सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 181, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 181

१६४ शिवदृष्टिः [ आ०-७
नैतच्छात्रं विना प्रोक्तं कायाकारेण कायिकम्।
जलेन जलरूपं स्यादित्याद्यैर्वचनैः स्मृतम्॥ ६६ ॥
सर्वव्याप्त्या स्नेहपूर्णं स्त्र्यादिकायात्मचिन्तनात्।
जगद्विधेयतामेति किमुतैकशरीरकम्॥ ७० ॥
सर्वमस्मीति रुचिरं रूपमात्मनि चिन्तयन्।
अहमेव मत्परो न भवेदाकर्षणक्रमः॥ ७१ ॥
सर्वस्मिन् मयि कस्यापि कायं ध्यायन् जुगुप्सितम्।
ममैवासौ च विद्वेष्यो विद्विष्टो जायते ततः॥ ७२ ॥
व्यापकत्वे शत्रुदेहं स्वं भ्रमन्तं विचिन्तयेत्।
विद्रुतं करभारूढं विश्वमुच्चाटितं भवेत्॥ ७३ ॥
व्याप्तौ किञ्चिद्रिपोर्देहं मदीयं संहराम्यहम्।
जडरूपोऽभवामीति चिन्तया मरणं स्थितम्॥ ७४ ॥
व्याप्तिदार्ढ्यं नक्तमेकं चन्द्रं वात्मानमुत्थितम्।
विचिन्त्य प्रस्रवन्तं के कस्याप्याप्यायनं भवेत्॥ ७५ ॥
चित्तत्त्वं चिन्तयन् रूपं व्यापकं वाखिलात्मसु।
अविनाश्येकपिण्डे वा स भवेदजरामरः॥ ७६ ॥
स्रवत्कृष्णामृतं मेघमात्मोपरि निजात्मकम्।
ध्यायतो बालमात्मानं सा जरा संप्रलीयते॥ ७७ ॥
ध्यानं नामात्र यत्सर्वं सर्वाकारेण लक्ष्यते।
भावनाचक्षुषा साध्वी सा चिन्ता सर्वदर्शिनी॥ ७८ ॥
येन येनेन्द्रियेणार्थो गृह्यते तत्र तत्र सा।
शिवता लक्षिता सत्या तद्ध्यानमपि वर्ण्यते॥ ७६ ॥
यस्यां यस्यां प्रतीतौ तु शिवोऽस्मीति मनोगमः।
तस्यां तथैव चिन्तायां तद्ध्यानमपि जल्पितम्॥ ८० ॥
यस्मिन्नर्थे सदात्यागो गच्छतस्तिष्ठतोऽपि वा।
धावतः खादतो वापि स योगः परयोगिनः॥ ८१ ॥
भावितेऽभाविते वापि शिवत्वे शिवतैव मे।
सर्वदा पितृमात्रादितौल्यदार्ढ्येन योगिता॥ ८२ ॥