शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 24, कुल 188 में से
संदर्भ में पढ़ें१० शिवदृष्टिः [ आ०-१
विसर्जनीयभाषणप्रसङ्गे, त्वरितग्रन्थवाचने, धावनविधौ चेति¹ । एतेष्वेवाव-
सरेषु सा पूर्वोक्तक्रमेण सर्वशक्तीनां विलोलता मिश्रीभावः ॥ ६-१० ॥
सुखदुःखात्मकत्वेनाशुद्धत्वाद्धेयेऽस्मिन्कार्ये कथमोन्मुख्यमित्याशङ्कां
निवारयन्नाह—
कुत्सितेऽकुत्सितस्य² स्यात्कथमुन्मुखतेति चेत् ॥ ११ ॥
रूपप्रसाररसतो³ गर्हितत्वमयुक्तिमत्⁴ ।
पञ्चप्रकारकृत्योक्तिशिवत्वान्निजकर्मणे ॥ १२ ॥
प्रवृत्तस्य निमित्तानामपरेषां क्व मार्गणम् ।
आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात् ।
आनन्दमुद्गतं ध्यात्वा तल्लयस्तन्मना भवेत् ॥ ( वि० भै० ७१ )
क्षुताद्यन्ते भये शोके वारे विद्रुते रणे ।
कुतूहले क्षुधाद्यन्ते ब्रह्मसत्ता समीपगा ॥' ( वि० भै० ११८ )
इति । अयमत्र भावः—सर्वशक्तिपरिपूर्णतात्मकं चितो यद्रूपं, तद्यदा
स्वातंत्र्यात् संवित्स्वभाव आमृशति, तत उन्मुखीभूतायां चिद्रूपतायां
तत्प्रसरप्रथमविकासलक्षणायामिच्छाकलिकायां स्थितः सर्वाविभागेन स्थितिं
भाविन उपयोगिरूपस्य प्रमातृप्रमाणप्रमातव्यवर्गस्य विमृशन् भाविभेदाः
शक्तीरभेदकल्पेनैव पिण्डीकृताः सतीर्गोलकशिम्बिकादिविकल्पेनोत्थापयति,
तत एव च भाविनियतक्रमककार्यं जायते—यथा श्लोकं स्मरेयममुमिति
सुस्मूर्षयैकयैव मध्यवर्तिषु वर्णपदादिषु प्रत्येकस्मृतिसन्ततिप्रबोधकारणमेषण-
मन्तरेणैव नियतक्रमकस्मरणपरम्परोदय इति ।
१ यदि हि धावनादौ अभिन्नस्य प्रमातृप्रमेयरूपस्यानिर्देशितविभाग-
स्यापि वस्तुतः प्रकाशो न स्यात्, तत्त्वरितं लिपिपाठे, वेगसरणे, त्वरिता-
भिधाने, रेखातो रेखान्तरं देशाद्देशान्तरं स्थानकरणादेः स्थानकरणान्तरं
च गच्छतस्तांस्तांस्त्यक्तव्यांस्त्यक्तवतोऽपरामर्शतस्तयोस्त्यागादानयोः कर्त्ता-
रमनभिमृशतस्तानि विचित्राणि त्यागोपादानानि कथं भवेयुः परामर्शपूर्व-
कतयैषां दृष्टत्वात् । तदिमानि भवन्ति स्वकारणमनुमापयन्ति, न चासौ
भेदेनैव परामर्श एषामिति । भेदेन हि परामर्शो वाचिकमानसपरिस्पन्दपर-
म्परातोऽभिलापसंकेतस्मरणप्रबन्धसद्भावे त्वरिततैव न निर्वहेत् ।
२ स्वस्वरूपानन्दविश्रान्तस्य । ३ स्वरूपप्रसरणमेवास्यानन्दास्वाद
इत्यतः । ४ अयुक्तिमदयोग्यमित्यर्थः ।