शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 26, कुल 188 में से
संदर्भ में पढ़ें१२ शिवदृष्टिः [ आ०-१
किञ्चित् अख्यातिरूपमात्रत्वात् । न तत्पूर्वस्य कस्यचित्प्रथा१ । विश्वा-
त्मत्वं च चिन्मयस्य प्रतिबिम्बानामिव२ दर्पणपरमार्थत्वेन भावानां
स्वच्छचिन्मात्रसतत्त्वतयावस्थानात् । एतच्च सर्वमीश्वरप्रत्यभिज्ञाटीकायां
निपुणमालोचितम् । सर्गस्थितिप्रलयानु३ग्रहतिरोधानलक्षणपञ्चप्रकारं
कृत्यं यस्य तस्योक्तिः पञ्चविधकृत्यो यदुच्यते तच्छेवत्वं ततः निज-
कर्मणे तत्त्वादिरूपप्रसरणरूपाय४ प्रवृत्तस्य निमित्तानां५ दयादीनां क्व
मार्गणं निमित्तान्वेषणप्रसङ्गस्यैवाभावात् कथमेवं प्रसरतीति न चोद्यमिति
तावदकुत्सितविषयमेवौन्मुख्यमिति समर्थितम्६ ॥ ११-१२ ॥
तदिदानीं निदर्शनेन स्फुटीकर्तुमाह—
गच्छतो निस्तरङ्गस्य जलस्यातितरङ्गिताम् ॥ १३ ॥
आरम्भे दृष्टिमापात्य तदौन्मुख्यं हि गम्यते ।
व्रजतो मुष्टितां पाणेः पूर्वं कम्पस्तदेक्ष्यते ॥ १४ ॥
१ प्रथा–प्रसरणम् । २ प्रतिबिम्बेति, यथोक्तमीश्वरप्रत्यभिज्ञायां—
‘स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् ।
अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते ॥’ ( १।५।१० )
इति ।
३ बीजाङ्कुरादौ यो मायीयो व्यवहारो लौकिकदृशा भासते, स
तिरोधित्कृतः । यस्तु तत्रापि पारमार्थिकतयैव स्थितः, सोऽनुग्रहशक्ति-
कृतः । एतदेव हि अस्यान्यवादिभ्यो विशेषः, यत्सततमेव पञ्चकृत्यविधान-
मिति यदुक्तं—
‘मुहुर्मुहुरविश्वान्तस्त्रैलोक्यं कल्पनाशतैः ।
कल्पयन्नपि कोऽप्येको निर्विकल्पो जयत्यजः ॥’ (स्त० चि० ११२ )
इति । ४ सृष्ट्यादिरूपेण तत्त्वादिप्रसरणं, तत्र पारमार्थिककाल्पनिककार्य-
कारणभावादौ तिरोध्यनुग्रहशक्ती । ५ निमित्तानामिति । यदाहुरेके
‘ईश्वरः स्वात्मन्यवाप्तसर्वकामः, किमस्य सृष्ट्यादिना फलमिति । सर्वो
हि यः कश्चित्प्रवृत्तिकारी प्रयोजनमुद्दिश्यैवाभिमुखीभवति, तच्चास्या-
वाप्तकात्वान्न संभाव्यम्’ इति भगवांल्लोकानुग्रहार्थमेव प्रवर्तते इति
कथने दुःखमयीं कस्मात् सृष्टिं कुरुते दयालुत्वात्तस्येति दयादीनां निमित्तानां
क्वास्मिन्नये पर्येषणा ।
६ समर्थितमिति—अशक्यसाधनमपि साधितम् ।