शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 131, कुल 188 में से
संदर्भ में पढ़ें११४ शिवदृष्टिः [ आ०-४
व्यक्तेः, तेन तेन रूपेण शिवस्य प्रसरोऽयं यतः । घटज्ञानरजतज्ञान-
योश्च द्वयोरपि सत्यत्वे सम्यग्मिथ्यात्वभेदस्तर्हि कथम् । व्यवहाराय
व्यवहारप्रयोजनोऽसौ । न च अप्ररूढत्वात्१ व्यवहारसत्यत्वं वा सत्यत्वं
भवति ॥ ६ ॥
तथा२ च देशे क्वचन राजाज्ञा जायते यथा ।
व्यवहारोऽस्तु दीनारैरेतैरव्यवहारगैः ॥ १० ॥
प्रवर्तते तथाभूतैरन्यत्रापि तथान्यथा ।
राजाज्ञया कूटदीनारैरपि व्यवहारोऽस्त्येव । तथान्यत्रापि इच्छा-
मात्रात् यथासंकेतं वस्तु अनपेक्ष्यैव कालव्यवस्थारम्भादिव्यवहारः ॥
व्यवहारस्य३ सत्यत्वे सर्वत्रासत्यतैव ते ॥ ११ ॥
सत्यत्वे तस्य हानिः स्यात्पक्षेऽभ्युपगते किल ।
यदि पुनरप्ररूढस्य व्यवहारस्यासत्यस्यापि सत्यतेष्यते, तदेवं-
जातीयतया सर्वमिदं जगत्सत्यं स्यात् असत्यतापरमार्थं व्यवहार-
वदित्यर्थः । तस्य जगतः परमार्थतः सत्यत्वे सत्ययं दोषो व्यवहारसदृश-
सत्यतात्मकः स्यात्तव । एवं च सर्वसत्यतावादपक्षेऽभ्युदिते शास्त्रोदिते
हानिः स्यात् ॥
तस्यापि४ किं शिवावाप्तिः कथमुक्ता ह्यसत्यता ॥ १२ ॥
व्यवहारतयैवास्ति सत्यत्वं न निबन्धनात् ।
तथा मिथ्याज्ञानविकल्पानां सत्तैव चिद्व्यक्ति विना न सिद्धा, चिद्व्यक्तौ
च स्फुरत्तारूपायां सत्यां तेषामपि प्रकाशाभेदात्सर्वप्रतिष्ठारूपपरमार्थत्वान्न
मिथ्यात्वं नाम किंचन संभवति । १ निश्चयेनादृढत्वात् । २ अत्र दृष्टान्त-
माह तथा चेति, यदि च व्यवहारसत्यत्वेन सत्यत्वं तर्हि व्यवहारसत्यत्वे
व्यवहारगैरेव दीनारैः सर्वथा व्यवहारः स्यात् अव्यवहारगैस्तु कथं, तेषाम-
सत्यत्वात् । तथा च तेषामपि कदाचित्सत्यत्वे कथं व्यवहारगं सत्यत्वम-
सत्यत्वं वेति न व्यवहारगेन सत्येनासत्येन वार्थक्रियाकारित्वमित्यर्थः ।
३ अत्रातिप्रसङ्गमाह व्यवहारस्येत्यादिना । ४ ननु व्यवहारासत्यत्वं
यदि चिद्व्यक्तिं विना सेत्स्यति तदा तदसत्यमेवास्तु यतस्तदपि चिद्व्यक्तिं
विना न सिद्ध्यतीति कथमसत्यत्वं तत्र, यदि च चिद्व्यक्तिस्तत्र नास्ति
तर्हि कथमसत्यत्वमित्याशङ्क्याह तस्यापीति ।