सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 132, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 132

आ०-४ ] उत्पलदेवकृतवृत्त्योपेता ११५
तस्यापि व्यवहारस्य किं चिदुद्गमात् शिवावाप्तिः शिवरूपते-
ष्यते अनायासागतस्य शिवतेत्यर्थः । एवं चेत् कथमस्य व्यवहारस्याप्य-
सत्यतोक्ता, सत्य एवायमेवं सति स्यादित्यर्थः । सत्यं, किं तु व्यव-
हारतयैवाध्यस्य व्यवहारस्य सत्यत्वं, न तु निबन्धनात् निबन्धनत्वा-
त्प्ररूढत्वादित्यर्थः ॥
विकल्पादेः¹ सनुत्पत्तिः सत एव प्रजायते ॥ १३ ॥
नाभाष्य व्यवहारार्थमेवं वास्त्विति निश्चितम् ।
तथैवास्तु शिवावस्था केनासौ विनिवारिता ॥ १४ ॥
न विकल्पादेः² स्वतन्त्रात् रजतादिज्ञानाच्च निबद्धत्वेन सत
एवार्थस्योत्पत्तिः संपद्यते । किं तर्हि, तथाभाष्य संकेत्य व्यवहारार्थमेवं
कूटदीनारैः क्रयोऽस्तु, अद्यारभ्य कालगणनायामयं संवत्सरः संवत्सरा-
रम्भो वास्त्विति । निश्चितं निश्चयः । अथवा एवं वस्त्वपि सत्यमपि
कालादीति निश्चितव्यवहारार्थम् । तस्य च तथैवास्तु शिवत्वेनावस्थितिः,
केन विनिवारिता चिदुद्गमात् शिवत्वलक्षणयोगात् । विकल्पस्य व्यव-
हारस्य सत्यत्वासत्यत्वपक्षभेदे प्राक् निमित्तमुक्तं यत्प्रकाशमानस्य
सत्यत्वे, सत्यत्वमेव । चिद्भेदाख्यातिमयत्वादसत्यत्वमिति³ एवं च सर्वत्रैव
न विस्मरणीयम् ॥
मिथ्यात्वं⁴ क्रियते कस्य किं काले यन्न तद्भवेत् ।
काल एव स न भवेदिति चेन्नैव कुत्रचित् ॥ १५ ॥
१ अथेदानीं यतौ न कथंचनापि व्यवहारेण कस्यापि सत्यत्व-
मस्ति, ततो यथा विकल्पादौ सत एव नोत्पत्तिः । अथ चासतोऽपि
प्रकाशबलेन व्यवस्थितत्वासत्त्वमभ्युपेयते तथैव संकेत्यादिव्यवहारार्थमेव
कूटदीनारैर्व्यवहारेऽपि प्रकाशबलेन व्यवस्थापितत्वात् सत्त्वं, यथैव
वस्तुतत्त्वमनपेक्ष्यापि कालादिकल्पनाव्यवहारस्तत्तत्प्रमातृकल्पितस्तथा
यद्यस्ति तथास्तु इत्याह विकल्पादेरिति । २ यथा विकल्पादेः स्वतन्त्रा-
ज्ञानाद्रजतादिज्ञानाच्चासतोऽप्यर्थस्य सत्यत्वमेवाभ्युपगतं तथासत्य-
स्यापि कूटदीनारादिव्यवहारस्य कालादिव्यवहारस्य च स्थितत्वात्कथं
न सत्यतेति । ३ चिद्भेदाख्यातिमयत्वेन न कथञ्चनापि सत्यत्व-
मित्यर्थः । ४ तदेवं व्यवहारसत्यत्वेन न कथंचन सम्यक्त्वमिथ्यात्व-