सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 182, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 182

आ०-७ ] उत्पलदेवकृतवृत्त्योपेता १६५
तथाहि कोशहेमादिसादृश्यं योगसत्यता।
शिवोऽस्मीति मदिच्छात् सर्वभावप्रवर्तनम् ॥ ८३ ॥
अत एव शिवः सर्वमिति योगोऽथ चेतसि।
सन्ततं शक्तिसन्तानप्रसरेण सदैव मे ॥ ८४ ॥
अनिरुद्धो जपोऽस्त्येव सर्वावस्थास्वसौ जपः।
नानाकारैः सदा कुर्वन्नुदयं सर्ववस्तुगः ॥ ८५ ॥
अभ्यासेनास्मि सोऽप्यत्र जपः परम उच्यते।
संकल्पाज्जनयन्नस्मि स्थितः शब्दानथो मुखे ॥ ८६ ॥
सो हि नाम जपो ज्ञेयः सत्यादिस्त्रिविधो हि सः।
न मे बन्धो ऽन मे मोक्षस्तौ मलत्वेन संस्थितौ ॥ ८७ ॥
प्रतिपत्त्यानया स्नानं निर्मलीकरणं मतम्।
दुःखे वापि सुखे वापि सर्वासु प्रतिपत्तिषु ॥ ८८ ॥
शिवोऽस्मीतिम नोल्हादो जलस्नानं परं मतम्।
चिन्निर्मला तन्मयं हि जगदस्मि तथाविधः ॥ ८६ ॥
इत्यास्थाजलशौचेन शुद्धिस्र्नानं तथोदितम्।
सर्वभावाः शिवाकारा अन्तर्भूताः शिवानले ॥ ६० ॥
सोऽहं शिवः सुतृप्तोऽस्मि होम इत्युदितः परः।
अत्राकारे न यन्मेऽस्ति तदाकारान्तरेऽस्ति मे ॥ ६१ ॥
तस्मादस्मि निराकांक्षस्तृप्त्यान्यो होम ईदृशः।
पूजनान्नास्ति मे तुष्टिर्नास्ति खेदो ह्यपूजनात् ॥ ६२ ॥
पूजकैरविभेदेन सदा पूजेति पूजनम्।
अत्राकारे च मे पूजा या स्यात् सादाशिवात्मनि ॥ ६३ ॥
लिंगादिके पूजितोऽस्मि सदा पूजेति वा स्थिता।
पूजकः पूजनं पूज्यमिति सर्वं शिवः स्थितः ॥ ६४ ॥
किमेतेनात्मभावेन तृप्त्या वा ऽपरपूजनम्।
सर्वाकारेषु भोग्येन यजनं मम वर्तते ॥ ६५ ॥
भुञ्जेऽहं यत्र तत्रापि भोगलग्नः प्रतीतितः।
शिवोऽस्मि साधनाविष्टः शिवोऽहं याजकोऽप्यहम् ॥ ६६ ॥