शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 77, कुल 188 में से
संदर्भ में पढ़ें६० शिवदृष्टिः [ आ०-२
प्रतिभा¹ कथिता या वा सानुमानं न तच्च ते ॥ ६४॥
न चापि प्रतिपाद्यस्य कादाचित्कप्रतीक्षणम् ।
अथ पश्यन्त्यां प्रतिभा प्रमाणं² तत्प्रतिभाप्रभासनं निर्निमित्तमस्ति,
कूपे जलमित्यादिवन्न प्रमाणम् । अथात्मस्थितिरेव³ विलक्षणा ममैवं
शंसतीति प्रतिभा, तदात्मस्थितेर्विशिष्टायाः साध्याव्यभिचारनिश्चयेनार्था-
न्तरावगमेऽनुमानतैव⁴, तच्च भवतामनिष्टम्, अव्यभिचारानिश्चये त्वनव-
गमकत्वं, युक्तिवशाच्चानुभवः कदाचिद्भावी⁵ प्रतिभा वा भवेत्, पश्यन्ती⁶
१ तत्र केचित्प्रतिभाप्रत्यक्षं प्रमाणमित्याहुः । तथा च--
'अस्ति चानागतं ज्ञानमस्मदादेरपि क्वचित्,
प्रमाणं प्रातिभं ह्यो मे भ्रातागन्तेति दृश्यते ॥
नानर्थजं न संदिग्धं न बाधविधुरीकृतम् ।
न दृष्टकारणं चेति प्रमाणमिदमिष्यताम् ॥
क्वचिद्बाधकयोगश्चेदस्तु तस्याप्रमाणता ।
यत्रापरेद्युरभ्येति भ्राता तत्र किमुच्यताम् ॥'
तदेतच्छिथिलयितुमाह 'प्रतिभा कथिता या वा' इति । अत्र
वाशब्दोऽस्य स्फुटं प्रत्यक्षानुभवाग्राह्यतां द्योतयति । तथा चानर्थजमिदं
ज्ञानं भ्रातुस्तज्जनकस्य तदानीमसत्त्वात् । अथोच्यते भावितयैनं गृह्णाति ।
तत्र भावितया ग्रहणं ह्यघटमानं भावित्वं नाम प्रागभावः, अभावस्य च
भावेन कः संबन्ध इति । यदि मन्यसे अस्ति कूपे जलमिति प्रतिभा, तथा च
नानागतानर्थजत्वशङ्का ततश्च प्रमाणमेवेत्यपि निरस्यति निर्निमित्तमिति ।
तच्च संशयात्मकत्वादस्य यद्युच्यते सोऽपि तदा नानुभूयते । यथा किमिदं
रजतमुतारजतमिति । अपि तु रजतमिति प्रतीतिः । न हि संशयानाः
प्रवर्तन्ते लौकिकाः, किं तु निश्चिन्वन्त एव विषयमिति किमनुभूयमान
एवारोप्यते संशयः, एकतरग्राह्यपि चायं प्रत्ययः तन्निश्चयोपायविरहात्संशय-
कोटिपतित एव भवतीति निर्निमित्तमेव । २ यदि हि प्रमाणतयाऽसौ गृह्यते
कथं क्वचिद्विसंवदेत् । अप्रमाणतया तु गृह्यमाणः कथं पुमांसं प्रवर्तयेत् ।
३ प्रत्यक्षतायां बाधमुक्त्वाऽनुमानवादी समर्थयति अथेति । ४ अयं भावः ।
यथा हि पर्वतादौ धूमदर्शनाद्धूमाव्यभिचारादग्न्यर्थन्तरनिश्चयः हृदादौ
व्यभिचारदर्शनात् नार्थविगमः, तथा विलक्षणयात्मस्थित्या पश्यन्त्यर्थ-
साध्याव्यभिचार इति प्रतिभानुमानपक्षे कैश्चिन्निक्षिप्ता । ५ कादाचित्को-
ऽनुभवः प्रतिभेत्यन्य इत्यर्थः । ६ पश्यन्ती हि भवद्भिः सदा प्रकाशमानता-