शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 32, कुल 188 में से
संदर्भ में पढ़ें१८ उत्पलदेवकृतवृत्त्योपेता [ आ०-१ः
न्यायादिभिरिति१, तैर्न तुल्यत्वं प्राकृत्यां भेददशायां बुद्धियोगात्मनो
ज्ञानस्य तथाभिधानात्, न त्वीश्वरे पररूपे ज्ञातरि, तदुक्तम् एष एव
न्याय इच्छां प्रति स्फुटं ज्ञेयः । इच्छा चितेः प्रत्यगात्माश्रिता भेदमय्येव
उक्ता यान्यैर्मनःसंकल्परूपा२, न तु परमेश्वरस्वभावभूता परापरा-
वस्थास्थिता वा ॥ २६-२८ ॥
सर्वतत्त्वमयतया३ शिवतत्त्वावस्थानमाह--
तदेवं प्रसृतो देवः कदाचिच्छक्तिमात्रके ॥ २९ ॥
बिभर्ति रूपमिच्छात्तः कदाचिज्ज्ञानशक्तितः ।
सदाशिवत्वमुद्रेकात्कदाचिदैश्वरीं४ स्थितिम् ॥ ३० ॥
क्रियाशक्तिसमाभोगात्कदाचित्स्थूलवेदनात् ।
विद्यात्वविद्येशानत्वमन्त्रमन्त्रेश्वरात्मताम् ॥ ३१ ॥
१ 'न चास्य बाह्यकरणैः सिद्ध्यन्ति सकलाः क्रियाः ।
नहि स्मृतिसुखेच्छादौ चक्षुरादीनि साधनम् ॥'
'तेनेच्छास्मृतिसुखदुःखवेदनाना-
माधारो न खलु मनो नचैन्द्रियाणि ।
देहोऽपि व्रजति न तत्समाश्रयत्वं
तेभ्योऽन्यं पुरुषमतः प्रकल्पयामः ॥'
सूत्रकारश्च--'इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्' इति ।
२ न्यायवादिभिः । ३ सर्वतत्त्वमयतयेति, यथोक्तं 'यदिदं
किञ्चिद्गर्भीकृतानन्तविचित्रभोक्तृभोग्यं विभवात्मकं भुवनजातमुक्तं तत्र
यदनुगतं महाप्रकाशरूपं, तन्महासामान्यकल्पं शिवतत्त्वमिति ।' उक्तं च
तन्त्रालोके-
'यान्युक्तानि पुराण्यमूनि विविधैर्भेदैर्यदेष्वन्वितं
रूपं भाति परप्रकाशनिबिडं देवः स एकः शिवः ।
तत्स्वातन्त्र्यरसान्पुनः शिवपदादूर्ध्वे विभाते परं
यद्रूपं बहुधानुगामि तदिदं तत्त्वं विभोः शासने ॥' ( ९।२ )
इति ।
४ ज्ञानशक्तेरुद्रेकात् ।