शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 130, कुल 188 में से
संदर्भ में पढ़ेंआ०-४ ] उत्पलदेवकृतवृत्त्योपेता ११३
कथं परमार्थमात्रत्वेन शिवः, जडोऽपि कथं न परमार्थः १ ? तन्न । जडस्य
सत्तैव कथं चिद्व्यक्तिं विना सिद्धा । स्फुरद्रूपता हि सत्ता । स्फुरद्रूपता च
प्रकाशमानता । ततश्च जडता तावन्नास्ति । प्रकाशमानता हि प्रकाशाभेदः।
प्रकाशश्चानपह्नवनीयः सर्वप्रतिष्ठारूपः परमार्थः । सर्वेषां च घटादीनां
प्रकाशरूपतया विशेषाभावादेकप्रकाशात्मता, तत एवैकशिवत्वम् । एत-
दीश्वरप्रत्यभिज्ञायां २ विस्तारितम् ।।
मिथ्याज्ञानविकल्प्यानां सत्त्वं चिद्व्यक्तिशक्तता ॥ ७ ॥
विद्यते तत्तदत्रापि शिवत्वं केन वार्यते ।
इति चेदेषु सत्यत्वं स्थितमेव चिदुद्गमात् ॥ ८ ॥
तथा शिवोदयादेव भेदो मिथ्यादिकः कथम् ।
व्यवहाराय ३ सत्यत्वं न च वा व्यवहारगम् ॥ ९ ॥
मिथ्याज्ञानविकल्पनीयानां ४ रजतसर्पादीनां घटादीनामिव
चिद्व्यक्तिशक्तिता प्रकाशमानता नाम विद्यते, तदेव सत्त्वं परमार्थत्व-
मतोऽपि तच्छिवत्वम् । अनिवार्यं च एतदिष्यत एव एषु सत्यत्वं चिदभि-
१ अयं भावः- यदि घटादिर्जडरूपस्तर्हि तस्याप्रकाशनात्कथं
परमार्थमात्रत्वमपीति कथं जडरूपत्वेन प्रथनम् । अथ प्रकाशत इति
प्रकाशमानतास्य स्फुरद्रूपता ततश्च जडत्वेनास्य केन व्यपदिश्यत इति ।
२ तत्र तु--
'घटोऽयमित्यध्यवसा नामरूपातिरेकिणी ।
परेशशक्त्यात्मैव भासते न त्विदन्तया ।।'
३ ननु किमिदमुच्यते,-
तथा यत्र सदित्येवं प्रतीतिस्तत्कथमसत् ।
यत्सत्तत्परमार्थो हि परमार्थ.........॥
इत्यादि, केवलं सन्मात्रत्वेऽतिप्रसङ्गः । न हि रजतादावर्थक्रिया
लेशमात्रेणाप्यस्तीत्यर्थक्रियाकारित्वं सत्त्वमिति तत्र तत्र निर्णीतं, रजतादौ
च मिथ्याज्ञाने काचनाप्यर्थक्रिया नास्ति । यदि च चिद्व्यक्तिशक्तताया एव
घटादाविव तत्रापि प्रतिश्रूयेत तर्हि कोऽयं सम्यक्त्वमिथ्यात्वनयो लोकप्रसिद्ध
इति तदेतत्समर्थयति व्यवहारायेति । ४ यथा जडस्य कथं सत्तैव चिद्-
व्यक्तिं विना सिद्धा, चिद्व्यक्तौ च सत्तायां स्फुरद्रूपतायां प्रकाशमानतायां
सिद्धायां प्रकाशाभेदात्सर्वप्रतिष्ठारूपपरमार्थत्वान्न जडता नाम काचनास्ति,
८