सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 180, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 180

आ०-७ ] उत्पलदेवकृतवृत्त्योपेता १६३
सर्वस्य श्रेयसो नूनं सत्यान्निर्गतता मता।
मूले समर्थतावेशो मध्ये तुल्यत्वमेतयोः ॥ ५५ ॥
कार्यो मूलसमावेश इति ज्ञात्वा तथोदयः।
सर्वामूर्तत्वतत्त्वास्थाबुद्धिदृष्टप्रसक्तितः ॥ ५६ ॥
सम्यगुत्पद्यतेऽन्तर्धिरूपणं भक्तिनिर्गतिः।
मतिर्ममत्वनिर्माणमनसां महतां तराम् ॥ ५७ ॥
प्रसरत्यस्ति विज्ञानं सर्वदिक्कमबाधितम्।
ममत्वमानसे साधु साधूनां सक्तिमागते ॥ ५८ ॥
संकल्पप्रभवं सर्वं जगदेतदनन्तकम्।
सर्वं ममेति निर्व्यूढे स्यात्तदेकमयो भवः ॥ ५९ ॥
अभिमानात्तथैवैषां भावसर्गः प्रवर्तते।
प्रत्येकदेवग्रामस्य ममताभिनिवेशतः ॥ ६० ॥
दिव्यानि तान्ययत्नेन प्रसरन्ति समन्ततः।
सामस्त्येन प्रसर्पन्तो निर्विशेषा हि केवलाः ॥ ६१ ॥
सदा क्रीडावशादेव कामाः स्युः सर्वगोचराः।
विशेषममतावेशप्रवेशवशतो महान् ॥ ६२ ॥
तनुस्वरूपनिर्माण/परिमाणभवोदयः ।
शिवतत्त्वे त्रिधाभूते स्वच्छकालकलाकले ॥ ६३ ॥
सकले च समासक्तस्तत्तद्रूपोपरूपणम्।
सामर्थ्येऽखंडसामर्थ्यं सतते ज्ञानवीर्यता ॥ ६४ ॥
ईशे समग्रकर्तृत्वं सरस्वत्या मनूत्तमः।
प्रमेये ममतावेशान्निर्मिणोति नवं जगत् ॥ ६५ ॥
कलने चिद्घनत्वं स्याद्भेदने सर्वचिद्गमः।
स्नेहे तु सर्वकामत्वं कालात्सर्वर्तुवर्तनम् ॥ ६६ ॥
नियमे सर्वयमनं कैवल्यं प्रलयाकले।
स्वात्मनो ह्यनिरुद्धार्था निरूपाधिविभूतिका ॥ ६७ ॥
सर्वाकाराभिमानेन ममेतिदृढसक्तिना।
सर्वाकारसमापत्तिरनन्तैवोपजायते ॥ ६८ ॥