ४३ ॥
इच्छावशेनैवमवस्थानमिति बहुतरवाद्युपेतदृष्टान्तमाह ६--
योगिनामिच्छया यद्वन्नानारूपोपपत्तित्ता ।
न चास्ति साधनं किंचिन्मृदादीच्छां विना प्रभोः ॥ ४४ ॥
गतस्य रूपस्य जडतयाभासयिष्यमाणत्वाज्जडं, सकलकार्यव्यापारादि-
रूपत्वाच्च व्यापकं मायाख्यं तत्त्वमुपादानकारणं, तदवभासकारिणी च
परमेश्वरस्य मायाशक्तिस्ततोऽन्यैवेत्याचार्य्याभिनवगुप्तपादाः । १ न च
मलसम्बन्धेनेत्याह, तद्विनेति । २ परमेशेच्छामयत्वात् । ३ तदुक्तमीश्वर-
प्रत्यभिज्ञायां--
'स्वातन्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता ।
द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥
भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् ।
कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयम् ॥'
इति । ४ मायोद्भवः । ५ शिवत्वेन । ६ बहुतरवादीति--
'न दृश्यते त्वत्प्रतिभासशक्तेः
स्वप्नेऽर्थवैचित्र्यनिमित्तमन्यत् ।
तद्वदृष्टसामर्थ्यतया सदैव
विश्वप्रपञ्चप्रथनेकहेतुः ॥'