शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 133, कुल 188 में से
संदर्भ में पढ़ें११६ शिवदृष्टिः [ आ०-४
अकाले जननं किंचिद्बाध्यते वा जनिक्रिया ।
कृत्वा कार्यं क्रिया याता गतायां किं प्रबाध्यते ॥ १६ ।
बाधके च प्रमाणे सति नेदं रजतं नेदं रजतं शुक्तिका,-इति
निषेधनिष्ठतया प्रतीतौ¹ मिथ्यात्वं स्यात् । तेन² बाधकेन प्रमाणेन
मिथ्यात्वं कार्यम् । तत्कस्य क्रियते, तत्र किं यस्मिन् काले तद्रजतता भवेत् ।
स काल एव न भवतीति मिथ्यात्वमित्यभ्युपगमः । तन्न । नैव हि अकाले
कालाभावे कस्यचिज्जननं नाम किंचित्कालरहितायाः क्रियाया अयोगा-
दित्यर्थः । जनिक्रिया वा यदि बाध्यते, तन्न । रजतादिकार्यं कृत्वा क्रिया
समाप्ता । तस्या असत्याः को बाधार्थः स्वयमेव तस्या अभावात् । इदानीं³
च बाधविषयस्याभावात्को बाधः ॥ १६ ॥
अथानुभवगा⁴ बाधा नानुभूतोऽन्यथा भवेत् ।
अथेन्द्रियस्य बाध्यत्वं तत्कालं यादृगिन्द्रियम् ॥ १७ ॥
तदान्ध्यं जन्यते केन तस्य कालान्तरस्थितेः ।
सर्वैः समत्वं बाधो वा संबन्धे जननं कथम् ॥ १८ ॥
निश्चयः, किंतु परमार्थसत्यत्वेनैव सर्वो व्यवहारः सम्यक्त्वमिथ्यात्वरूप
ऽति साधयति मिथ्यात्वमित्यादिपूर्णवाक्यार्थसमन्वयः । अत्र वादिन आहुः
विकल्पबलादेवैतत्सिद्ध्यतीति न 'तथैवास्तु शिवावस्था केनासौ विनि-
वारिता' इति । तथाहि समस्तान्तर्बहिर्व्यवहारव्यापकसत्यासत्यप्रविभाग-
निश्चयनिबन्धनभूतोऽस्ति ह्ययं बाधव्यवहार इति तदेतदनुपपन्नमित्याह
मिथ्यात्वमिति । १ प्रतीतौ--रजतज्ञाने । २ तेनेति, अयं भावः--किमिद-
मुवतं तथा तथा सम्यङ्मिथ्यात्वाभ्यां चिदभिव्यक्तेः शिवोदयात्सर्वोऽयं
चित्रप्रसरमय इति । बाधकेन प्रमाणेन मिथ्यात्वस्य मिथ्याकल्पितत्वात्,
ततश्च व्यवहारसत्यत्वमेव सत्यत्वमिति न सर्वत्र सर्वथा तथात्वमिति
नैतत्सिद्धमित्याह तत्कस्येति । करयेति सामान्येन निर्दिष्टं विशेषेण विकल्प-
यति तत्रेत्यादि । ३ शुक्तिकाज्ञाने । ४ तदेदं कार्याभावे बाधदूषणमुक्त्वा
कारणत्वेऽपि बाधव्यवहारस्य दूषणमाह अथानुभवेति, तत्रादौ तावत्
कार्यकारणयोर्मध्यमवलम्ब्य पृच्छति यदीति । तथाहि विषयापहारो हि
बाध इति ते विदुः । सोऽपि न कथंचनाप्युपपन्न इत्याह तन्नेति प्रतिभा-