शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 125, कुल 188 में से
संदर्भ में पढ़ें१०८ शिवदृष्टिः [ आ०-३
एकाधिष्ठानतो वापि तेषामपि न दूषणम् ॥ ९७ ॥
आन्तरे कृमिचैतन्ये चित्रता स्वामिभृत्यवत् ।
तावदेकचित्स्वरूपशिवप्रसरणेन वा ॥ ९८ ॥
पातञ्जलादीश्वरेण¹ न साम्यमविभेदतः ।
इह तद्ब्रह्म विज्ञेयं तस्मात्सर्वं स्थितं शिवः ॥ ९९ ॥
अथवा तेषामणुभेदवादिनां नानाचित्त्वं न दूषणम्, यत एकचिद्रूप-
शिवाधिष्ठिता नानात्मान एकस्यैव निजमायाप्रथनादिति यथा शिवाद्ध्वय-
दर्शने । अस्माभिः सविस्तरमिदमपि ईश्वरप्रत्यभिज्ञायामेव समर्थितम् ।
अभेदाख्यातिश्च² तारतम्येन भिद्यते पुर्यष्टकभोगोद्रेकात् । चित्रता क्रिम्या-
दिचैतन्ये स्वामिभृत्यरूपशक्ताशक्तचैतन्यद्वयात्मकत्वात् । अथवा³ तावत्परि-
माणमनेकक्रिम्यादिपर्यन्तमेकचित्स्वरूपस्य शिवस्य यत्प्रसरणं, तेन । अत्र
पक्षे पुर्यष्टकाधरोकारेण चितेरुद्रेकात् शिवाद्भिभेदस्तस्यैव तथारूपत्वात् ।
अत एव मायाशक्तिवशात् तथैकत्वाप्रथनादनेकत्वम्, वस्तुतस्त्वभेद
इति । पातञ्जलेन पुरुषविशेषेणेश्वरेण, तथा वैशेषिकादिस्थितेन न
साम्यं तत्र भेदाभ्युपगमात्, इह त्वभेदः । तद्वदीश्वरदर्शने न ज्ञेयम् ।
अतः सर्वमेव भावजातं शिवात्मकं स्थितं तथाभावे सर्वदूषण-
परिहारादिति ॥ ६६ ॥
इति श्रीशिवदृष्टिवृत्तौ श्रीमदुत्पलदेवपादनिर्मितायां तृतीयमाह्निकम् ॥
१ ननु च यदि चितेरुद्रेकात्तत्तच्छक्तिमद्व्यपदेशस्तर्हि पातञ्जलमतं,
तैर्हि ‘क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः’ इति लक्षणं
कृतमित्येतदपि शङ्कित्वा समर्थयति पातञ्जलादीति । २ ननु चास्तु सर्वथा
शिवैक्यं, तथापि किंकृतोऽयं विचित्रताभेदः यतः कोऽपि बहुशक्तियुक्तः,
कोऽपि न्यूनशक्तियुक्त इत्यत आहाभेदाख्यातिरिति । ३ ननु च यदि
पुर्यष्टकभोगोद्रेकाच्चित्रता, तर्हि तदधीनत्वात्तस्यापि स्वातन्त्र्यं, कृतं परेश-
स्वातन्त्र्येणेत्याशङ्क्य पक्षान्तरेण कथयति अथवाति ।